तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 233, कुल 345 में से
संदर्भ में पढ़ें२०४ (१.४.८) तैत्तिरीयब्राह्मणम् क्रतुशेषस्तदा बाध्यः प्रधानत्वादबाधनात् । मध्योऽन्त्यो दक्षिणार्थस्यानुवादात्सर्वतोबिधेः ॥ ( इति ) । प्रकृतौ कर्मारम्भ एव यजमानेनाऽऽत्मीयं धनं वचनबलात्त्रिधा व्यवस्थापितम् । इदं मे भुक्त्यर्थमिदं मे यज्ञार्थमिदं मे दक्षिणार्थमिति । तदेतत्रयमपि दक्षिणार्हत्वाद्दातव्यमित्येकः पक्षः । दक्षिणा हि माध्यंदिने सवने दीयंते । तत ऊर्ध्वं तृतीयसवनमारभ्योदवसानीयान्तः क्रतुभागोऽवशिष्टः । स च द्रव्यालाभाद्बाध्येत । न चाङ्गभूतया दक्षिणया प्रधानस्य क्रतोर्बाधोयुक्तः । ततस्तदबाधनाय क्रत्वर्थं भागमवस्थाप्यावशिष्टं सर्वं देयमिति द्वितीयः पक्षः। यद्दक्षिणात्वेन विधीयते तत्सर्वमित्यनूद्य विधानाद्दक्षिणार्थभाग एव दातव्य इति राद्धान्तः । अष्टमाध्याये प्रथमपादे चिन्तितम्- इष्टेः सोमस्य वा धर्मा विश्वजित्प्रमुखेष्विहः । आविशषादैच्छिकः । स्युः सोमस्याव्यक्तिसाम्यतः ॥ (इति) । “विश्वजिता यजेत” “अभिजित्ता यजेत” “द्वादशाहेन यजेत” इत्यादिषु नियामकाभावादिष्टिसोमयोरन्यतरस्य धर्मा इच्छया ग्रहीतव्याः । मैवम् । अव्यक्तलिङ्गे सोमसाम्यादुत्पत्तिवाक्ये देवतानभिधानमव्यक्तितस्तस्मात्सोमस्य धर्मानतिदिशेत् । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे चतुर्थप्रपाठके सप्तमोऽनुवाकः ॥ ७ ॥ अथ चतुर्थप्रपाठकेऽष्टमोऽनुवाकः । सप्तमे विरोहणादिप्रायश्चित्तमुक्तम् । अथाष्टमे शुद्धिहेतवो मन्त्रा उच्यन्ते । ते चानारभ्याधीतं प्रकृतिगामीति न्यायेन प्रकृतौ विनियोक्तव्याः । तत्रापि शुद्धिलिङ्गेन शोधनक्रियासंबन्धिन एते भवन्ति । सा च क्रिया सोमप्रकरणे दीक्षितसंस्कारेष्वाम्नाता-‘दर्भपिञ्जूलैः पवयति’ इति । तत्राऽऽध्वर्यवा मन्त्राश्चित्पतिस्त्वा पुनातु, इत्यादिकास्तत्प्रकरण एव समाम्नाताः । अतः परिशेषात्पुनीमह इत्युत्तमपुरुषलिङ्गाच्च पाव्यमानस्य यजमानस्य जप इति गम्यते । अत एव सूत्रकारेणोक्तम् -“पाव्यमानो जपति तस्य ते पवित्रपते” इति च “पवमानः सुवर्जनः” इत्यस्मिन्ननुवाके प्रथमामृचमाह -