भारतकोश
संग्रह पर लौटें

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

तैत्तिरीयब्राह्मणम् (१.४.७) १९७ यत्येतस्माद्यजमानात्पशवो वीर्यं चापक्रामन्ति । किं कृत्वाऽसूर्यं वर्णमसुरेभ्यो हितं कृत्वा । तदेतदपक्रमणं निवारयितुं त्वष्टृदेवताकं बहुवर्णोपेतं पशुमालभेत । त्वष्टा हि रूपाणां स्वामी । "त्वष्टा वै पशूनां मिथुनाना ँरूपकृत्" इति श्रुत्यन्तरात् । अतः पशूनां "त्वष्टा रूपस्वामी यजमाने तान्पशून्वीर्यं च नियच्छति । ततो नास्मात्पशवो वीर्यं चापक्रामन्ति । अथाग्निविनाशप्रायश्चित्तं विधत्ते- आर्तिं॑ वा ए॒ते नि॒र्यन्ति॑ । येषां॑ दीक्षि॒ताना॑म॒ग्निरु॒द्वाय॑ति (१) । यदा॑हव॒नीय॒ उद्वाये॑त् । यत्तं म॑न्थेत् । वि॒च्छि॑न्द्यात् । भ्रातृ॑व्यमस्मै जनयेत् । यदा॑हव॒नीय॑ उद्वा॒ये॑त् । आ॒ग्नीध्रा॑दु॒द्धरे॑त् । यदा॒ग्नीध्र॒ उद्वा॒ये॑त् । गा॒र्हप॒त्यादु॒द्धरे॑त् । यद्गा॑र्हप॒त्य उद्वा॒ये॑त् । अ॒र्त ए॒व पु॒नर्म॑न्थेत् (२) । अत्र॒ वाव स नि॒र्लये॑त । यत्र॒ खलु॒ वै नि॒र्लीन॑मु॒क्तं॑ पश्य॑न्ति । तदै॑नमिच्छ॑न्ति, इति । दीक्षितानां येषां पुरुषाणामग्निर्विनश्यति ते पुरुषा विनाशमेव प्राप्नुवन्ति । तत्परिहाराय कश्चिद्भ्रान्त आहवनीयस्य नाशे यद्याहवनीयार्थमेव मन्थनं कुर्यात्तदानीं तस्य मथिताहवनीयस्य गार्हपत्यजन्यत्वाभावात्तयोरुभयोरेकमत्याभावेन यज्ञो विच्छिद्येत । मथितस्य गार्हपत्येन विरोधाद्यजमानस्य भ्रातृव्यं जनयेत् तस्मादाहवनीयनाशे सत्याग्नीध्राद्धिष्ण्यादग्निमुद्धरेत् । न तु मन्थनं कुर्यात् । आग्नीध्रस्य नाशे गार्हपत्यादग्निमुद्धरेत् । तस्य गार्हपत्यस्य नाशे तत एव गार्हपत्यादर्थदग्धकाष्ठात्पुनर्मन्थनं कुर्यात् । यस्मादत्रैवगार्हपत्ये सोऽग्निर्विलीनोऽन्तर्हितस्तस्मादत्रैव मन्थनं युक्तम् । लोकेऽपि मणिमुक्तादिकमुक्तं वस्तु यत्र भूप्रदेशे पतित्वा निलीनं भवति तत्रैव तदन्विष्य लब्धुमिच्छन्ति । तस्माद्गार्हपत्यस्थितकाष्ठे मन्थनमुचितम् । तस्मिन्मन्थने कंचिद्विशेषं विधत्ते- यस्मा॒द्दारो॑रु॒द्वायै॑त् । तस्या॑र॒णीं कु॑र्यात् । क्रु॒मु॒कम॑पि कु॒र्यात् । ए॒षा वा अ॒ग्नेः प्रि॒या त॒नूः । यत्क्रु॑मु॒कः । प्रि॒ययै॒वैनं॑ त॒नुवा॒ सम॑र्धयन्ति, इति ।

