तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 222, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् (१.४.६) १९३ यो वै छन्दो॑भिरभि॒भव॑ति । स सं॑ ॅ सुन्व॒तोर॒भिभ॑वति । सं॒वेशा॑य त्वोपवे॒शाय॑ त्वेत्या॑ह । छन्दा॑ ॅ सि॒ वै सं॒वेश॑ उ॑पवे॒शः । छन्दो॑भिरे॒वास्य॒ छन्दा॑ ॅ स्य॒भिभ॑वति, इति । यो यजमानः स्वकीयैश्छन्दोभिरितरस्य च्छन्दांस्यभिभवितुमुद्युङ्क्ते स एवं संसुन्वतौर्मात्सर्य्येण सोममभिषुण्वतोर्मध्ये परकीयाणि च्छन्दांस्याभिभवितुं समर्थो भवति । तस्मात्तत्सामर्थ्याय संवेशादिमन्त्रहोमं कुर्यात् । संप्राप्यावस्थितिः संवेशः । तत्रैवाऽऽसनमुपवेशः । हे देव मम संवेशाय त्वां भजे तथोपवेशाय च त्वां इत्येवं मन्त्रं होमकाले ब्रूयात् ।। एतन्मन्त्रशेषश्चसंहितायां तृतीयकाण्डे समाम्नातो व्याख्यातश्च । स्वकीयानि च्छन्दांस्येव संवेशोपवेशौ । तत्साधनत्वात् । अतः स्वकीयैश्छन्दोभिरेव होमतुष्टैरन्यस्यच्छन्दांस्यभिभवति । पुनरप्यन्यं विशेषं विधत्ते- इ॒ष्ट॒र्गो वा ऋ॒त्विजा॑म॒ध्व॒र्युः (४) । इ॒ष्ट॒र्गः खलु॒ वै पूर्वो॑ऽर्त्तुः क्षी॑यते । प्रा॒णा॒पा॒नौ मृ॒त्योर्मा॑ पा॒तमित्या॑ह । प्रा॒णा॒पा॒नयो॑रेव॒ श्रय॑ते । प्रा॒णा॒पा॒नौ मा॒ मा हा॑सिष्ट॒मित्या॑ह । नैनं॑ पुराऽऽयु॑षः प्राणापा॒नौ ज॑हितः, इति । इष्टं वृङ्क्ते विनाशयतीतीष्टर्गोऽध्वर्युः सर्वेषामृत्विजामिष्टं विनाशयति । तस्यानुष्ठानबाहुल्येन प्रमादसंभवात् । अर्त्तुरातिं गच्छत ऋत्विक्संघात्पूर्वः प्रथमभावी सन्नयमिष्टर्गोऽध्वर्युः क्षीणो भवति । ततः क्षयव्यावृत्तये प्राणपानावित्यादिमन्त्रं होमकाले ब्रूयात् । हे प्राणापानौ मृत्योः सकाशान्मा पातं मां रक्षतम् । अनेन अपूर्वभागेन प्राणापानयोरेवाऽऽश्रितो भवति । हे प्राणापानौ मां मा हासिष्टं मा कदाचिदपि मा परित्यजतम् । अनेन मन्त्रस्योत्तरभागेन शतसंवत्सरादायुषः पुरा प्राणापानावेनं न परित्यजतः । इत्येवमेकदेशवर्तिनोः सोमयाजिनोः संशये प्राप्ते विशेषोऽभिहितः । अथ सत्रविषये कंचिद्विशेषं विधत्ते- आ॒र्तिं वा ए॒ते नि॒यन्ति॑ । येषां॑ दी॒क्षिता॑नां॒ प्रमीय॑ते । तं यद॑वव॒र्जये॑युः । क्रू॒र॒कृ॒तामि॑वैषां लो॒कः स्या॑त् । आर्ह॑र