भारतकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 221, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 221

१९२ (१.४.६) तैत्तिरीयब्राह्मणम् व्यवहितं करोति । किंच सामद्वयस्य वागादियुग्मरूपत्वाद्रागादिभिरपि व्यवधानं करोति । वित्तं पूर्वं लब्धं वेद्यमितः परं लब्धव्यम् । आज्यस्तोत्रेषु सामविशेषं विधाय तृतीये पृष्ठस्तोत्रे सामविशेषं विधत्ते- अ॒भि॒व॒र्त्तो ब्र॑ह्मसा॒मं भ॑वति । सु॒व॒र्गस्य॑ लो॒कस्या॑भि॒वृत्त्यै॑, इति । ब्रह्मसंबन्धिनि पृष्ठस्तोत्रेऽभिवर्ताख्यं सामोद्गाता गायेत् । यामृचं ब्रह्मा शंसति तस्यामृच्युद्गात्रा गातव्यं साम ब्रह्मसाम्न् । अभिवर्तसाम्ना स्वर्गोऽभिमुखत्वेन वर्तते । अथाहर्विशेषं विधत्ते- अ॒भि॒जिद्भव॑ति । सु॒व॒र्गस्य॑ लो॒कस्या॒भि जि॑त्यै । वि॒श्व॒जिद्भव॑ति वि॒श्वस्य॑ जित्यै॑, इति । अभिजिद्विश्वजिताख्ययोरेकहयोरन्यतरं कुर्यात् । उभयोरपि जयहेतु त्वात् । अथापरं विशेषं विधत्त- यस्य॒ भूया॑ँसो य॒ज्ञक्रत॑व इत्या॑हुः ।। स दे॒वता॑ वृङ्क्त॒ इति॑ । यद्य॑ग्निष्टो॒मः सोम॑ः पु॒रस्ता॑त्स्यात् (३) । उ॒क्थ्यं॑ कुर्वीत ।। यद्यु॒क्थ्य॑ः स्यात् । अ॒ति॒रा॒त्रं कु॑र्वीत । य॒ज्ञक्रतु॑भिरे॒वास्य॑ दे॒वता॑ वृङ्क्त, इति । उभयोर्मध्ये यस्य यजमानस्य यज्ञक्रतवो भूयांसोऽङ्गभूतैर्यज्ञैर्युक्ताः प्रधानक्रतवोऽनुष्ठेयधर्मबहुला भवन्ति स तादृशो यजमानोऽल्पध- र्मानुष्ठायिनोऽन्यस्य यजमानस्य देवता विनाशयति । अतः परस्तादन्यस्य यजमानस्य गृहे यद्यग्निष्टोमाख्यः सोमः स्यात्तदा स्वयं ततोऽधिकमुक्थ्यं कुर्वीत । यद्युक्थ्यस्तदा स्वयं ततोऽधिकमतिरात्रं कुर्वीत । एवं स्वकीयैरधिकयज्ञक्रतुभिरेवेतरस्य देवता विनाशयति । तस्य फलाधिक्याभाव एव विनाश इत्युच्यते । विशेषान्तरं विधत्ते-