१९८ (१.४.७) तैत्तिरीयब्राह्मणम् गार्हपत्यवस्थितेष्वर्धदग्धकाष्ठेषु मध्ये चरमं वह्न्युद्वासनं यस्मिन्दारुणि पश्यतितद्दारुसंबन्धिन्यावेवारणीकुर्यात् । तयोररण्योर्मन्थनवेलायां क्रुमुकं प्रक्षिपेत् । तक्षणेननिष्पन्नोऽतिलघुः शकलः सोऽयं क्रुमुकः । सैषाऽग्नेरति प्रिया तनूः । क्रुमुकेन हि सहसा वह्निर्ज्वलति । अतः प्रियेणैव शरीरेण वहिं समृद्धं करोति । आहवनीयमन्थने यो दोष उक्तस्तदभावेन गार्हपत्यमन्थनं प्रशंसति- गा॒र्हप॑त्यं मन्थति (३)॑ । गा॒र्हप॑त्यो॒ वा अग्ने॒ योनि॑: । स्वादे॒वैनं॒ योने॑र्जनयति । नास्मै॒ भ्रातृ॑व्यं जनयति । इति । आधानकाले गार्हपत्यस्येतराग्नियोनित्वं दृष्टम् । अतोऽत्रापि गार्हपत्यमन्थने सति स्वकीयादेव योनेरुत्तरभाविनमेनमाहवनीयाद्यग्निं जनयति । अतो विरोधाभावाद्यजमानस्य भ्रातृव्यं नोत्पादयति । पूर्वं यस्य प्रातःसवन इत्यनुवाके सोमातिरेकप्रायश्चित्तमुक्तम् । इदानीं सोमोपक्षयनिमित्तं प्रायश्चित्तं विधत्ते- यस्य॒ सोम॑ उप॒दस्ये॑त् । सु॒वर्णं॒ हिर॑ण्यं द्वेधा वि॒च्छिद्य॑ । ऋ॒जीषे॑ऽन्यदा॑ धूनुयात्॑ । जु॒हुया॑द॒न्यत्॑ । सोम॑मे॒वाभि॑षुणोति । सोमं॑ जुहोति, इति । यस्य यजमानस्याभिषुतः सोम उपक्षीयते कृत्स्नानुष्ठानाय न पर्याप्त्यात्सोऽयं सम्यग्वर्णीपितं हिरण्यं द्वेधा विभज्य तदीयमेकं शकलं पूर्वं निष्पीडितरसं सोमवल्लीसंबन्धिन्यृजीष आधूनुयान्मिश्रयित्वा पुनरभिषुणूयात् । इतरच्छकलं मुख्ये चमसे निधाय रसेन सह जुहुयात् । तथा कृते सोम एवाभिषुतो हुतश्च भवति । तदेतत्सुवर्णं प्रशंसति- सोम॑स्य॒ वा अ॒भिषूय॑माणस्य प्रि॒या त॒नूरूद॑क्रामत् (४)॑ । तत्सु॒वर्णं॒ ॅहिर॑ण्यमभवत् । यत्सु॒वर्णं॒ ॅहिर॑ण्यं कु॒र्वन्ति॑ । प्रि॒ययै॒वैनं॑ त॒नुवा॒ सम॑र्धयन्ति, इति । रजतव्यावृत्त्यर्थं सुवर्णमिति विशेषणम् । उपक्षयप्रायश्चित्तमुक्त्वाऽपहारप्रायश्चित्तं विधत्ते- यस्याक्री॑तं॒ ॅसोम॑मप॒हरे॑युः । क्री॒णीया॑ दे॒व । सैव ततः॑ प्राय॑श्चित्तिः, इति ।

तैत्तिरीयब्राह्मणम् (१.४.७) १९९ दीक्षणीयेष्टेः पूर्वमेव सोमं संपाद्य क्रयपर्यन्तं क्वचिदवस्थापयेत् । अत एव सूत्रकार आह - "अत्र राजानमाहृत्य पयसौदनेन परिविवेषयन्त्याक्रयात्" इति । अत्र क्रयात्पूर्वं दीक्षादिवसेषु परिचर्यमाणं सोमं यदि केचिदपह्रेयु स्तदानीमन्यमपि कंचित्सोमं संपाद्य क्रयः कर्तव्य एव । क्रयानुष्ठितिरेव तस्यापहारस्य प्रायश्चित्तिः । अथ क्रीतस्यापहारे प्रायश्चितं विधत्ते- यस्य॑ क्री॒तमप॑हरेयुः । आ॒दा॒रा ूँश्च॑ फाल्गुना॑नि चा॒भिषु॑णुयात् । गाय॒त्री य ूँसो॑म॒माहर॑त् । तस्य॒ यो ऽ ूँशुः परा॑ऽप॑तत् (५) । त आ॑दा॒रा अ॑भवन् । इन्द्रो॑ वृ॒त्रमह॑न् । तस्य॑ व॒ल्कः परा॑ऽपतत् । तानि॑ फाल्गु॒नान्य॑भवन् । प॒शवो॒ वै फा॑ल्गु॒नानि॑ । प॒शवः॒ सोमो॒ राजा॑ । यदा॑दा॒रा ूँ श्च॑फाल्गुना॑नि चा॒भिषु॒णोति॑ । सोम॑मे॒व राजा॑नम॒भिषु॑णोति, इति । क्रीतस्य सोमस्यापहारे सोमप्रतिनिधित्वेनाऽऽ दाराणां फाल्गुनानां चाभिषवः । आद्रियन्ते सोमरहितैस्तत्पर्यैणं स्वीक्रियन्त इत्यादाराः क्षीरयुक्तवल्ली विशेषाः । लोकव्यवहारं फल्गु स्वल्पमेव प्रयोजनं येषामाद्रर्दूवार्ङ्कुरादीनां तृणानां तानि फाल्गुनानि । पुरा गायत्र्या समानीयमानस्य सोमस्य कश्चिदवयवो भूमौ पतितः स आदाररूपेणोत्पन्नः । इन्द्रेण हतस्य वृत्रस्य वल्कस्त्वक्शकलो भूमौ पतित्वा फाल्गुनरूपेणोद्भूत् । फाल्गुनानां पशुप्रियत्वात्पशुरूपत्वं सोमस्य च पशुप्रामिहेतुत्वात्पशुरूपत्वम् । एवं सत्यादारफाल्गुनाभिषवेण सोम एवाभिषुतो भवति । तत्र कर्तव्यविशेषान्विधत्ते- शृ॒तेन॑ प्रातः सव॑ने श्रीणीयात् । द॒ध्ना म॒ध्यं दिने॑ (६) नी॒त॒मिश्रे॑णं तृ॒तीयसव॑ने । अ॒ग्नि॒ष्टोमः॒ सोमः॑ स्यादृ॒तूर॒त्साम् । य ए॒वर्त्विजो॑ वृ॒ताः स्युः॑ । त ए॑नं याज- येयुः । एकां॒ गां दक्षि॑णां दद्यात्तेभ्य॑ एव॑ । पुन॑: सो॒मं क्रीणीयात् । य॒ज्ञेनै॒व तद्य॒ज्ञमि॑च्छति । सैव ततः॑ प्राय॑श्चित्तिः, इति ।

