तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 217, कुल 345 में से
संदर्भ में पढ़ें१८८ (१.४.५) तैत्तिरीयब्राह्मणम् होतु॑श्च॒म॒सम॒नून्न॑यन्ते । होता॑ऽनु॒शँस॑ति । म॒ध्य॒त ए॒व य॒ज्ञ ँ स॒माद॑धाति, इति । दशसु चमसेषु मध्ये योऽयं होतुश्चमसस्तमादावतिरिक्तसोमेन पूरयित्वा पश्चादन्यान्पूरयेत् । अत्र होतैव शस्रं पठेत् । अत एव सूत्रकार आह- “ऐन्द्रावैष्णवं होताऽनुशंसति” इति एवं कुर्वन्यज्ञं मध्यतः समादधाति । अन्यूनातिरिक्तं सवनद्वयं समी करोति । यथा संधिदोषो न भवति तथा करोतीत्यर्थः । अथ माध्यंदिनसवनविषयं प्रायश्चित्तं विधत्ते- यस्य॑ माध्यंदि॒ने सव॑ने॒ सोमो॑ऽति॒रिच्य॑ते । आ॒दि॒त्यं तृ॑तीयस॒वनं॒ काम॑यमानोऽभ्य॑ति॒रिच्य॑ते । गौ॒रि॒वी॒तं ॅसाम॑ भवति । अ॒ति॒रि॒क्तं वै गौ॑रिवी॒तम् । अ॒ति॒रि॒क्तं यत्सव॑नस्याति॒रिच्य॑ते (२) । अति॑रिक्तस्य शा॒न्त्यै, इति । यद्गौरिवीताख्यं साम तत्राक्षरातिरेकस्य विद्यमानत्वात्तेनायमतिरिक्तदोषः शाम्यति । इतरत्पूर्ववद्व्याख्येयम् । अत्र सामाधारमृग्विशेषं विधत्ते- ब॒ण्म॒हा ॅअ॑सि सूर्य्येति॑ कुर्वन्ति । यस्यै॒वाऽऽदि॒त्यस्य॑ सव॑नस्य॒ कामै॒नाति॒रिच्य॑ते । तेनै॒वैनं॒ कामे॑न॒ समर्ध॑यन्ति, इति । बडित्यादिकमृक्प्रतीकम् । तत्र चाऽऽदित्यवाचकः सूर्यशब्द आम्नातः । तृतीयसवनं चाऽऽदित्यसंबन्धि । आदित्यग्रहस्य तत्र विहितत्वात् । अत एव सूत्रकारेणोक्तम् -“आदित्यारम्भणं तृतीयसवनम्” इति । एवं सत्यतिरिक्तेन सोमेन काम्यमानदित्यसंबन्धि तृतीयसवनं सूर्यशब्दघटितेन मन्त्रेण लब्धमिति कृत्वा तेन कामनातिरिक्तसोमं समृद्धं करोति । ऋचं विधाय सामविशेषं विधत्ते- गौ॒रि॒वी॒तं ॅसाम॑ भवति । तेनै॒व माध्यं॑दि॒नात्सव॑ना॒न्नय॑न्ति, इति ।