तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
१८८ (१.४.५) तैत्तिरीयब्राह्मणम् होतु॑श्च॒म॒सम॒नून्न॑यन्ते । होता॑ऽनु॒शँस॑ति । म॒ध्य॒त ए॒व य॒ज्ञ ँ स॒माद॑धाति, इति । दशसु चमसेषु मध्ये योऽयं होतुश्चमसस्तमादावतिरिक्तसोमेन पूरयित्वा पश्चादन्यान्पूरयेत् । अत्र होतैव शस्रं पठेत् । अत एव सूत्रकार आह- “ऐन्द्रावैष्णवं होताऽनुशंसति” इति एवं कुर्वन्यज्ञं मध्यतः समादधाति । अन्यूनातिरिक्तं सवनद्वयं समी करोति । यथा संधिदोषो न भवति तथा करोतीत्यर्थः । अथ माध्यंदिनसवनविषयं प्रायश्चित्तं विधत्ते- यस्य॑ माध्यंदि॒ने सव॑ने॒ सोमो॑ऽति॒रिच्य॑ते । आ॒दि॒त्यं तृ॑तीयस॒वनं॒ काम॑यमानोऽभ्य॑ति॒रिच्य॑ते । गौ॒रि॒वी॒तं ॅसाम॑ भवति । अ॒ति॒रि॒क्तं वै गौ॑रिवी॒तम् । अ॒ति॒रि॒क्तं यत्सव॑नस्याति॒रिच्य॑ते (२) । अति॑रिक्तस्य शा॒न्त्यै, इति । यद्गौरिवीताख्यं साम तत्राक्षरातिरेकस्य विद्यमानत्वात्तेनायमतिरिक्तदोषः शाम्यति । इतरत्पूर्ववद्व्याख्येयम् । अत्र सामाधारमृग्विशेषं विधत्ते- ब॒ण्म॒हा ॅअ॑सि सूर्य्येति॑ कुर्वन्ति । यस्यै॒वाऽऽदि॒त्यस्य॑ सव॑नस्य॒ कामै॒नाति॒रिच्य॑ते । तेनै॒वैनं॒ कामे॑न॒ समर्ध॑यन्ति, इति । बडित्यादिकमृक्प्रतीकम् । तत्र चाऽऽदित्यवाचकः सूर्यशब्द आम्नातः । तृतीयसवनं चाऽऽदित्यसंबन्धि । आदित्यग्रहस्य तत्र विहितत्वात् । अत एव सूत्रकारेणोक्तम् -“आदित्यारम्भणं तृतीयसवनम्” इति । एवं सत्यतिरिक्तेन सोमेन काम्यमानदित्यसंबन्धि तृतीयसवनं सूर्यशब्दघटितेन मन्त्रेण लब्धमिति कृत्वा तेन कामनातिरिक्तसोमं समृद्धं करोति । ऋचं विधाय सामविशेषं विधत्ते- गौ॒रि॒वी॒तं ॅसाम॑ भवति । तेनै॒व माध्यं॑दि॒नात्सव॑ना॒न्नय॑न्ति, इति ।
तैत्तिरीयब्राह्मणम् (१.४.५) १८९ माध्यंदिनसवने गौरिवीतसाम्नः पृष्ठस्तोत्रे विहितत्वात्तत्साम तत्सवनलक्षणम् । अतस्तेन साम्ना माध्यंदिनसवनान्नापगच्छन्ति । स्तोमविशेषं विधत्ते- स॒प्त॒द॒शः स्तोम॑ः । तेनै॒व तृ॑तीयसव॒नान्नर्य॑न्ति, इति । तृतीयसवनगतस्याऽऽर्भैवपवमानस्य सप्तदशस्तोमयुक्तत्वादसौ स्तोमस्तत्सवनलक्षणम् । तेन तृतीयसवनान्नापगच्छन्ति । अनुष्ठानप्रकारं विधत्ते- होतृ॑श्चम॒समनून्न॑यन्ते । होता॑ऽनुशँस॑ति (३) । म॒ध्य॒त ए॒व य॒ज्ञ ꣳ॒समाद॑धति, इति । पूर्ववद्व्याख्येयम् । अथ तृतीयसवने प्रायश्चित्तविशेषं विधत्ते- यस्य॑ तृती॒यस॑वने सोमो॑ऽति॒रिच्ये॑त । उ॒क्थ्यं॑ कुर्वीत । यस्यो॒क्थ्ये॑ऽति॒रिच्ये॑त । अ॒ति॒रा॒त्रं कु॑र्वीत । यस्या॑तिरा॒त्रेऽ ति॒रिच्ये॑त । तत्त्वै दु॑ष्प्र॒ज्ञान॒म् । यज॑मानं॒ वा ए॒तत्प॒शव॑ आ॒साह्य॑ यन्ति । बृ॒हत्सा॒मं भ॑वति । बृ॒हद्वा इ॒माँल्लो॒कान्दा॑धार । बा॑र्ह॒ताः प॒शव॑ः । बृ॒हतै॒वास्मै॑ प॒शून्दा॑धार, इति । द्वादशस्तोत्रयुक्तेऽग्निष्टोमे प्रयुक्ते सति तृतीयसवने यदि सोमातिरेकस्तदानीं तस्योपयोगाय द्वादशभ्य उपरि स्तोत्रत्रयोपेतमुक्थ्यं कुर्वीत । तत्रापि सोमातिरेके सत्येकोनत्रिंशत्स्तोत्रयुक्तमतिरात्रं कुर्वीत । तत्रापि सोमातिरेके ततोऽधिकस्तोत्रयुक्तस्य क्रतोरभावादतिरेकसमाधानं ज्ञातुं दुःशकं तर्हि मा भूत्ससमाधानमिति चेत् । न । पशुहानिप्रसङ्गात् । तेनातिरेकेण पशवो यजमानमासाह्य सर्वतोऽभिभूय यत्र क्वापि यन्ति । तस्मात्कार्यमेतत्समाधानम् । बृहत्सामगानेन तत्समाहितं भवति । बृहतः सर्वलोकधारणसमर्थत्वात्पशूनां च तत्सामलभ्यत्वेना ऽऽहृतत्वात्पलायमानान्पशून्यजमानार्थं तेन साम्नाधारयति । तस्य साम्न आधारभूता ऋचो विधत्ते-
पञ्चमोऽनुवाकः ॥ ५ ॥
१९० (१.४.६) तैत्तिरीयब्राह्मणम् शि॒पि॒वि॒ष्टव॑तीषु कुर्वन्ति । शि॒पि॒वि॒ष्टो वै दे॒वानां॒ पुष्टम्॑ । पुष्ट्यै॒वैन॑ ँसम॑र्धयन्ति, इति । शिपिविष्टशब्दो यास्वृक्षु विद्यते ताः शिपिविष्टवत्यः । शिपिविष्टशब्दो विष्णुवाची । “यः पशोर्भूमा या पुष्टिस्तद्विष्णुः शिपिष्टः” इति श्रुत्यन्तरात् । स च देवानां पुष्टिहेतुः। अतः शिपिविष्टवतीषु कुर्वतीषु गायन्तीषु गाने सति पुष्ट्यैव यजमानं समृद्धं कुर्वन्ति । अनुष्ठानप्रकारं विधत्ते- होतु॑श्चम॒समनून्न॑यन्ते । होताऽनु॑श ँस॑ति । मध्य॑त एव य॒ज्ञ ँ समा॒र्दधा॑ति, इति । य॒न्ति सर्व॑नस्याति॒रिच्य॑ते शासति दाधाराष्टौ च॑ । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके चतुर्थाध्याये पञ्चमोऽनुवाकः ॥ ५ ॥ पूर्ववत् । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे चतुर्थप्रपाठके पञ्चमोऽनुवाकः ॥ ५ ॥ अथ चतुर्थप्रपाठके षष्ठोऽनुवाकः । पञ्चमे सोमातिरेकप्रायश्चित्तमुक्तम् । षष्ठे त्वेकग्राम- वर्तिबहुसोमयागविषयविशेषोऽभिधीयते । तत्रैकं विशेषं विधत्ते- एकै॑को वै ज॒नता॑या॒मिन्द्र॑ः । एकं॒ वा ए॒ता विन्द्र॑म॒भिस ँसु॑नुतः । यौ द्वौ स 'सु॑नुतः । प्र॒जाप॑ति॒र्वा ए॒ष विता॑यते । यद्य॒ज्ञः । तस्य॒ ग्रावा॑णो॒ दन्ता॑ः । अ॒न्य॒तरं॒ वा ए॒ते स 'सु॑न्व॒तोर्निर्ब॑प्सति । पूर्वे॑णोप॒सृत्या॒ देव॑ता॒ इत्या॑हुः । पूर्वो॑प॒सृत॑स्य॒ वै श्रेया॑न्भवति । ए॒तैर्वन्त्याज्या॑नि भवन्त्य॒भिजित्यै॑ (१), इति ।