सप्तमोऽनुवाकः ॥ ७ ॥

२०० (१.४.७) तैत्तिरीयब्राह्मणम् अभिषुतमादारं फाल्गुनरसं शृतेन पक्वक्षीरेण श्रीणीयान्मिश्रयेत् । नवनीतोत्पत्तेः पूर्वावस्थमीषन्मथितं दधि नीतमिश्रम् । यद्यप्युक्थ्यषोडश्यादि रूपं क्रत्वन्तरमारब्धवांस्तथाऽपि तत्परित्यागेन प्रायश्चित्तरूपेऽस्मिन्प्रयोगे रथंतरपृष्ठोऽग्निष्टोमरूप एव सोमयागः कार्यः तत्र पूर्वं वृत्ता ऋत्विज एव याजकास्तेभ्यः सर्वेभ्य एकैव गौर्दक्षिणा । तथा नैमित्तिकं प्रयोगमनुष्ठाय पुनर्नित्यप्रयोगार्थं सोमं क्रीणीयात् । एवं सति नैमित्तिकप्रयोगरूपेणैव यज्ञेन नित्यप्रयोगरूपं प्राप्तुमिच्छति सेयमेवंविविधैवानुष्ठितिः। ततः क्रीतसोमापहारदोषात्प्रायश्चित्तिर्वि- मुक्तिहेतुः । अथ सत्रं संकल्प्य ततो निवृत्तौ प्रायश्चित्तं विधत्ते- सर्वा॑भ्यो॒ वा ए॒ष दे॒वता॑भ्यः॒ सर्व॑भ्यः पृ॒ष्ठेभ्य॑ आ॒त्मान॒मागुर॑ते । यः स॒त्राया॑ऽऽगु॒रते॑ । ए॒तावा॒न्खलु॒ वै पुरु॑षः । याव॑दस्य वि॒त्तम् । सर्व॑वेद॒सेन॑ यजेत । सर्व॑पृष्ठो॒ऽस्य॒ सोम॑: स्यात् । सर्वा॑भ्य ए॒व दे॒वता॑भ्यः॒ सर्व॑भ्यः पृ॒ष्ठेभ्य॑ आ॒त्मानं॑ निष्क्री॑णीते (७) इति । उद्दार्यति मन्थेन्मन्थत्यक्रामत्परापतन्मध्यंदिन आगु॒रते पञ्च च । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके चतुर्थाध्याये सप्तमोऽनुवाकः ॥ ७ ॥ यो यजमानः सत्रार्थं संकल्पयति स पुरुषः सर्वदेवताभ्यस्तत्प्रतिपादकस्तोत्रेभ्यश्च स्वात्मानं संकल्पयति । अस्य पुरुषस्य यावद्वित्तमस्ति तावदेवाश्य पुरुषस्य सर्वकर्मनिर्वाहकं सारभूतं स्वरूपम् । दरिद्रस्य भोगदानयोरशक्तत्वात् । तथा च संकल्पितात्मकः पुरुषः स्वरूपसारभूतसर्ववेदसदक्षिणाकं सर्वपृष्ठस्तोत्रयुक्तं स्वसंकल्पित- दोषप्रायश्चित्तभूतं सोमभागं कुर्यात् । ततश्च स्वप्रतिनिधिभूत- तादृशयागकर्मणा सर्वदेवताभ्यस्तत्प्रतिपादकपृष्ठस्तोत्रेभ्यश्च संकल्पितं स्वात्मानं निष्क्रीणीते । यज्ञस्य सर्ववेदसत्वं तु वेदःशब्दस्य धनवाचित्वेन सर्ववेदः सर्वधनं दक्षिणा यस्मिन्यज्ञ इति व्युत्पत्या बोध्यम् । सेयं सत्रेषु संकल्पभ्रष्टस्य प्रायश्चित्तिः । तदिदं सोमप्रतिनिधिरूपं प्रायश्चित्तं सूत्रकारेण स्पष्टमुदाहृतम्- “सोमभावेपूतीकानभिषुणूयात्पूतीकाभाव आदारान्फाल्गुनानि च यानि श्वेततूलानि स्युस्तदभावे याः काश्चौषधीःक्षीरिणीररुणदूर्वाः कुशान्वा हरितानिति वाजसनेयकमिति,

