भारतकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 216, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 216

तैत्तिरीयब्राह्मणम् (१.४.५) १८७ यस्य यजमानस्य प्रातः सवनेऽनुष्ठिते सति तत्राभिषुतः सोमः कियानप्यवशिष्यते तस्यासौ सोमो माध्यंदिनसवनेऽपि स्वस्योपयोगमपेक्ष्यातिरिक्तो भवति । तस्यातिरेकदोषस्य परिहाराय धयच्छब्दोपेतास्वृक्षु गौर्धयति मरुतामित्यादिषु स्तोत्रं कुर्वन्ति । यद्वेद- वाक्यमहोरात्रयोः संघावधीतं तदध्येतारं हिनस्ति । तथा चाध्ययननिषेधेषु प्रस्तुतेष्वापस्तम्बः स्मरति-“तावन्तं कालं नाधीयीताध्यापयेद्वा संध्योस्तथा” इति प्रातः सवनस्य सोमातिरेको यत्तदेतत्संधीव । यथा संध्याकालोऽहोरात्रोभयस्पर्शैंवमतिरिक्तसोमोऽपि प्रातःसवने संपादितत्वान्माध्यंदिनसवनकामित्वाच्चोभयस्य स्पर्शी । ततः संध्याकालाध्ययनसमानो दोषः प्राप्नुयात् । तत्र धयद्वतीषु स्तोत्रे क्रियमाणे सत्यतिरिक्तस्य सोमस्यापि प्रातःसवनान्तःपातित्वसंधित्वं शाम्यति । तदेतत्सूत्रकारेणापि स्पष्टमुक्तम्-“यदि प्रातःसवने प्राग्धोमात्सोममतिरिक्तं पश्येत्तं चमसेष्वभ्युन्नयदुपाजुहुयाद्वां हुते दृष्ट्वा स्तुतशस्त्रवन्तं कुर्यात् ” इति । एवं सति प्रातःसवनस्यैतदन्तत्वादनन्तरभाविनो माध्यंदिनसवनत्वादुभयव्यतिरिक्तः संधिर्नाम कश्चिन्न भविष्यति । अतिरिक्तसोमस्य स्तोमार्थं धयद्वतीषु यत्स्तोत्रे क्रियते तत्र सामस्तोमविशेषौ विधत्ते- गा॒य॒त्र ँसाम॑ भवति पञ्चद॒शः स्तोम॑ः । तेने॑व प्रा॒तः सव॒नान्नय॑न्ति (१) , इति । प्रातः सवने हि बहिष्पवमानस्तोत्रं गायत्रसाम्ना निष्पाद्यते । आज्य- स्तोत्राणि पञ्चदशस्तोमेन । तस्योभयस्यात्र क्रियमाणत्वेन प्रातः सवनलक्षणसद्भावादतिरिक्तसोमस्यानुष्ठातारः प्रातःसवनान्नाप गच्छन्ति । धयद्वतीष्वृक्षु मरुच्छब्दस्य विद्यमानत्वात्तत्प्रयुक्तं गुणं दर्शयति- म॒रुत्व॑तीषु कुर्वन्ति । तेनै॑व माध्यंदि॒नात्सव॑ना॒न्नय॑न्ति, इति । मरुतो हि माध्यंदिनसवनसंबन्धिनः । तत्र हि दतीया ग्रहा आम्नाताः “यन्माध्यंदिने सवने मरुत्वतीया गृह्यन्ते” इति श्रुतेः । अतो मरुत्वतीषु स्तोत्रकरणेनमाध्यंदिनसवनलक्षणसद्भावादतिरिक्तसोमेन कामित- माध्यंदिनसवनं नापगच्छन्ति । अतिरिक्तसोमानुष्ठानप्रकारं विधत्ते-