तैत्तिरीयब्राह्मणम् (१.४.६) १९१ सत्येकग्रामवर्तिन्यामेकस्यां जनतायां मध्य यौ द्वौ यजमानौ संसुनुतः संभूय सोमयागं कुरुतः । एकस्मिन्काले कुरुत इत्यर्थः । तावेतावुभौ यजमानावेकमेवेन्द्रमभिलक्ष्य संभूयैकस्मिन्कालेऽनुतिष्ठतः । तथा सति ममायमिन्द्रोऽस्त्वित्येवं तयोर्विप्रतिपत्तिर्भवेत् । अत एवाऽ ऽश्वलायनेनोक्तम्-“विमतानां प्रसवसंनिपातेऽशंवः” इति । तत्र यो यज्ञः स एष प्रजापतिरूप एव भूत्वा विस्तार्यते । तस्य प्रजापति रूपस्य यज्ञस्योपांशुसवनादयो ग्रावाणस्तीक्ष्णदन्तस्थानीयाः । एते ग्रावाणः संभूय सोममभिषुण्वतोर्द्वयोर्यजमानयोर्मध्येऽन्तरं यजमानं निर्वप्सति निःशेषेण भर्त्सयन्ति । एकेन यजमानेनेन्द्रस्य परिगृहीतत्वादितरस्येन्द्रभावेन यागाभाव एव भर्त्सनम् । अत एवाभिज्ञाः पूर्वेण प्रथमप्रवृत्तेन यजमानेन देवता उपसृत्याः प्राप्या इत्याहुः । लोकेऽपि हि प्रथमं सेवमाने भृत्ये स्वामी पक्षपातं करोति । तस्मात्पश्चादुपगच्छन्तं निर्देवतं यजमानं ग्रावरूपा दन्ता दशन्ति । अतस्तत्परिहारायाऽऽज्यस्तोत्राण्येतिवन्ति कर्तव्यानि । इण् गतावित्यस्य धातोरर्थमतिशब्दो ब्रूते । क्तिन्प्रत्ययान्तस्यास्य धातोराङ्पूर्वेत्वे सत्यतिशब्दनिष्पत्तेस्तदर्थवाचिनः शब्दा येषु स्तोत्रेषु विद्यन्ते तादृशानि स्तोत्राणि प्रातःसवने कर्तव्यानि । तथा सतीन्द्राभावदोषपरिहारेणास्याभिजयो भवति । तत्रापरं विशेषं विधत्ते- म॒रुत्व॑तीः प्रति॒पदः॑। म॒रुतो॒ वै दे॒वाना॑मप॑राजितमा॒ यत॑नम्। दे॒वाना॑मे॒वाप॑राजित आ॒यत॑ने यतते, इति । मरुच्छब्दो यास्वृक्ष्वस्ति ता मरुत्वत्यः । तथाविधा ऋच आज्यस्तोत्रे प्रतिपदः प्रथमभाविनीः कुर्यात् । देवानां मध्ये मरुतो बलवत्त्वेन पराजय- रहितं स्थानम् । ततो देवसंबन्धिन्यपराजिते स्थाने प्रयत्नं करोति । ऋग्विशेषं विधाय सामविशेषं विधत्ते- उ॒भे बृ॑हद्रथंत॒रे भ॑वतः । इ॒यं वाव र॑थंत॒रम् । अ॒सौ बृ॒हत् । आ॒भ्यामे॒वैन॑मन्त॒रैति॑ । वा॒चश्च॒ म॒न॑सश्च । प्रा॒णाच्चा॑पा॒नाच्च॑ । दि॒वश्च॑ पृथि॒व्यश्च॑ (२)। सर्व॑स्माद्वि॒त्ता द्वेद्या॑त्, इति । एकस्मिन्स्तोत्रे बृहतसामान्यस्मिन्न्रथंतरमित्येवं चतुर्ष्वाज्यस्तोत्रेषु पर्यायेणोभे सामनी भवतः । रथंतरस्य भूलोकरूपत्वात् । बृहतो द्युलोकरूपत्वात् । एतद्रूपाभ्यां सामभ्यामेवैनं यजमानं संसवदोषादन्तरितं
१९२ (१.४.६) तैत्तिरीयब्राह्मणम् व्यवहितं करोति । किंच सामद्वयस्य वागादियुग्मरूपत्वाद्रागादिभिरपि व्यवधानं करोति । वित्तं पूर्वं लब्धं वेद्यमितः परं लब्धव्यम् । आज्यस्तोत्रेषु सामविशेषं विधाय तृतीये पृष्ठस्तोत्रे सामविशेषं विधत्ते- अ॒भि॒व॒र्त्तो ब्र॑ह्मसा॒मं भ॑वति । सु॒व॒र्गस्य॑ लो॒कस्या॑भि॒वृत्त्यै॑, इति । ब्रह्मसंबन्धिनि पृष्ठस्तोत्रेऽभिवर्ताख्यं सामोद्गाता गायेत् । यामृचं ब्रह्मा शंसति तस्यामृच्युद्गात्रा गातव्यं साम ब्रह्मसाम्न् । अभिवर्तसाम्ना स्वर्गोऽभिमुखत्वेन वर्तते । अथाहर्विशेषं विधत्ते- अ॒भि॒जिद्भव॑ति । सु॒व॒र्गस्य॑ लो॒कस्या॒भि जि॑त्यै । वि॒श्व॒जिद्भव॑ति वि॒श्वस्य॑ जित्यै॑, इति । अभिजिद्विश्वजिताख्ययोरेकहयोरन्यतरं कुर्यात् । उभयोरपि जयहेतु त्वात् । अथापरं विशेषं विधत्त- यस्य॒ भूया॑ँसो य॒ज्ञक्रत॑व इत्या॑हुः ।। स दे॒वता॑ वृङ्क्त॒ इति॑ । यद्य॑ग्निष्टो॒मः सोम॑ः पु॒रस्ता॑त्स्यात् (३) । उ॒क्थ्यं॑ कुर्वीत ।। यद्यु॒क्थ्य॑ः स्यात् । अ॒ति॒रा॒त्रं कु॑र्वीत । य॒ज्ञक्रतु॑भिरे॒वास्य॑ दे॒वता॑ वृङ्क्त, इति । उभयोर्मध्ये यस्य यजमानस्य यज्ञक्रतवो भूयांसोऽङ्गभूतैर्यज्ञैर्युक्ताः प्रधानक्रतवोऽनुष्ठेयधर्मबहुला भवन्ति स तादृशो यजमानोऽल्पध- र्मानुष्ठायिनोऽन्यस्य यजमानस्य देवता विनाशयति । अतः परस्तादन्यस्य यजमानस्य गृहे यद्यग्निष्टोमाख्यः सोमः स्यात्तदा स्वयं ततोऽधिकमुक्थ्यं कुर्वीत । यद्युक्थ्यस्तदा स्वयं ततोऽधिकमतिरात्रं कुर्वीत । एवं स्वकीयैरधिकयज्ञक्रतुभिरेवेतरस्य देवता विनाशयति । तस्य फलाधिक्याभाव एव विनाश इत्युच्यते । विशेषान्तरं विधत्ते-
तैत्तिरीयब्राह्मणम् (१.४.६) १९३ यो वै छन्दो॑भिरभि॒भव॑ति । स सं॑ ॅ सुन्व॒तोर॒भिभ॑वति । सं॒वेशा॑य त्वोपवे॒शाय॑ त्वेत्या॑ह । छन्दा॑ ॅ सि॒ वै सं॒वेश॑ उ॑पवे॒शः । छन्दो॑भिरे॒वास्य॒ छन्दा॑ ॅ स्य॒भिभ॑वति, इति । यो यजमानः स्वकीयैश्छन्दोभिरितरस्य च्छन्दांस्यभिभवितुमुद्युङ्क्ते स एवं संसुन्वतौर्मात्सर्य्येण सोममभिषुण्वतोर्मध्ये परकीयाणि च्छन्दांस्याभिभवितुं समर्थो भवति । तस्मात्तत्सामर्थ्याय संवेशादिमन्त्रहोमं कुर्यात् । संप्राप्यावस्थितिः संवेशः । तत्रैवाऽऽसनमुपवेशः । हे देव मम संवेशाय त्वां भजे तथोपवेशाय च त्वां इत्येवं मन्त्रं होमकाले ब्रूयात् ।। एतन्मन्त्रशेषश्चसंहितायां तृतीयकाण्डे समाम्नातो व्याख्यातश्च । स्वकीयानि च्छन्दांस्येव संवेशोपवेशौ । तत्साधनत्वात् । अतः स्वकीयैश्छन्दोभिरेव होमतुष्टैरन्यस्यच्छन्दांस्यभिभवति । पुनरप्यन्यं विशेषं विधत्ते- इ॒ष्ट॒र्गो