तैत्तिरीयब्राह्मणम् (१.४.७) २०१ यदि सत्रायाऽऽगूर्य न यजेत विश्वजिताऽतिरात्रेण सर्वपृष्ठेन सर्वस्तोमेन सर्ववेदसदक्षिणेन यजेत'' इति । अत्र मीमांसा । षष्ठाध्यायस्य तृतीयपादे चिन्तितम्- सोमाभावे भवेत्पूतीविधिः प्रतिनिधिरावुत । नियमो वचनादाद्यो लाघवात्तन्नियम्यते ॥ (इति) । यदि सोमं न विन्देत पूनीकानभिषुणुयादिति लिङ्प्रत्ययस्य विधिवा- चित्त्वादिदं वाक्यं पूतीकलताखण्डानां विधायकमिति चेत् । मैवम् सदृशतया प्रतिनिधेयत्वेन प्राप्तेषु पूतीकादिद्रव्येषु नियममात्रविधौ लाघवात् । तस्मात्पूतीकद्रव्यं नियम्यते । अत्रैवान्यच्चिन्तितम् - पूतीकस्यापचारे स्यात्तेन सोमेन वा समम् । आद्यः श्रुतांशसादृश्यात्पूतीकाविधितोऽन्तिमः ॥ (इति) । यदा सोमप्रतिनिधेः पूतीकस्यापचारः स्यात्तदा तेन पूतीकेन सदृशं द्रव्यान्तरमुपादेयम् "पूतीकांनभिषिणुयात्" इति श्रुतेः पूतीकांशैः सादृश्यस्य लाभादिति चेत् । मैवम् । नास्ति पूतीकानां विधिः । किं तु नियमार्थं तद्वचनमित्युक्तम् । अतः श्रुतस्य सोमस्य सादृश्यलाभाय सोमसमं द्रव्यान्तरमुपादेयम् । दशमाध्यायस्य तृतीयपादे चिन्तितम्- एकां पञ्चेति कृत्स्नां वा गोसंख्यां वा निवर्तयेत् । स्यादाद्यो दक्षिणायोगान्मैवं व्यवहितत्वतः ॥ (इति) । इदं श्रूयते-"यस्य सोममपहरेयुरेकां गां दक्षिणां दद्यादभिदग्धे पञ्चगाः" इति । तदिदं संख्याविशिष्टं द्रव्यं विधीयमानं गवादिदक्षिणं कृत्स्नां निवर्तयेत् । तस्य दक्षिणाशब्दयोगेन कार्यैकत्वात् । मैवम् । विशिष्टविधौ गौरवात् । गवां प्राप्तत्वाच्च संख्यामात्रं विधेयम् । तस्य च गोपदेन व्यवधानान्न दक्षिणायोगोऽस्ति । गोपदयोगे तु गोगतां स्वविरोधिनीं संख्यामेव निवर्तयेन्न त्वन्यत्किञ्चिदिति राद्धान्तः । षष्ठाध्यायस्य चतुर्थपादे चिन्तितम्- सत्रायाऽऽगुरते योऽयं यजेद्विश्वजितेत्यसौ । यः कोऽप्युत प्रवृत्तः स्यादप्रवृत्तोऽथवाऽग्रिमः ॥ अविशेषात्प्रवृत्तोऽस्तु सत्राङ्गं हि तथा भवेत् । निमित्तोक्तेरप्रवृत्तः प्रायश्चित्तं चरेदिदम् ॥ (इति) ।

Digitized by Madhuban Trust, Delhi २०२ (१.४.७) तैत्तिरीयब्राह्मणम् इदमाम्नायते-“यः सत्रायाऽऽगुरते स विश्वजिता यजेत” इति । आगुरते संकल्पयति । तत्र सत्रं संकल्प्य कश्चिदनुष्ठातुं प्रवृत्तः । अपरो न प्रवृत्तः । तयोरुभयोर्मध्ये यः कोऽपि विश्वजिता यजेत । कुतः । प्रवृत्त एव यजेतेति विशेषस्याश्रवणात् । एवमप्रवृत्त एव यजेतेत्यापि विशेषो न श्रूयते तस्मादुभयोरन्यतर इत्याद्यः पक्षः । प्रवृत्तस्य विश्वजिदनुष्ठाने सत्राङ्गत्वं विश्वजितो लभ्यते । तस्मात्प्रवृत्त एव विश्वजितं कुर्यादिति द्वितीयः पक्षः । ‘यः सत्रायाऽऽगुरते’ इति निमित्तत्वेनोपन्यासात्संकल्प्य यदि सत्रं नानुतिष्ठेत्तदा प्रायश्चित्तार्थं विश्वजिद्यागं कुर्यादिति राद्धान्तः । षष्ठाध्यायस्य सप्तमपादे चिन्तितम्- सर्वस्वदाने पित्रादावपि तद्धन एव वा । स्वत्वादाद्यः पितृत्वादावत्यागाद्धन एव तत् ।। (इति)। इदमामनन्ति-“विश्वजिति सर्वस्वं ददाति” इति । तत्र धन इव पित्रादिष्वप्यात्मीयत्वस्य समानत्वादस्ति पित्रादीनामपि तद्दानमिति प्राप्ते ब्रूमः । आत्मसंबन्धत्यागपूर्वकं परसंबन्धापादनं दानमित्युच्यते । न हि दीयमाने पितरि स्वकीयपितृत्वत्यागः परकीयपितृत्वापादनं वा संभवति । किंच स्वशब्दस्याऽऽत्मा ज्ञातिरात्मीयं धनं चेति चत्वारोऽर्थाः । तेष्वेकस्मिन्प्रयोग एक एवार्थो वाच्यः । प्रकृतौ गवादिधनस्यैव दक्षिणात्वाद्विहापि धनवाचित्वं युक्तम् । तस्माद्धनस्यैव दानम् । तत्रैवान्यच्चिन्तितम्- देया न वा महाभूमिः स्वत्वाद्राजा ददातु ताम् । पालनस्यैव राज्यत्वान्न स्वं भूर्दीयते न सा” (इति) । यदा सार्वभौमो राजा विश्वजिति सर्वं ददाति तदा गोपथराजमार्ग- जलाशयाद्यन्विता महाभूमिस्तेन दातव्या । कुतः । भूमेस्तदीयधनत्वात् । “राजा सर्वस्यैष्टे ब्राह्मणवर्जम्” इति स्मृतेरिति प्राप्ते ब्रूमः । दुष्टशिक्षाशिष्टपरिपालनाभ्यां राज्ञ ईशितृत्वं स्मृत्यभिप्रेतमिति न राज्ञो भूमिर्धनम् । किं तु तस्यां भूमौ स्वकर्मफलं भुञ्जानानां सर्वेषां प्राणिनां साधारणं धनम् । अतोऽसाधारणस्य भूखण्डस्य सत्यपि दाने महाभूमेर्दानं नास्ति । तत्रैवान्यच्चिन्तितम्- दानं केसरिणां नो वा विहितप्रतिषेधतः । विकल्पः पर्युदासोऽयं ये यजामहनीतितः ।। (इति) । CC-0. Shri Vipin Kumar Col. Deoband. In Public Domain.

