तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 234, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् (१.४.८) २०५ पव॑मानः सु॒व॒र्जन॑ः । प॒वित्रे॑ण वि॒चर्ष॑णिः । यः पोता॒ स पु॑नातु मा, इति । यो देवः पोता सर्वेषां शोधयिता स देवः पवित्रेण शुद्धिसाधनेनास्मदीययज्ञजपध्यानादिना मां पुनातु शोधयतु । कीदृशः । पोता पवमानः शोधनकुशलः सुवर्जनः स्वर्ग एवोत्पन्नो विचर्षणिर्विविधशोधनप्रकाराभिज्ञः । अथ द्वितीयामाह- पुन॑न्तु मा देव॒जनाः॑ । पुन॑न्तु॒ मन॑वोधि॒या । पुन॑न्तु॒ विश्व॑ आय॒वः॑, इति । ये कल्पादौ स्वर्गलोकेषु समुत्पन्नत्वेन देवरूपा जना ये च स्वायंभुवमनुप्रभृतय ऋषयो येऽपि स्वकर्मवशान्मनुष्यलोक- मायान्तीत्यादयो मनुष्याः सदाचारसंपन्नाः शुश्रूवांसंते विश्वे सर्वेऽपि धियाऽ नुग्रबुद्ध्या मां पुनन्तु । अथ तृतीयामाह- जात॑वेदः प॒वित्रे॑वत्। प॒वित्रे॑ण पुनाहि मा । शुक्रेण॑ दे॒व दीद्य॑त् । अग्ने॒क्रत्वा॒ क्रतूँ॒ २ रनु॑ (१), इति । हे जातवेद,उत्पन्नसर्वजगदभिज्ञाग्रे देव शुक्रेण दीद्यद्भास्वद्दीप्त्या भासमानस्त्वं क्रतं ँरन्वस्मदनुष्ठेया कर्मविशेषाननुसृत्य पवित्रेण क्रत्वा शोधकेन त्वत्संकल्पेन पवित्रवदस्मदनुष्ठितं कर्म शुद्धियुक्तं यथा भवति तथा मां पुनीहि शोधय । अथ चतुर्थीमाह - यत्ते॑ प॒वित्र॑म॒र्चिषि॑ । अग्ने॒ वित॑तमन्त॒रा । ब्रह्म॒ तेन॑ पुनीमहे, इति । हेऽग्ने ते तवार्चिषिं ज्वालायामन्तरा मध्ये विततं विस्तृतं यत्पवित्रं शुद्धिसाधनं ब्रह्म प्रवृद्धमस्ति तेन वयं पुनीमहे । अथ पञ्चमीमाह-