वा ऋ॒त्विजा॑म॒ध्व॒र्युः (४) । इ॒ष्ट॒र्गः खलु॒ वै पूर्वो॑ऽर्त्तुः क्षी॑यते । प्रा॒णा॒पा॒नौ मृ॒त्योर्मा॑ पा॒तमित्या॑ह । प्रा॒णा॒पा॒नयो॑रेव॒ श्रय॑ते । प्रा॒णा॒पा॒नौ मा॒ मा हा॑सिष्ट॒मित्या॑ह । नैनं॑ पुराऽऽयु॑षः प्राणापा॒नौ ज॑हितः, इति । इष्टं वृङ्क्ते विनाशयतीतीष्टर्गोऽध्वर्युः सर्वेषामृत्विजामिष्टं विनाशयति । तस्यानुष्ठानबाहुल्येन प्रमादसंभवात् । अर्त्तुरातिं गच्छत ऋत्विक्संघात्पूर्वः प्रथमभावी सन्नयमिष्टर्गोऽध्वर्युः क्षीणो भवति । ततः क्षयव्यावृत्तये प्राणपानावित्यादिमन्त्रं होमकाले ब्रूयात् । हे प्राणापानौ मृत्योः सकाशान्मा पातं मां रक्षतम् । अनेन अपूर्वभागेन प्राणापानयोरेवाऽऽश्रितो भवति । हे प्राणापानौ मां मा हासिष्टं मा कदाचिदपि मा परित्यजतम् । अनेन मन्त्रस्योत्तरभागेन शतसंवत्सरादायुषः पुरा प्राणापानावेनं न परित्यजतः । इत्येवमेकदेशवर्तिनोः सोमयाजिनोः संशये प्राप्ते विशेषोऽभिहितः । अथ सत्रविषये कंचिद्विशेषं विधत्ते- आ॒र्तिं वा ए॒ते नि॒यन्ति॑ । येषां॑ दी॒क्षिता॑नां॒ प्रमीय॑ते । तं यद॑वव॒र्जये॑युः । क्रू॒र॒कृ॒तामि॑वैषां लो॒कः स्या॑त् । आर्ह॑र
१९४ (१.४.६) तैत्तिरीयब्राह्मणम् दृ॒हेति॑ ब्रूयात् (५) । तं दक्षि॑ण॒तो वेद्यै॑ नि॒धाय॑ । स॒र्प॒रा॒ज्ञिया॑ ऋ॒ग्भिः स्तुयुः॑ । इ॒यं वै स॑र्प॒तो राज्ञी॑ । अ॒स्या ए॒वैनं॒ परि॑ददति, इति । सत्राय दीक्षितानां येषां मध्ये कश्चिन्म्रियेत तदानीमेते सर्वे सत्रिण आर्ति यज्ञविनाशरूपां बाधां निरन्तरं प्राप्नुवन्ति । तं मृतमन्ये दीक्षिता यद्यवज्ञाय दूरतो वर्जयेयुस्तदानीमेषां वर्जयतृणां क्रूरंकृतमिव ब्रह्महत्यादिरूपं पापं कृतवतामिव नरकलोकः स्यात् । अतोऽवज्ञामकृत्वा तं मृतमिहाऽऽनीय दाहादिसंस्कारं च कुर्विति तदीयपुत्रादिकं प्रत्यादरेण ब्रूयात् । अथ तं प्रेतं वेद्या दक्षिणभागे निधाय सर्पराज्ञीदेवताका- भिर्भूमिर्भूम्नेत्यादिभिर्ऋग्भिः स्तोत्रं कुर्युः । इयमेव भूमिः सर्पतः संचरतः प्राणिजातस्य राज्ञी । अतोऽस्यै भूम्या एवैनं मृतं समर्पयन्ति । अथ स्तुतेरूर्ध्वं शंसनं विधत्ते- व्यृ॑द्धं॒ तदित्या॑हुः । यत्स्तु॒तम॑ननु॒शस्त॒मिति॑ । होता॑ प्रथ॒मः प्रा॑चीनावी॒ती मा॑र्जाली॒यं परी॑यात् । या॒मीर॑नु॒ब्रुवन्॑ । स॒र्प॒रा॒ज्ञीनां॑ कीर्तयेत् । उ॒भयो॑रे॒वैनं॑ लो॒कयोः॒ परि॑ददति (६) । अथो॑ धुवन्त्ये॒वैन॑म् । अथो॒ऽन्यै वा॒ऽस्मै॑ हुवत, इति । यद्देवतारूपं स्तोत्रेण विषयीकृतं तदनन्तरमेव शस्त्रेण विषयीकृतं न स्यात् । तत्समृद्धिहीनं भवतीत्यभिज्ञा आहुः ।। अतः सर्पराज्ञीभिः स्तोत्रे कृते सत्यनन्तरमेव होता प्रथमः पुरोगामी सन्प्राचीनावीती भूत्वा मार्जालीयं धिष्ण्यं परितो गच्छेत् । किं कुर्वन्त्योऽस्य कौष्ट्येत्यादिका यामीर्ऋचोऽनुब्रुवन् । ततोभूमिर्भूम्नेत्यादिकाः सर्पराज्ञीर्ब्रूयात् । तथा सति यमविषयाभिर्भूमिविषयाभिश्च लोकद्वयेऽप्येनं प्रतिष्ठापयन्ति । अपि चैनं मृतं सत्रिणं धुवन्त्येव वस्त्रधूननादिभिरितरशवोपचारैरुपचरन्त्येव । अपि चास्मै मृतयजमानाय निह्नुवत एव वियोगासहिष्णुत्व- प्रलापादिभिरपलन्त्येव ।। मार्जालीयपरिभ्रमणस्याऽऽवृत्तिं विधत्ते-
षष्ठोऽनुवाकः ॥ ६ ॥
तैत्तिरीयब्राह्मणम् (१.४.६) १९५ त्रिः परि॑यन्ति । त्रय॑ इ॒मे लौकाः॑ । ए॒भ्य ए॒वैनं॑ लो॒केभ्यो॑ धुवते । त्रिः पुनः॑ परि॑यन्ति । षट् संप॑द्यन्ते । षड् वा ऋ॒तवः॑ । ऋ॒तुभि॑रे॒वैनं॑ धुवते, इति । त्रिवारं प्रादक्षिण्येन लोकत्रयप्राप्त्यर्थमेनमुपचरन्ति पुनस्त्रिवारमप्रदक्षिणावृत्तौ सत्यां षट्संख्ययर्तुभिरेवैनमुपचरन्ति । अथ बहिष्पवमानार्थमृक्सामविशेषं विधत्ते- अग्न॒ आयू॑ꣳषि पवस॒ इति॑ प्रति॒ पदं॑ कुर्वीरन् । र॒थं॒त॒रसामैषा ꣳसोम॑: स्यात् । आयु॑रे॒वाऽऽत्मन्द॑धते । अथो॑ पा॒प्मान॑मेव वि॒जह॑तो यन्ति (७), इति । अभिजि॑त्यै पृथि॒व्याश्च॒ स्याद॑ध्व॒र्युर्ब्रूया॑ल्लो॒कयोः॑ परिददति कुर्वीर॒ꣳ स्त्रीणि॑ च । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके चतुर्थाध्याये षष्ठोऽनुवाकः ॥ ६ ॥ बहिष्पवमानस्तोत्रस्याऽऽदौ पूर्वप्राप्तामृचं बाधित्वाऽग्न आयूंषीत्यृचं पठेत् । तथा गायत्रं साम बाधित्वा रथंतरं साम गायेत् । तथा प्रतिपत्पाठे- नात्मन्यायुष्यं धारयन्ति । रथंतरसाम्ना यत्क्रूरकृत्समानलोकप्राप्तिपापं त्यजन्तः पुण्यलोकं प्राप्नुवन्ति । अत्र मीमांसा । षष्ठाध्यायस्य तृतीयपादे चिन्तितम्- मृते सत्रणि नान्यः स्यात्स्याद्वा नात्रापि पूर्ववत् । स्यादस्वाम्येऽपि कर्त्रंशे साप्तदश्यस्य सिद्धये ॥ (इति) । सत्रिषु बहुषु यजमानेष्वेकस्मिन्मृते प्रतिनिधिर्नास्ति । पूर्वाधिकरणे यजमानप्रतिनिधेर्निराकृतत्वादिति चेत् । मैवम् । भङ्ग्यन्तरेण तत्सिद्धेः । सत्रिणां हि कार्यद्वयं फलभोक्तृत्वं यागकर्तृत्वं च । तत्र प्रतिनिधेः फलित्वाभावेऽपि कर्तृत्वं संभवति । ऋत्विक्कार्यं कर्तृत्वे प्रतिनिधिमन्तरेण सप्तदशस्याभावात्षोडशैव कार्याणि निष्पद्येरन् । एकं कार्यं लुप्येत । तस्माद्यजमानस्य प्रतिनिध्यभावेऽपि ऋत्विजः प्रतिनिधिसंभवात्पुरुषान्तरं प्रतिनिधातव्यम् । तत्रैवान्यच्चिन्तितम् -