तैत्तिरीयब्राह्मणम् (१.४.७) २०३ “न केसरिणो ददाति” इति विश्वजिति श्रूयते । तत्र सर्वस्वदानविधानात्केसरिदाननिषेधाच्चाश्वदानं विकल्पितमिति प्राप्ते ब्रूमः । नायं प्रतिषेधः। किं तु पर्युदासः । तत्प्रकारश्च दशमाध्यायस्याष्टमपादे ये यजामहमन्त्रोदाहरणेन व्युत्पादयिष्यते । ततस्तेन न्यायेनाश्वपर्युदासे सत्यश्वव्यतिरिक्तं सर्वस्वं देयमिति । विधिनिषेधयोरेकवाक्यतालाभान्नास्त्यश्वस्य पाक्षिकमपि दानम् । तत्रैवान्यच्चिन्तितम्- अर्जयित्वाऽपि किं सर्वं देयं द्रव्यं यदस्ति तत् । सर्वोद्देशविधेराद्यो न प्राप्ते सर्वता विधेः ।। (इति) । पूर्वोक्ते सर्वस्वदाने सर्वमुद्दिश्य दानं विधीयते । पुरुषेण भोग्यं शय्याऽऽसनादिकं यत्सर्वं तद्दातव्यमिति । तस्मादविद्यमानं सर्वमर्जयित्वाऽपि देयमिति चेत् । मैवम् । चोदकप्राप्तं दानमुद्दिश्य सर्वत्वाविधानात् । सर्वशब्दश्च प्रसिद्धवाचित्वाद्विद्यमानविषयः । तस्माद्यदस्ति तदेव देयम् । तत्रैवान्यच्चिन्तितम् - धर्मार्थं सेवकः शूद्रो देयो नो वा स दासवत् । देयोऽस्वत्वात्पराधीनगर्भदासो च दीयते ।। इति । यस्तु शूद्रो विहितं स्वधर्ममवगन्तुं सेवते सोऽपि स्वमध्यपातित्वाद्गर्भदासवद्देय इति चेत् । मैवम् ।। जीविताद्यदानेन तस्मिन्सेवके स्वत्वाभावात्स्वेच्छाचारित्वेन परस्वत्वादानासंभवाच्च न देयः । तत्रैवान्यच्चिन्तितम्- भूतं भावि च देयं स्यात्कालऽवस्थितमेव वा । आद्यः सर्वश्रुतेरन्त्योऽसंभवादन्ययोस्तथा ।। (इति) । विश्वजिन्मया कर्तव्य इत्यध्यवसायादूर्ध्वं दक्षिणाकालात्पूर्वं यत्स्वेन भोग्यं संचितं तद्भूतम् । यच्च दक्षिणाकालादूर्ध्वं भविष्यत्येवेति निश्चितं तद्भावि । तदुभयमपि सर्वशब्दार्थत्वाद्दातव्यमिति चेत् । मैवम् । भूतस्य विनाशसंभवात् भाविनस्तदानीमप्राप्तत्वादविद्यमानस्य दानायोगाच्च दक्षिणाकालेऽवस्थितमेव सर्वं देयम् । तत्रेवान्यञ्चिन्तितम्- दक्षिणाक्रतुभुक्त्यर्थं त्रयं देयमुतेष्टये । शिष्टाऽथवा दक्षिणार्थमेवाऽऽऽद्ध्यः सर्वशब्दतः ।।

२०४ (१.४.८) तैत्तिरीयब्राह्मणम् क्रतुशेषस्तदा बाध्यः प्रधानत्वादबाधनात् । मध्योऽन्त्यो दक्षिणार्थस्यानुवादात्सर्वतोबिधेः ॥ ( इति ) । प्रकृतौ कर्मारम्भ एव यजमानेनाऽऽत्मीयं धनं वचनबलात्त्रिधा व्यवस्थापितम् । इदं मे भुक्त्यर्थमिदं मे यज्ञार्थमिदं मे दक्षिणार्थमिति । तदेतत्रयमपि दक्षिणार्हत्वाद्दातव्यमित्येकः पक्षः । दक्षिणा हि माध्यंदिने सवने दीयंते । तत ऊर्ध्वं तृतीयसवनमारभ्योदवसानीयान्तः क्रतुभागोऽवशिष्टः । स च द्रव्यालाभाद्बाध्येत । न चाङ्गभूतया दक्षिणया प्रधानस्य क्रतोर्बाधोयुक्तः । ततस्तदबाधनाय क्रत्वर्थं भागमवस्थाप्यावशिष्टं सर्वं देयमिति द्वितीयः पक्षः। यद्दक्षिणात्वेन विधीयते तत्सर्वमित्यनूद्य विधानाद्दक्षिणार्थभाग एव दातव्य इति राद्धान्तः । अष्टमाध्याये प्रथमपादे चिन्तितम्- इष्टेः सोमस्य वा धर्मा विश्वजित्प्रमुखेष्विहः । आविशषादैच्छिकः । स्युः सोमस्याव्यक्तिसाम्यतः ॥ (इति) । “विश्वजिता यजेत” “अभिजित्ता यजेत” “द्वादशाहेन यजेत” इत्यादिषु नियामकाभावादिष्टिसोमयोरन्यतरस्य धर्मा इच्छया ग्रहीतव्याः । मैवम् । अव्यक्तलिङ्गे सोमसाम्यादुत्पत्तिवाक्ये देवतानभिधानमव्यक्तितस्तस्मात्सोमस्य धर्मानतिदिशेत् । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे चतुर्थप्रपाठके सप्तमोऽनुवाकः ॥ ७ ॥ अथ चतुर्थप्रपाठकेऽष्टमोऽनुवाकः । सप्तमे विरोहणादिप्रायश्चित्तमुक्तम् । अथाष्टमे शुद्धिहेतवो मन्त्रा उच्यन्ते । ते चानारभ्याधीतं प्रकृतिगामीति न्यायेन प्रकृतौ विनियोक्तव्याः । तत्रापि शुद्धिलिङ्गेन शोधनक्रियासंबन्धिन एते भवन्ति । सा च क्रिया सोमप्रकरणे दीक्षितसंस्कारेष्वाम्नाता-‘दर्भपिञ्जूलैः पवयति’ इति । तत्राऽऽध्वर्यवा मन्त्राश्चित्पतिस्त्वा पुनातु, इत्यादिकास्तत्प्रकरण एव समाम्नाताः । अतः परिशेषात्पुनीमह इत्युत्तमपुरुषलिङ्गाच्च पाव्यमानस्य यजमानस्य जप इति गम्यते । अत एव सूत्रकारेणोक्तम् -“पाव्यमानो जपति तस्य ते पवित्रपते” इति च “पवमानः सुवर्जनः” इत्यस्मिन्ननुवाके प्रथमामृचमाह -

