तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 226, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् (१.४.७) १९७ यत्येतस्माद्यजमानात्पशवो वीर्यं चापक्रामन्ति । किं कृत्वाऽसूर्यं वर्णमसुरेभ्यो हितं कृत्वा । तदेतदपक्रमणं निवारयितुं त्वष्टृदेवताकं बहुवर्णोपेतं पशुमालभेत । त्वष्टा हि रूपाणां स्वामी । "त्वष्टा वै पशूनां मिथुनाना ँरूपकृत्" इति श्रुत्यन्तरात् । अतः पशूनां "त्वष्टा रूपस्वामी यजमाने तान्पशून्वीर्यं च नियच्छति । ततो नास्मात्पशवो वीर्यं चापक्रामन्ति । अथाग्निविनाशप्रायश्चित्तं विधत्ते- आर्तिं॑ वा ए॒ते नि॒र्यन्ति॑ । येषां॑ दीक्षि॒ताना॑म॒ग्निरु॒द्वाय॑ति (१) । यदा॑हव॒नीय॒ उद्वाये॑त् । यत्तं म॑न्थेत् । वि॒च्छि॑न्द्यात् । भ्रातृ॑व्यमस्मै जनयेत् । यदा॑हव॒नीय॑ उद्वा॒ये॑त् । आ॒ग्नीध्रा॑दु॒द्धरे॑त् । यदा॒ग्नीध्र॒ उद्वा॒ये॑त् । गा॒र्हप॒त्यादु॒द्धरे॑त् । यद्गा॑र्हप॒त्य उद्वा॒ये॑त् । अ॒र्त ए॒व पु॒नर्म॑न्थेत् (२) । अत्र॒ वाव स नि॒र्लये॑त । यत्र॒ खलु॒ वै नि॒र्लीन॑मु॒क्तं॑ पश्य॑न्ति । तदै॑नमिच्छ॑न्ति, इति । दीक्षितानां येषां पुरुषाणामग्निर्विनश्यति ते पुरुषा विनाशमेव प्राप्नुवन्ति । तत्परिहाराय कश्चिद्भ्रान्त आहवनीयस्य नाशे यद्याहवनीयार्थमेव मन्थनं कुर्यात्तदानीं तस्य मथिताहवनीयस्य गार्हपत्यजन्यत्वाभावात्तयोरुभयोरेकमत्याभावेन यज्ञो विच्छिद्येत । मथितस्य गार्हपत्येन विरोधाद्यजमानस्य भ्रातृव्यं जनयेत् तस्मादाहवनीयनाशे सत्याग्नीध्राद्धिष्ण्यादग्निमुद्धरेत् । न तु मन्थनं कुर्यात् । आग्नीध्रस्य नाशे गार्हपत्यादग्निमुद्धरेत् । तस्य गार्हपत्यस्य नाशे तत एव गार्हपत्यादर्थदग्धकाष्ठात्पुनर्मन्थनं कुर्यात् । यस्मादत्रैवगार्हपत्ये सोऽग्निर्विलीनोऽन्तर्हितस्तस्मादत्रैव मन्थनं युक्तम् । लोकेऽपि मणिमुक्तादिकमुक्तं वस्तु यत्र भूप्रदेशे पतित्वा निलीनं भवति तत्रैव तदन्विष्य लब्धुमिच्छन्ति । तस्माद्गार्हपत्यस्थितकाष्ठे मन्थनमुचितम् । तस्मिन्मन्थने कंचिद्विशेषं विधत्ते- यस्मा॒द्दारो॑रु॒द्वायै॑त् । तस्या॑र॒णीं कु॑र्यात् । क्रु॒मु॒कम॑पि कु॒र्यात् । ए॒षा वा अ॒ग्नेः प्रि॒या त॒नूः । यत्क्रु॑मु॒कः । प्रि॒ययै॒वैनं॑ त॒नुवा॒ सम॑र्धयन्ति, इति ।