१९६ (१.४.७) तैत्तिरीयब्राह्मणम् स स्वाम्यप्युत कर्तैव स्वामी तत्स्थानगत्वतः । अनारब्धुः फलाभावादस्वामी कर्तृमात्रता ॥ (इति) । यः सत्रिणः प्रतिनिधिस्तस्य यजमानस्थाने स्वीकृतत्वेन यजमानत्वमप्यस्तीति चेत् । मैवम् । आरभ्य समाप्तिपर्यन्तमनुष्ठातुः फलं युक्तम् । प्रतिनिधिस्तु नाऽऽरब्धवान् । अतः फलाभावाद्यजमानत्वं नास्ति । किंतु कर्तृत्वमेव । मृतस्य तु समाप्त्यभावेऽपि फलमाम्नायते-“यो दीक्षितानां प्रमीयेतापि तत्र फलम्” इति । तत्रैवान्यच्चिन्तितम्- नास्य स्युः फलिसंस्काराः कार्या वा नाफलित्वतः । अन्येषां सादृश्यार्थमफलिन्यपि ते मताः ॥ (इति) । सत्रे योऽयं प्रतिनिधिस्तस्य फलित्वाभावात्फलयोग्यताहेतवो वपनादिसंस्कारा न कर्तव्या इति चेत् । मैवम् । अस्य फलाभावेऽप्यस्मिन्संस्कृते सत्येषां यत्सासादृश्यं तत्संस्कृतेषु सप्तदशसु स्थितं भवति । ततः सप्तदशावराः सत्रमासीरन्नित्येतच्छास्त्रमनुगृहीतं भवति । अन्यथा संस्कृताः षोडशैवेति तच्छास्त्रं बाध्येत । यदि बहूनां यजमानानामलाभादवरा अल्पसंख्या यजमानाः स्युस्तदाऽपि सप्तदशापेक्षिताः । न तु ततोऽप्यल्पसंख्या इत्यर्थः । तस्मादफलिन्यपि तस्मिन्संस्काराः कर्तव्याः । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे चतुर्थप्रपाठके षष्ठोऽनुवाकः ॥ ६ ॥ अथ चतुर्थप्रपाठके सप्तमोऽनुवाकः । षष्ठे सवननिमित्तं प्रायश्चित्तमुक्तम् । सप्तमे यूपविरोहणादि- प्रायश्चित्तान्युच्यन्ते । तत्र यूपविरोहणप्रायश्चित्तं विधत्ते- असु॒र्यं वा ए॒तन्मा॒र्गं कृ॑त्वा । प॒शवो॑ वी॒र्य॑मपक्रामन्ति। यस्य॒ यूपो॑ वि॒रोह॑ति । त्वा॒ष्ट्रं ब॒हुरूप॒माल॑भेत । त्वष्टा॒ वै रू॒पाणा॑मीशे । य ए॒व रू॒पाणा॑मीशे । सो॑ऽस्मिन्प॒शून्वी॒र्यं॑ यच्छ॑ति । नास्मा॑त्प॒शवो॑ वी॒र्य॑मप॑क्रामन्ति, इति । यस्य यजमानस्य यूपो विरोहणादङ्कुराञ्जन-
तैत्तिरीयब्राह्मणम् (१.४.७) १९७ यत्येतस्माद्यजमानात्पशवो वीर्यं चापक्रामन्ति । किं कृत्वाऽसूर्यं वर्णमसुरेभ्यो हितं कृत्वा । तदेतदपक्रमणं निवारयितुं त्वष्टृदेवताकं बहुवर्णोपेतं पशुमालभेत । त्वष्टा हि रूपाणां स्वामी । "त्वष्टा वै पशूनां मिथुनाना ँरूपकृत्" इति श्रुत्यन्तरात् । अतः पशूनां "त्वष्टा रूपस्वामी यजमाने तान्पशून्वीर्यं च नियच्छति । ततो नास्मात्पशवो वीर्यं चापक्रामन्ति । अथाग्निविनाशप्रायश्चित्तं विधत्ते- आर्तिं॑ वा ए॒ते नि॒र्यन्ति॑ । येषां॑ दीक्षि॒ताना॑म॒ग्निरु॒द्वाय॑ति (१) । यदा॑हव॒नीय॒ उद्वाये॑त् । यत्तं म॑न्थेत् । वि॒च्छि॑न्द्यात् । भ्रातृ॑व्यमस्मै जनयेत् । यदा॑हव॒नीय॑ उद्वा॒ये॑त् । आ॒ग्नीध्रा॑दु॒द्धरे॑त् । यदा॒ग्नीध्र॒ उद्वा॒ये॑त् । गा॒र्हप॒त्यादु॒द्धरे॑त् । यद्गा॑र्हप॒त्य उद्वा॒ये॑त् । अ॒र्त ए॒व पु॒नर्म॑न्थेत् (२) । अत्र॒ वाव स नि॒र्लये॑त । यत्र॒ खलु॒ वै नि॒र्लीन॑मु॒क्तं॑ पश्य॑न्ति । तदै॑नमिच्छ॑न्ति, इति । दीक्षितानां येषां पुरुषाणामग्निर्विनश्यति ते पुरुषा विनाशमेव प्राप्नुवन्ति । तत्परिहाराय कश्चिद्भ्रान्त आहवनीयस्य नाशे यद्याहवनीयार्थमेव मन्थनं कुर्यात्तदानीं तस्य मथिताहवनीयस्य गार्हपत्यजन्यत्वाभावात्तयोरुभयोरेकमत्याभावेन यज्ञो विच्छिद्येत । मथितस्य गार्हपत्येन विरोधाद्यजमानस्य भ्रातृव्यं जनयेत् तस्मादाहवनीयनाशे सत्याग्नीध्राद्धिष्ण्यादग्निमुद्धरेत् । न तु मन्थनं कुर्यात् । आग्नीध्रस्य नाशे गार्हपत्यादग्निमुद्धरेत् । तस्य गार्हपत्यस्य नाशे तत एव गार्हपत्यादर्थदग्धकाष्ठात्पुनर्मन्थनं कुर्यात् । यस्मादत्रैवगार्हपत्ये सोऽग्निर्विलीनोऽन्तर्हितस्तस्मादत्रैव मन्थनं युक्तम् । लोकेऽपि मणिमुक्तादिकमुक्तं वस्तु यत्र भूप्रदेशे पतित्वा निलीनं भवति तत्रैव तदन्विष्य लब्धुमिच्छन्ति । तस्माद्गार्हपत्यस्थितकाष्ठे मन्थनमुचितम् । तस्मिन्मन्थने कंचिद्विशेषं विधत्ते- यस्मा॒द्दारो॑रु॒द्वायै॑त् । तस्या॑र॒णीं कु॑र्यात् । क्रु॒मु॒कम॑पि कु॒र्यात् । ए॒षा वा अ॒ग्नेः प्रि॒या त॒नूः । यत्क्रु॑मु॒कः । प्रि॒ययै॒वैनं॑ त॒नुवा॒ सम॑र्धयन्ति, इति ।
१९८ (१.४.७) तैत्तिरीयब्राह्मणम् गार्हपत्यवस्थितेष्वर्धदग्धकाष्ठेषु मध्ये चरमं वह्न्युद्वासनं यस्मिन्दारुणि पश्यतितद्दारुसंबन्धिन्यावेवारणीकुर्यात् । तयोररण्योर्मन्थनवेलायां क्रुमुकं प्रक्षिपेत् । तक्षणेननिष्पन्नोऽतिलघुः शकलः सोऽयं क्रुमुकः । सैषाऽग्नेरति प्रिया तनूः । क्रुमुकेन हि सहसा वह्निर्ज्वलति । अतः प्रियेणैव शरीरेण वहिं समृद्धं करोति । आहवनीयमन्थने यो दोष उक्तस्तदभावेन गार्हपत्यमन्थनं प्रशंसति- गा॒र्हप॑त्यं मन्थति (३)॑ । गा॒र्हप॑त्यो॒ वा अग्ने॒ योनि॑: । स्वादे॒वैनं॒ योने॑र्जनयति । नास्मै॒ भ्रातृ॑व्यं जनयति । इति । आधानकाले गार्हपत्यस्येतराग्नियोनित्वं दृष्टम् । अतोऽत्रापि गार्हपत्यमन्थने सति स्वकीयादेव योनेरुत्तरभाविनमेनमाहवनीयाद्यग्निं जनयति । अतो विरोधाभावाद्यजमानस्य भ्रातृव्यं नोत्पादयति । पूर्वं यस्य प्रातःसवन इत्यनुवाके सोमातिरेकप्रायश्चित्तमुक्तम् । इदानीं सोमोपक्षयनिमित्तं प्रायश्चित्तं विधत्ते- यस्य॒ सोम॑ उप॒दस्ये॑त् । सु॒वर्णं॒ हिर॑ण्यं द्वेधा वि॒च्छिद्य॑ । ऋ॒जीषे॑ऽन्यदा॑ धूनुयात्॑ । जु॒हुया॑द॒न्यत्॑ । सोम॑मे॒वाभि॑षुणोति । सोमं॑ जुहोति, इति । यस्य यजमानस्याभिषुतः सोम उपक्षीयते कृत्स्नानुष्ठानाय न पर्याप्त्यात्सोऽयं सम्यग्वर्णीपितं हिरण्यं द्वेधा विभज्य तदीयमेकं शकलं पूर्वं निष्पीडितरसं सोमवल्लीसंबन्धिन्यृजीष आधूनुयान्मिश्रयित्वा पुनरभिषुणूयात् । इतरच्छकलं मुख्ये चमसे निधाय रसेन सह जुहुयात् । तथा कृते सोम एवाभिषुतो हुतश्च भवति । तदेतत्सुवर्णं प्रशंसति- सोम॑स्य॒ वा अ॒भिषूय॑माणस्य प्रि॒या त॒नूरूद॑क्रामत् (४)॑ । तत्सु॒वर्णं॒ ॅहिर॑ण्यमभवत् । यत्सु॒वर्णं॒ ॅहिर॑ण्यं कु॒र्वन्ति॑ । प्रि॒ययै॒वैनं॑ त॒नुवा॒ सम॑र्धयन्ति, इति । रजतव्यावृत्त्यर्थं सुवर्णमिति विशेषणम् । उपक्षयप्रायश्चित्तमुक्त्वाऽपहारप्रायश्चित्तं विधत्ते- यस्याक्री॑तं॒ ॅसोम॑मप॒हरे॑युः । क्री॒णीया॑ दे॒व । सैव ततः॑ प्राय॑श्चित्तिः, इति ।
तैत्तिरीयब्राह्मणम् (१.४.७) १९९ दीक्षणीयेष्टेः पूर्वमेव सोमं संपाद्य क्रयपर्यन्तं क्वचिदवस्थापयेत् । अत एव सूत्रकार आह - "अत्र राजानमाहृत्य पयसौदनेन परिविवेषयन्त्याक्रयात्" इति । अत्र क्रयात्पूर्वं दीक्षादिवसेषु परिचर्यमाणं सोमं यदि केचिदपह्रेयु स्तदानीमन्यमपि कंचित्सोमं संपाद्य क्रयः कर्तव्य एव । क्रयानुष्ठितिरेव तस्यापहारस्य प्रायश्चित्तिः । अथ क्रीतस्यापहारे प्रायश्चितं विधत्ते- यस्य॑ क्री॒तमप॑हरेयुः । आ॒दा॒रा ूँश्च॑ फाल्गुना॑नि चा॒भिषु॑णुयात् । गाय॒त्री य ूँसो॑म॒माहर॑त् । तस्य॒ यो ऽ ूँशुः परा॑ऽप॑तत् (५) । त आ॑दा॒रा अ॑भवन् । इन्द्रो॑ वृ॒त्रमह॑न् । तस्य॑ व॒ल्कः परा॑ऽपतत् । तानि॑ फाल्गु॒नान्य॑भवन् । प॒शवो॒ वै फा॑ल्गु॒नानि॑ । प॒शवः॒ सोमो॒ राजा॑ । यदा॑दा॒रा ूँ श्च॑फाल्गुना॑नि चा॒भिषु॒णोति॑ । सोम॑मे॒व राजा॑नम॒भिषु॑णोति, इति । क्रीतस्य सोमस्यापहारे सोमप्रतिनिधित्वेनाऽऽ दाराणां फाल्गुनानां चाभिषवः । आद्रियन्ते सोमरहितैस्तत्पर्यैणं स्वीक्रियन्त इत्यादाराः क्षीरयुक्तवल्ली विशेषाः । लोकव्यवहारं फल्गु स्वल्पमेव प्रयोजनं येषामाद्रर्दूवार्ङ्कुरादीनां तृणानां तानि फाल्गुनानि । पुरा गायत्र्या समानीयमानस्य सोमस्य कश्चिदवयवो भूमौ पतितः स आदाररूपेणोत्पन्नः । इन्द्रेण हतस्य वृत्रस्य वल्कस्त्वक्शकलो भूमौ पतित्वा फाल्गुनरूपेणोद्भूत् । फाल्गुनानां पशुप्रियत्वात्पशुरूपत्वं सोमस्य च पशुप्रामिहेतुत्वात्पशुरूपत्वम् । एवं सत्यादारफाल्गुनाभिषवेण सोम एवाभिषुतो भवति । तत्र कर्तव्यविशेषान्विधत्ते- शृ॒तेन॑ प्रातः सव॑ने श्रीणीयात् । द॒ध्ना म॒ध्यं दिने॑ (६) नी॒त॒मिश्रे॑णं तृ॒तीयसव॑ने । अ॒ग्नि॒ष्टोमः॒ सोमः॑ स्यादृ॒तूर॒त्साम् । य ए॒वर्त्विजो॑ वृ॒ताः स्युः॑ । त ए॑नं याज- येयुः । एकां॒ गां दक्षि॑णां दद्यात्तेभ्य॑ एव॑ । पुन॑: सो॒मं क्रीणीयात् । य॒ज्ञेनै॒व तद्य॒ज्ञमि॑च्छति । सैव ततः॑ प्राय॑श्चित्तिः, इति ।
सप्तमोऽनुवाकः ॥ ७ ॥
२०० (१.४.७) तैत्तिरीयब्राह्मणम् अभिषुतमादारं फाल्गुनरसं शृतेन पक्वक्षीरेण श्रीणीयान्मिश्रयेत् । नवनीतोत्पत्तेः पूर्वावस्थमीषन्मथितं दधि नीतमिश्रम् । यद्यप्युक्थ्यषोडश्यादि रूपं क्रत्वन्तरमारब्धवांस्तथाऽपि तत्परित्यागेन प्रायश्चित्तरूपेऽस्मिन्प्रयोगे रथंतरपृष्ठोऽग्निष्टोमरूप एव सोमयागः कार्यः तत्र पूर्वं वृत्ता ऋत्विज एव याजकास्तेभ्यः सर्वेभ्य एकैव गौर्दक्षिणा । तथा नैमित्तिकं प्रयोगमनुष्ठाय पुनर्नित्यप्रयोगार्थं सोमं क्रीणीयात् । एवं सति नैमित्तिकप्रयोगरूपेणैव यज्ञेन नित्यप्रयोगरूपं प्राप्तुमिच्छति सेयमेवंविविधैवानुष्ठितिः। ततः क्रीतसोमापहारदोषात्प्रायश्चित्तिर्वि- मुक्तिहेतुः । अथ सत्रं संकल्प्य ततो निवृत्तौ प्रायश्चित्तं विधत्ते- सर्वा॑भ्यो॒ वा ए॒ष दे॒वता॑भ्यः॒ सर्व॑भ्यः पृ॒ष्ठेभ्य॑ आ॒त्मान॒मागुर॑ते । यः स॒त्राया॑ऽऽगु॒रते॑ । ए॒तावा॒न्खलु॒ वै पुरु॑षः । याव॑दस्य वि॒त्तम् । सर्व॑वेद॒सेन॑ यजेत । सर्व॑पृष्ठो॒ऽस्य॒ सोम॑: स्यात् । सर्वा॑भ्य ए॒व दे॒वता॑भ्यः॒ सर्व॑भ्यः पृ॒ष्ठेभ्य॑ आ॒त्मानं॑ निष्क्री॑णीते (७) इति । उद्दार्यति मन्थेन्मन्थत्यक्रामत्परापतन्मध्यंदिन आगु॒रते पञ्च च । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके चतुर्थाध्याये सप्तमोऽनुवाकः ॥ ७ ॥ यो यजमानः सत्रार्थं संकल्पयति स पुरुषः सर्वदेवताभ्यस्तत्प्रतिपादकस्तोत्रेभ्यश्च स्वात्मानं संकल्पयति । अस्य पुरुषस्य यावद्वित्तमस्ति तावदेवाश्य पुरुषस्य सर्वकर्मनिर्वाहकं सारभूतं स्वरूपम् । दरिद्रस्य भोगदानयोरशक्तत्वात् । तथा च संकल्पितात्मकः पुरुषः स्वरूपसारभूतसर्ववेदसदक्षिणाकं सर्वपृष्ठस्तोत्रयुक्तं स्वसंकल्पित- दोषप्रायश्चित्तभूतं सोमभागं कुर्यात् । ततश्च स्वप्रतिनिधिभूत- तादृशयागकर्मणा सर्वदेवताभ्यस्तत्प्रतिपादकपृष्ठस्तोत्रेभ्यश्च संकल्पितं स्वात्मानं निष्क्रीणीते । यज्ञस्य सर्ववेदसत्वं तु वेदःशब्दस्य धनवाचित्वेन सर्ववेदः सर्वधनं दक्षिणा यस्मिन्यज्ञ इति व्युत्पत्या बोध्यम् । सेयं सत्रेषु संकल्पभ्रष्टस्य प्रायश्चित्तिः । तदिदं सोमप्रतिनिधिरूपं प्रायश्चित्तं सूत्रकारेण स्पष्टमुदाहृतम्- “सोमभावेपूतीकानभिषुणूयात्पूतीकाभाव आदारान्फाल्गुनानि च यानि श्वेततूलानि स्युस्तदभावे याः काश्चौषधीःक्षीरिणीररुणदूर्वाः कुशान्वा हरितानिति वाजसनेयकमिति,
