तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 235, कुल 345 में से
संदर्भ में पढ़ें२०६ (१.४.८) तैत्तिरीयब्राह्मणम् उ॒भाभ्यां॑ देव सवितः। प॒वित्रे॑ण स॒वेन॑ च । इ॒दं ब्रह्म॑ पुनीमहे, इति । हे सवितर्देवं त्वदीयं यत्पवित्रं शुद्धिसाधनं यश्च सवः । कर्मस्वस्मद्विषयं प्रेरणं ताभ्यामुभाभ्यामिदं ब्रह्म परिवृढं कर्म पुनीमहे शोधयामः । अथ षष्ठीमाह- वै॒श्व॒दे॒वी पु॑न॒ती दे॒व्यागा॑त् । यस्यै॑ ब॒ह्वीस्त॒नुवो॑ वी॒तपृ॑ष्ठाः । तया॒ मद॑न्तः स॒ध माद्ये॑षु । व॒य ँ॑ स्याम॒ पत॑यो रयी॒णाम् (२), इति । सर्वदेवसम्बन्धिनी या देवी शोधनकुशला साऽस्मान्पुनती शोधयन्ती, आगादागच्छतु । यस्यै यस्या देव्यास्तनुव शुद्धिहेतवो देहविशेषावीतपृष्ठाः क्रान्तस्तुतयस्तया देव्याऽनुहीताः सध माद्येषु ऋत्विग्भिः सह हर्षयोग्येषु कर्मसु मदन्तो हृष्यन्तो वयं रयीणां धनानां पतयः स्याम । अथ सप्तमीमाह- वै॒श्वा॒न॒रो र॒श्मिभि॑र्मा पुनातु । वातः॑ प्रा॒णेने॑षिरो म॑यो॒भूः। द्यावा॑पृथि॒वी पर्य॑सा॒ पयो॑भिः । ऋ॒तावरी॑ य॒ज्ञिये॑ मा पुनीताम्, इति । विश्वेषां नराणां हितोऽग्निरादित्यो वा देवः स्वकीयरश्मिभिर्मां पुनातु । वातो वायुदेवः प्राणेनेषिरः प्राणरूपेण देहेषु गच्छन्मयोभूः सुखस्य भावयिता भवतु । द्यावापृथिव्यौ च ऋतावरी सत्यवत्यौ यज्ञिये हिते सत्यौ पयसा जलेन पयोभिः क्षीरादिरसैश्च मां पुनीताम् । अथाष्टमीमाह- बृ॒हद्भिः॑ सवित॒स्तृभिः॑ । वर्षि॑ष्ठैर्देव॒मन्म॑भिः । अग्ने॒ दक्षैः॑ पुनाहि मा, इति । हे सवितः कर्मसु प्रेरकाग्ने देव मन्मभिर्मननैरस्मदनुग्रहविषयैर्मां पुनीहि । कीदृशैर्बृहद्बिरादरयुक्तैस्तृभिः पापतरणसाधनैर्वर्षिष्ठै- श्चिरकालानुवृत्त्या वृद्धतमैर्दक्षैः शोधनकुशलैः।