तैत्तिरीयब्राह्मणम् (१.४.८) २०५ पव॑मानः सु॒व॒र्जन॑ः । प॒वित्रे॑ण वि॒चर्ष॑णिः । यः पोता॒ स पु॑नातु मा, इति । यो देवः पोता सर्वेषां शोधयिता स देवः पवित्रेण शुद्धिसाधनेनास्मदीययज्ञजपध्यानादिना मां पुनातु शोधयतु । कीदृशः । पोता पवमानः शोधनकुशलः सुवर्जनः स्वर्ग एवोत्पन्नो विचर्षणिर्विविधशोधनप्रकाराभिज्ञः । अथ द्वितीयामाह- पुन॑न्तु मा देव॒जनाः॑ । पुन॑न्तु॒ मन॑वोधि॒या । पुन॑न्तु॒ विश्व॑ आय॒वः॑, इति । ये कल्पादौ स्वर्गलोकेषु समुत्पन्नत्वेन देवरूपा जना ये च स्वायंभुवमनुप्रभृतय ऋषयो येऽपि स्वकर्मवशान्मनुष्यलोक- मायान्तीत्यादयो मनुष्याः सदाचारसंपन्नाः शुश्रूवांसंते विश्वे सर्वेऽपि धियाऽ नुग्रबुद्ध्या मां पुनन्तु । अथ तृतीयामाह- जात॑वेदः प॒वित्रे॑वत्। प॒वित्रे॑ण पुनाहि मा । शुक्रेण॑ दे॒व दीद्य॑त् । अग्ने॒क्रत्वा॒ क्रतूँ॒ २ रनु॑ (१), इति । हे जातवेद,उत्पन्नसर्वजगदभिज्ञाग्रे देव शुक्रेण दीद्यद्भास्वद्दीप्त्या भासमानस्त्वं क्रतं ँरन्वस्मदनुष्ठेया कर्मविशेषाननुसृत्य पवित्रेण क्रत्वा शोधकेन त्वत्संकल्पेन पवित्रवदस्मदनुष्ठितं कर्म शुद्धियुक्तं यथा भवति तथा मां पुनीहि शोधय । अथ चतुर्थीमाह - यत्ते॑ प॒वित्र॑म॒र्चिषि॑ । अग्ने॒ वित॑तमन्त॒रा । ब्रह्म॒ तेन॑ पुनीमहे, इति । हेऽग्ने ते तवार्चिषिं ज्वालायामन्तरा मध्ये विततं विस्तृतं यत्पवित्रं शुद्धिसाधनं ब्रह्म प्रवृद्धमस्ति तेन वयं पुनीमहे । अथ पञ्चमीमाह-