तैत्तिरीयब्राह्मणम् (१.४.७) २०१ यदि सत्रायाऽऽगूर्य न यजेत विश्वजिताऽतिरात्रेण सर्वपृष्ठेन सर्वस्तोमेन सर्ववेदसदक्षिणेन यजेत'' इति । अत्र मीमांसा । षष्ठाध्यायस्य तृतीयपादे चिन्तितम्- सोमाभावे भवेत्पूतीविधिः प्रतिनिधिरावुत । नियमो वचनादाद्यो लाघवात्तन्नियम्यते ॥ (इति) । यदि सोमं न विन्देत पूनीकानभिषुणुयादिति लिङ्प्रत्ययस्य विधिवा- चित्त्वादिदं वाक्यं पूतीकलताखण्डानां विधायकमिति चेत् । मैवम् सदृशतया प्रतिनिधेयत्वेन प्राप्तेषु पूतीकादिद्रव्येषु नियममात्रविधौ लाघवात् । तस्मात्पूतीकद्रव्यं नियम्यते । अत्रैवान्यच्चिन्तितम् - पूतीकस्यापचारे स्यात्तेन सोमेन वा समम् । आद्यः श्रुतांशसादृश्यात्पूतीकाविधितोऽन्तिमः ॥ (इति) । यदा सोमप्रतिनिधेः पूतीकस्यापचारः स्यात्तदा तेन पूतीकेन सदृशं द्रव्यान्तरमुपादेयम् "पूतीकांनभिषिणुयात्" इति श्रुतेः पूतीकांशैः सादृश्यस्य लाभादिति चेत् । मैवम् । नास्ति पूतीकानां विधिः । किं तु नियमार्थं तद्वचनमित्युक्तम् । अतः श्रुतस्य सोमस्य सादृश्यलाभाय सोमसमं द्रव्यान्तरमुपादेयम् । दशमाध्यायस्य तृतीयपादे चिन्तितम्- एकां पञ्चेति कृत्स्नां वा गोसंख्यां वा निवर्तयेत् । स्यादाद्यो दक्षिणायोगान्मैवं व्यवहितत्वतः ॥ (इति) । इदं श्रूयते-"यस्य सोममपहरेयुरेकां गां दक्षिणां दद्यादभिदग्धे पञ्चगाः" इति । तदिदं संख्याविशिष्टं द्रव्यं विधीयमानं गवादिदक्षिणं कृत्स्नां निवर्तयेत् । तस्य दक्षिणाशब्दयोगेन कार्यैकत्वात् । मैवम् । विशिष्टविधौ गौरवात् । गवां प्राप्तत्वाच्च संख्यामात्रं विधेयम् । तस्य च गोपदेन व्यवधानान्न दक्षिणायोगोऽस्ति । गोपदयोगे तु गोगतां स्वविरोधिनीं संख्यामेव निवर्तयेन्न त्वन्यत्किञ्चिदिति राद्धान्तः । षष्ठाध्यायस्य चतुर्थपादे चिन्तितम्- सत्रायाऽऽगुरते योऽयं यजेद्विश्वजितेत्यसौ । यः कोऽप्युत प्रवृत्तः स्यादप्रवृत्तोऽथवाऽग्रिमः ॥ अविशेषात्प्रवृत्तोऽस्तु सत्राङ्गं हि तथा भवेत् । निमित्तोक्तेरप्रवृत्तः प्रायश्चित्तं चरेदिदम् ॥ (इति) ।
Digitized by Madhuban Trust, Delhi २०२ (१.४.७) तैत्तिरीयब्राह्मणम् इदमाम्नायते-“यः सत्रायाऽऽगुरते स विश्वजिता यजेत” इति । आगुरते संकल्पयति । तत्र सत्रं संकल्प्य कश्चिदनुष्ठातुं प्रवृत्तः । अपरो न प्रवृत्तः । तयोरुभयोर्मध्ये यः कोऽपि विश्वजिता यजेत । कुतः । प्रवृत्त एव यजेतेति विशेषस्याश्रवणात् । एवमप्रवृत्त एव यजेतेत्यापि विशेषो न श्रूयते तस्मादुभयोरन्यतर इत्याद्यः पक्षः । प्रवृत्तस्य विश्वजिदनुष्ठाने सत्राङ्गत्वं विश्वजितो लभ्यते । तस्मात्प्रवृत्त एव विश्वजितं कुर्यादिति द्वितीयः पक्षः । ‘यः सत्रायाऽऽगुरते’ इति निमित्तत्वेनोपन्यासात्संकल्प्य यदि सत्रं नानुतिष्ठेत्तदा प्रायश्चित्तार्थं विश्वजिद्यागं कुर्यादिति राद्धान्तः । षष्ठाध्यायस्य सप्तमपादे चिन्तितम्- सर्वस्वदाने पित्रादावपि तद्धन एव वा । स्वत्वादाद्यः पितृत्वादावत्यागाद्धन एव तत् ।। (इति)। इदमामनन्ति-“विश्वजिति सर्वस्वं ददाति” इति । तत्र धन इव पित्रादिष्वप्यात्मीयत्वस्य समानत्वादस्ति पित्रादीनामपि तद्दानमिति प्राप्ते ब्रूमः । आत्मसंबन्धत्यागपूर्वकं परसंबन्धापादनं दानमित्युच्यते । न हि दीयमाने पितरि स्वकीयपितृत्वत्यागः परकीयपितृत्वापादनं वा संभवति । किंच स्वशब्दस्याऽऽत्मा ज्ञातिरात्मीयं धनं चेति चत्वारोऽर्थाः । तेष्वेकस्मिन्प्रयोग एक एवार्थो वाच्यः । प्रकृतौ गवादिधनस्यैव दक्षिणात्वाद्विहापि धनवाचित्वं युक्तम् । तस्माद्धनस्यैव दानम् । तत्रैवान्यच्चिन्तितम्- देया न वा महाभूमिः स्वत्वाद्राजा ददातु ताम् । पालनस्यैव राज्यत्वान्न स्वं भूर्दीयते न सा” (इति) । यदा सार्वभौमो राजा विश्वजिति सर्वं ददाति तदा गोपथराजमार्ग- जलाशयाद्यन्विता महाभूमिस्तेन दातव्या । कुतः । भूमेस्तदीयधनत्वात् । “राजा सर्वस्यैष्टे ब्राह्मणवर्जम्” इति स्मृतेरिति प्राप्ते ब्रूमः । दुष्टशिक्षाशिष्टपरिपालनाभ्यां राज्ञ ईशितृत्वं स्मृत्यभिप्रेतमिति न राज्ञो भूमिर्धनम् । किं तु तस्यां भूमौ स्वकर्मफलं भुञ्जानानां सर्वेषां प्राणिनां साधारणं धनम् । अतोऽसाधारणस्य भूखण्डस्य सत्यपि दाने महाभूमेर्दानं नास्ति । तत्रैवान्यच्चिन्तितम्- दानं केसरिणां नो वा विहितप्रतिषेधतः । विकल्पः पर्युदासोऽयं ये यजामहनीतितः ।। (इति) । CC-0. Shri Vipin Kumar Col. Deoband. In Public Domain.
तैत्तिरीयब्राह्मणम् (१.४.७) २०३ “न केसरिणो ददाति” इति विश्वजिति श्रूयते । तत्र सर्वस्वदानविधानात्केसरिदाननिषेधाच्चाश्वदानं विकल्पितमिति प्राप्ते ब्रूमः । नायं प्रतिषेधः। किं तु पर्युदासः । तत्प्रकारश्च दशमाध्यायस्याष्टमपादे ये यजामहमन्त्रोदाहरणेन व्युत्पादयिष्यते । ततस्तेन न्यायेनाश्वपर्युदासे सत्यश्वव्यतिरिक्तं सर्वस्वं देयमिति । विधिनिषेधयोरेकवाक्यतालाभान्नास्त्यश्वस्य पाक्षिकमपि दानम् । तत्रैवान्यच्चिन्तितम्- अर्जयित्वाऽपि किं सर्वं देयं द्रव्यं यदस्ति तत् । सर्वोद्देशविधेराद्यो न प्राप्ते सर्वता विधेः ।। (इति) । पूर्वोक्ते सर्वस्वदाने सर्वमुद्दिश्य दानं विधीयते । पुरुषेण भोग्यं शय्याऽऽसनादिकं यत्सर्वं तद्दातव्यमिति । तस्मादविद्यमानं सर्वमर्जयित्वाऽपि देयमिति चेत् । मैवम् । चोदकप्राप्तं दानमुद्दिश्य सर्वत्वाविधानात् । सर्वशब्दश्च प्रसिद्धवाचित्वाद्विद्यमानविषयः । तस्माद्यदस्ति तदेव देयम् । तत्रैवान्यच्चिन्तितम् - धर्मार्थं सेवकः शूद्रो देयो नो वा स दासवत् । देयोऽस्वत्वात्पराधीनगर्भदासो च दीयते ।। इति । यस्तु शूद्रो विहितं स्वधर्ममवगन्तुं सेवते सोऽपि स्वमध्यपातित्वाद्गर्भदासवद्देय इति चेत् । मैवम् ।। जीविताद्यदानेन तस्मिन्सेवके स्वत्वाभावात्स्वेच्छाचारित्वेन परस्वत्वादानासंभवाच्च न देयः । तत्रैवान्यच्चिन्तितम्- भूतं भावि च देयं स्यात्कालऽवस्थितमेव वा । आद्यः सर्वश्रुतेरन्त्योऽसंभवादन्ययोस्तथा ।। (इति) । विश्वजिन्मया कर्तव्य इत्यध्यवसायादूर्ध्वं दक्षिणाकालात्पूर्वं यत्स्वेन भोग्यं संचितं तद्भूतम् । यच्च दक्षिणाकालादूर्ध्वं भविष्यत्येवेति निश्चितं तद्भावि । तदुभयमपि सर्वशब्दार्थत्वाद्दातव्यमिति चेत् । मैवम् । भूतस्य विनाशसंभवात् भाविनस्तदानीमप्राप्तत्वादविद्यमानस्य दानायोगाच्च दक्षिणाकालेऽवस्थितमेव सर्वं देयम् । तत्रेवान्यञ्चिन्तितम्- दक्षिणाक्रतुभुक्त्यर्थं त्रयं देयमुतेष्टये । शिष्टाऽथवा दक्षिणार्थमेवाऽऽऽद्ध्यः सर्वशब्दतः ।।
२०४ (१.४.८) तैत्तिरीयब्राह्मणम् क्रतुशेषस्तदा बाध्यः प्रधानत्वादबाधनात् । मध्योऽन्त्यो दक्षिणार्थस्यानुवादात्सर्वतोबिधेः ॥ ( इति ) । प्रकृतौ कर्मारम्भ एव यजमानेनाऽऽत्मीयं धनं वचनबलात्त्रिधा व्यवस्थापितम् । इदं मे भुक्त्यर्थमिदं मे यज्ञार्थमिदं मे दक्षिणार्थमिति । तदेतत्रयमपि दक्षिणार्हत्वाद्दातव्यमित्येकः पक्षः । दक्षिणा हि माध्यंदिने सवने दीयंते । तत ऊर्ध्वं तृतीयसवनमारभ्योदवसानीयान्तः क्रतुभागोऽवशिष्टः । स च द्रव्यालाभाद्बाध्येत । न चाङ्गभूतया दक्षिणया प्रधानस्य क्रतोर्बाधोयुक्तः । ततस्तदबाधनाय क्रत्वर्थं भागमवस्थाप्यावशिष्टं सर्वं देयमिति द्वितीयः पक्षः। यद्दक्षिणात्वेन विधीयते तत्सर्वमित्यनूद्य विधानाद्दक्षिणार्थभाग एव दातव्य इति राद्धान्तः । अष्टमाध्याये प्रथमपादे चिन्तितम्- इष्टेः सोमस्य वा धर्मा विश्वजित्प्रमुखेष्विहः । आविशषादैच्छिकः । स्युः सोमस्याव्यक्तिसाम्यतः ॥ (इति) । “विश्वजिता यजेत” “अभिजित्ता यजेत” “द्वादशाहेन यजेत” इत्यादिषु नियामकाभावादिष्टिसोमयोरन्यतरस्य धर्मा इच्छया ग्रहीतव्याः । मैवम् । अव्यक्तलिङ्गे सोमसाम्यादुत्पत्तिवाक्ये देवतानभिधानमव्यक्तितस्तस्मात्सोमस्य धर्मानतिदिशेत् । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे चतुर्थप्रपाठके सप्तमोऽनुवाकः ॥ ७ ॥ अथ चतुर्थप्रपाठकेऽष्टमोऽनुवाकः । सप्तमे विरोहणादिप्रायश्चित्तमुक्तम् । अथाष्टमे शुद्धिहेतवो मन्त्रा उच्यन्ते । ते चानारभ्याधीतं प्रकृतिगामीति न्यायेन प्रकृतौ विनियोक्तव्याः । तत्रापि शुद्धिलिङ्गेन शोधनक्रियासंबन्धिन एते भवन्ति । सा च क्रिया सोमप्रकरणे दीक्षितसंस्कारेष्वाम्नाता-‘दर्भपिञ्जूलैः पवयति’ इति । तत्राऽऽध्वर्यवा मन्त्राश्चित्पतिस्त्वा पुनातु, इत्यादिकास्तत्प्रकरण एव समाम्नाताः । अतः परिशेषात्पुनीमह इत्युत्तमपुरुषलिङ्गाच्च पाव्यमानस्य यजमानस्य जप इति गम्यते । अत एव सूत्रकारेणोक्तम् -“पाव्यमानो जपति तस्य ते पवित्रपते” इति च “पवमानः सुवर्जनः” इत्यस्मिन्ननुवाके प्रथमामृचमाह -