२०६ (१.४.८) तैत्तिरीयब्राह्मणम् उ॒भाभ्यां॑ देव सवितः। प॒वित्रे॑ण स॒वेन॑ च । इ॒दं ब्रह्म॑ पुनीमहे, इति । हे सवितर्देवं त्वदीयं यत्पवित्रं शुद्धिसाधनं यश्च सवः । कर्मस्वस्मद्विषयं प्रेरणं ताभ्यामुभाभ्यामिदं ब्रह्म परिवृढं कर्म पुनीमहे शोधयामः । अथ षष्ठीमाह- वै॒श्व॒दे॒वी पु॑न॒ती दे॒व्यागा॑त् । यस्यै॑ ब॒ह्वीस्त॒नुवो॑ वी॒तपृ॑ष्ठाः । तया॒ मद॑न्तः स॒ध माद्ये॑षु । व॒य ँ॑ स्याम॒ पत॑यो रयी॒णाम् (२), इति । सर्वदेवसम्बन्धिनी या देवी शोधनकुशला साऽस्मान्पुनती शोधयन्ती, आगादागच्छतु । यस्यै यस्या देव्यास्तनुव शुद्धिहेतवो देहविशेषावीतपृष्ठाः क्रान्तस्तुतयस्तया देव्याऽनुहीताः सध माद्येषु ऋत्विग्भिः सह हर्षयोग्येषु कर्मसु मदन्तो हृष्यन्तो वयं रयीणां धनानां पतयः स्याम । अथ सप्तमीमाह- वै॒श्वा॒न॒रो र॒श्मिभि॑र्मा पुनातु । वातः॑ प्रा॒णेने॑षिरो म॑यो॒भूः। द्यावा॑पृथि॒वी पर्य॑सा॒ पयो॑भिः । ऋ॒तावरी॑ य॒ज्ञिये॑ मा पुनीताम्, इति । विश्वेषां नराणां हितोऽग्निरादित्यो वा देवः स्वकीयरश्मिभिर्मां पुनातु । वातो वायुदेवः प्राणेनेषिरः प्राणरूपेण देहेषु गच्छन्मयोभूः सुखस्य भावयिता भवतु । द्यावापृथिव्यौ च ऋतावरी सत्यवत्यौ यज्ञिये हिते सत्यौ पयसा जलेन पयोभिः क्षीरादिरसैश्च मां पुनीताम् । अथाष्टमीमाह- बृ॒हद्भिः॑ सवित॒स्तृभिः॑ । वर्षि॑ष्ठैर्देव॒मन्म॑भिः । अग्ने॒ दक्षैः॑ पुनाहि मा, इति । हे सवितः कर्मसु प्रेरकाग्ने देव मन्मभिर्मननैरस्मदनुग्रहविषयैर्मां पुनीहि । कीदृशैर्बृहद्बिरादरयुक्तैस्तृभिः पापतरणसाधनैर्वर्षिष्ठै- श्चिरकालानुवृत्त्या वृद्धतमैर्दक्षैः शोधनकुशलैः।

तैत्तिरीयब्राह्मणम् (१.४.८) २०७ अथ नवमीमाह- येन॑ दे॒वा अपु॑नत । येना॒ऽऽपो दि॒व्यंकश॑: । तेन॑ दि॒व्येन॒ ब्रह्म॑णा । (३) । इ॒दंब्रह्म॑ पुनीमहे, इति । येन शुद्धिसाधनेन देवाः पूर्वान्यजमानानपुनत । कश गताविति धातोरुत्पन्नःसकारान्तः । कशः शब्दो गतिवाची । येन शुद्धिसाधनेनाऽऽपो देवता दिव्यंकशोऽपुनत दिव्यलोकविषयां गतिं शोधितवन्तः (त्यः) । दिव्येन द्युलोकयोग्येन ब्रह्मणा परिवृढेन तेन सुद्धिसाधनेनेदं ब्रह्मानुष्ठीयमानं परिवृढं कर्म पुनीमहे । अथ दशमीमाह- यः पा॑वमा॒नीर॒ध्येति॑ । ऋषि॑भि॒: संभृ॑तं॒ रस॑म् । सर्वं॒ ँस पू॒तम॑श्नाति ॥ स्व॒दि॒तं मा॒त॒रिश्व॑ना, इति । यः पुमान्पावमानीः शोधकदेवतासंबन्धनीरेता ऋचोऽध्येति पठत्यर्थतः स्मरति वा स पुरुषः सर्वं रसं सारभूतं फलमश्नाति भुङ्क्ते । कीदृशं रसम् । ऋषिभिः संभृतं मन्त्रैस्तदभिज्ञैर्मुनिभिश्च संपादितम् । अत एव पूतं शुद्धं मातरिश्वना वायुनास्वदितं स्वादूकृतम् । अथैकादशीमाह- पा॒व॒मा॒नीर्यो अध्येति॑ । ऋषि॑भि॒: संभृ॑तं॒ ँ रस॑म् । तस्मै॒ सर॑स्वती दुहे । क्षी॒र ँ स॒र्पिर्मधूद॑कम्, इति । यः पावमानीरध्येति तस्मै पुरुषाय सरस्वती रसं दुहे । कीदृशं । क्षीरादिरूपम् । पा॒व॒मा॒नीः स्व॒स्त्यय॑नीः(४) । सु॒दुघा॒ हि पय॑स्वतीः । ऋषि॑भि॒: संभृ॑तो॒ रस॑:। ब्रा॒ह्म॒णेष्व॒मृतं॒ ँ हि॒तम्, इति । याः पावमान्य ऋचस्ताः स्वस्त्ययनीः क्षेमप्रापिकाः सुदुघाः सुष्ठु फलं दुहानां पयस्वतीः क्षीरादिरसहेतवश्च प्रसिद्धास्ता अस्माननुगृह्णन्त्विति शेषः । ऋषिभिर्मन्त्रदर्शिभिर्मुनिभी रसः फलसारः संभृतोऽस्मासु संपादितोऽस्तु । ब्रह्म मन्त्रस्तत्पाठकाब्राह्मणा- स्तेष्वस्मास्वमृतमविनाशि फलं हितं संपादितमस्तु । अथ त्रयोदशीमाह-