तैत्तिरीयब्राह्मणम् (१.४.८) २०५ पव॑मानः सु॒व॒र्जन॑ः । प॒वित्रे॑ण वि॒चर्ष॑णिः । यः पोता॒ स पु॑नातु मा, इति । यो देवः पोता सर्वेषां शोधयिता स देवः पवित्रेण शुद्धिसाधनेनास्मदीययज्ञजपध्यानादिना मां पुनातु शोधयतु । कीदृशः । पोता पवमानः शोधनकुशलः सुवर्जनः स्वर्ग एवोत्पन्नो विचर्षणिर्विविधशोधनप्रकाराभिज्ञः । अथ द्वितीयामाह- पुन॑न्तु मा देव॒जनाः॑ । पुन॑न्तु॒ मन॑वोधि॒या । पुन॑न्तु॒ विश्व॑ आय॒वः॑, इति । ये कल्पादौ स्वर्गलोकेषु समुत्पन्नत्वेन देवरूपा जना ये च स्वायंभुवमनुप्रभृतय ऋषयो येऽपि स्वकर्मवशान्मनुष्यलोक- मायान्तीत्यादयो मनुष्याः सदाचारसंपन्नाः शुश्रूवांसंते विश्वे सर्वेऽपि धियाऽ नुग्रबुद्ध्या मां पुनन्तु । अथ तृतीयामाह- जात॑वेदः प॒वित्रे॑वत्। प॒वित्रे॑ण पुनाहि मा । शुक्रेण॑ दे॒व दीद्य॑त् । अग्ने॒क्रत्वा॒ क्रतूँ॒ २ रनु॑ (१), इति । हे जातवेद,उत्पन्नसर्वजगदभिज्ञाग्रे देव शुक्रेण दीद्यद्भास्वद्दीप्त्या भासमानस्त्वं क्रतं ँरन्वस्मदनुष्ठेया कर्मविशेषाननुसृत्य पवित्रेण क्रत्वा शोधकेन त्वत्संकल्पेन पवित्रवदस्मदनुष्ठितं कर्म शुद्धियुक्तं यथा भवति तथा मां पुनीहि शोधय । अथ चतुर्थीमाह - यत्ते॑ प॒वित्र॑म॒र्चिषि॑ । अग्ने॒ वित॑तमन्त॒रा । ब्रह्म॒ तेन॑ पुनीमहे, इति । हेऽग्ने ते तवार्चिषिं ज्वालायामन्तरा मध्ये विततं विस्तृतं यत्पवित्रं शुद्धिसाधनं ब्रह्म प्रवृद्धमस्ति तेन वयं पुनीमहे । अथ पञ्चमीमाह-
२०६ (१.४.८) तैत्तिरीयब्राह्मणम् उ॒भाभ्यां॑ देव सवितः। प॒वित्रे॑ण स॒वेन॑ च । इ॒दं ब्रह्म॑ पुनीमहे, इति । हे सवितर्देवं त्वदीयं यत्पवित्रं शुद्धिसाधनं यश्च सवः । कर्मस्वस्मद्विषयं प्रेरणं ताभ्यामुभाभ्यामिदं ब्रह्म परिवृढं कर्म पुनीमहे शोधयामः । अथ षष्ठीमाह- वै॒श्व॒दे॒वी पु॑न॒ती दे॒व्यागा॑त् । यस्यै॑ ब॒ह्वीस्त॒नुवो॑ वी॒तपृ॑ष्ठाः । तया॒ मद॑न्तः स॒ध माद्ये॑षु । व॒य ँ॑ स्याम॒ पत॑यो रयी॒णाम् (२), इति । सर्वदेवसम्बन्धिनी या देवी शोधनकुशला साऽस्मान्पुनती शोधयन्ती, आगादागच्छतु । यस्यै यस्या देव्यास्तनुव शुद्धिहेतवो देहविशेषावीतपृष्ठाः क्रान्तस्तुतयस्तया देव्याऽनुहीताः सध माद्येषु ऋत्विग्भिः सह हर्षयोग्येषु कर्मसु मदन्तो हृष्यन्तो वयं रयीणां धनानां पतयः स्याम । अथ सप्तमीमाह- वै॒श्वा॒न॒रो र॒श्मिभि॑र्मा पुनातु । वातः॑ प्रा॒णेने॑षिरो म॑यो॒भूः। द्यावा॑पृथि॒वी पर्य॑सा॒ पयो॑भिः । ऋ॒तावरी॑ य॒ज्ञिये॑ मा पुनीताम्, इति । विश्वेषां नराणां हितोऽग्निरादित्यो वा देवः स्वकीयरश्मिभिर्मां पुनातु । वातो वायुदेवः प्राणेनेषिरः प्राणरूपेण देहेषु गच्छन्मयोभूः सुखस्य भावयिता भवतु । द्यावापृथिव्यौ च ऋतावरी सत्यवत्यौ यज्ञिये हिते सत्यौ पयसा जलेन पयोभिः क्षीरादिरसैश्च मां पुनीताम् । अथाष्टमीमाह- बृ॒हद्भिः॑ सवित॒स्तृभिः॑ । वर्षि॑ष्ठैर्देव॒मन्म॑भिः । अग्ने॒ दक्षैः॑ पुनाहि मा, इति । हे सवितः कर्मसु प्रेरकाग्ने देव मन्मभिर्मननैरस्मदनुग्रहविषयैर्मां पुनीहि । कीदृशैर्बृहद्बिरादरयुक्तैस्तृभिः पापतरणसाधनैर्वर्षिष्ठै- श्चिरकालानुवृत्त्या वृद्धतमैर्दक्षैः शोधनकुशलैः।
तैत्तिरीयब्राह्मणम् (१.४.८) २०७ अथ नवमीमाह- येन॑ दे॒वा अपु॑नत । येना॒ऽऽपो दि॒व्यंकश॑: । तेन॑ दि॒व्येन॒ ब्रह्म॑णा । (३) । इ॒दंब्रह्म॑ पुनीमहे, इति । येन शुद्धिसाधनेन देवाः पूर्वान्यजमानानपुनत । कश गताविति धातोरुत्पन्नःसकारान्तः । कशः शब्दो गतिवाची । येन शुद्धिसाधनेनाऽऽपो देवता दिव्यंकशोऽपुनत दिव्यलोकविषयां गतिं शोधितवन्तः (त्यः) । दिव्येन द्युलोकयोग्येन ब्रह्मणा परिवृढेन तेन सुद्धिसाधनेनेदं ब्रह्मानुष्ठीयमानं परिवृढं कर्म पुनीमहे । अथ दशमीमाह- यः पा॑वमा॒नीर॒ध्येति॑ । ऋषि॑भि॒: संभृ॑तं॒ रस॑म् । सर्वं॒ ँस पू॒तम॑श्नाति ॥ स्व॒दि॒तं मा॒त॒रिश्व॑ना, इति । यः पुमान्पावमानीः शोधकदेवतासंबन्धनीरेता ऋचोऽध्येति पठत्यर्थतः स्मरति वा स पुरुषः सर्वं रसं सारभूतं फलमश्नाति भुङ्क्ते । कीदृशं रसम् । ऋषिभिः संभृतं मन्त्रैस्तदभिज्ञैर्मुनिभिश्च संपादितम् । अत एव पूतं शुद्धं मातरिश्वना वायुनास्वदितं स्वादूकृतम् । अथैकादशीमाह- पा॒व॒मा॒नीर्यो अध्येति॑ । ऋषि॑भि॒: संभृ॑तं॒ ँ रस॑म् । तस्मै॒ सर॑स्वती दुहे । क्षी॒र ँ स॒र्पिर्मधूद॑कम्, इति । यः पावमानीरध्येति तस्मै पुरुषाय सरस्वती रसं दुहे । कीदृशं । क्षीरादिरूपम् । पा॒व॒मा॒नीः स्व॒स्त्यय॑नीः(४) । सु॒दुघा॒ हि पय॑स्वतीः । ऋषि॑भि॒: संभृ॑तो॒ रस॑:। ब्रा॒ह्म॒णेष्व॒मृतं॒ ँ हि॒तम्, इति । याः पावमान्य ऋचस्ताः स्वस्त्ययनीः क्षेमप्रापिकाः सुदुघाः सुष्ठु फलं दुहानां पयस्वतीः क्षीरादिरसहेतवश्च प्रसिद्धास्ता अस्माननुगृह्णन्त्विति शेषः । ऋषिभिर्मन्त्रदर्शिभिर्मुनिभी रसः फलसारः संभृतोऽस्मासु संपादितोऽस्तु । ब्रह्म मन्त्रस्तत्पाठकाब्राह्मणा- स्तेष्वस्मास्वमृतमविनाशि फलं हितं संपादितमस्तु । अथ त्रयोदशीमाह-