२०८ (१.४.८) तैत्तिरीयब्राह्मणम् पा॒व॒मा॒नीर्दिश॑न्तु नः। इ॒मं लो॒कमथो॑अ॒मुम्। का॒मान्त्स॒मर्ध॑यन्तु नः। दे॒वीर्दे॒वैः स॒माभृ॑ताः, इति। देवैरिन्द्रादिभिः समाभृताः संपादिताः पावमानीर्देवीः पवमानमन्त्राभिमानिन्यो देव्यो नोऽस्माकं लोकद्वयं दिशन्तु प्रयच्छन्तु। तत्रत्यान्कामान्नोऽस्मदर्थं समृद्धान्कुर्वन्तु। अथ चतुर्दशीमाह- पा॒व॒मा॒नीः स्व॒स्त्यय॑नीः। सु॒दुघा॒ हि घृ॒तश्चुतः॑। ऋर्षि॑भिः संभृ॑तो॒ रसः॑ (५)। ब्राह्म॒णेष्व॒मृतं॒ ॅहि॑तम्। इति। घृतं श्रोतन्ति क्षारयन्तीति घृतश्चुतः। अन्यत्पूर्ववत्॥ अथ पञ्चदशीमाह- येन॑ दे॒वाः प॒वित्रे॑ण। आ॒त्मानं॑ पुन॒ते सदा॑। तेन॑ स॒हस्र॑धारेण। पा॒व॒मा॒न्यः पु॑नन्तु मा, इति। देवा इन्द्राद्या येन पवित्रेण शुद्धिसाधनेन सदा स्वदेहं शोधयन्ति सहस्रावान्तरभेदयुक्तेन तेन साधनेन पावमान्य ऋचो यां पुवन्तु। अथ षोडशीमाह- प्रा॒जा॒प॒त्यं प॒वित्र॑म्। श॒तोद्या॑म ॅहिर॒ण्मय॑म्। तेन॑ ब्रह्म॒विदो॑ व॒यम्। पू॒तं ब्रह्म॑ पुनीमहे, इति। यत्पवित्रं शुद्धिसाधनं प्राजापत्यं प्रजापतिसंबन्धि शतोद्यामं दर्भैर्निर्मितत्वाच्छतसंख्याकैरूद्यमैर्नाडीभिर्युक्तं हिरण्मयं पापहरणसाधनेन निर्मितं तेन तादृशेन पवित्रेण ब्रह्मविदो वेदार्थविदो वयं पूतं ब्रह्म पूर्वमपि शुद्धं परिवृढं कर्म पुनीमहे भूयोऽपि शोधयामः। अथ सप्तदशीमाह- इन्द्रः॑ सुनी॒ती स॒ह मां पुनातु। सोमः॑ स्व॒स्त्या वरु॑णः स॒मीच्या॑। य॒मो राजा॑ प्रमृ॒णाभिः॑ पुनातु मा। जा॒तवे॑दा मोर्ज॑यन्त्या पुनातु (६), इति।

तैत्तिरीयब्राह्मणम् (१.४.९) २०९ अनु॑ रयी॒णां ब्रह्म॑णा स्व॒स्त्यय॑नीः सु॒दुघा॒ हि घृ॒तश्चु॑त॒ ऋषि॑भिः॒ संभृ॑तो॒ रसः॑ पुनातु॒ त्रीणि॑ च । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके चतुर्थाध्यायेऽष्टमोऽनुवाकः ॥ ८ ॥ इन्द्रः सुनीत्या शोभनफलप्रापिकया देव्या सह मां पुनातु । सोमः स्वस्त्या क्षेमप्रापिकया देव्या सह मां पुनातु । वरुणः समीच्याऽनुकूलया देव्या सह मां पुनातु । यमो राजा प्रमृणाभिः प्रकर्षेण मारिकाभिर्देवीभिः सह मां पुनातु । जातवेदा ऊर्जयन्त्या क्षीरादिरसप्रापिकया देव्या सह मां पुनातु । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीये तैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे चतुर्थप्रपाठकेऽष्टमोऽनुवाकः॥ ८ ॥ अथ चतुर्थप्रपाठके नवमोऽनुवाकः । अष्टमे शुद्धयर्था मन्त्रा उक्ताः । तावता सोमशेषमशेषमवस्थाप्य नवमे राजसूयगतचातुर्मास्यशेष उच्यते । तानि चातुर्मास्यानि विधातुमादावाख्यायिकामाह- प्र॒जा वै स॒त्रमा॑सत॒ तप॑स्तप्य॑माना॒ अजु॑ह्वतीः । दे॒वा अप॑श्य॒ं च॒म॒सं घृ॒तस्य॑ पूर्णं॑ ̐ स्व॒धाम् । तमुपोद॑तिष्ठ॒न्तम॑जुहवुः । तेना॑र्धमा॒स ऊर्ज॒म वा॑रुन्धत । तस्मा॑दर्धमा॒से दे॒वा ई॑ज्यन्ते, इति । पुरा काचिद्देवपितृमनुष्यपश्वसुराख्याः प्रजाः सत्रमन्वतिष्ठन् । सत्रसदृशं सुकृतं संपादितवन्त (त्य) इत्यर्थः ।। किं कुर्वत्यः । उपवासादिरूपं तपोऽनुतिष्ठन्त्योऽजुह्वतिर्न कंचिदपि होमं कुर्वत्यस्तासां प्रजानां मध्ये देवाः कंचित्कालं तपस्तप्त्वा घृतपूरितं स्वोचितान्नधारकं कंचिच्चमसं दृष्ट्वा तं प्राप्य समीप उत्थाय हुत्वा तद् - धोमनेकै कस्मिन्नर्धमासे स्वभोज्यं रसविशेषं प्राप्तवन्तः । तस्मात्कारणादर्धमासे पौर्णमास्याममावास्यायां च देवा दर्शपूर्णमासाभ्यामिज्यन्ते । अथ तदेव पित्रादीनां तपःफलं दर्शयति - . पि॒तरो॑ऽपश्यं च॒म॒सं घृ॒तस्य॑ पूर्णं॑ ̐ स्व॒धाम् ।

२१० (१.४.९) तैत्तिरीयब्राह्मणम् तमु॒पोद॑तिष्ठन्त॒र्मजु॑हवुः । तेन॑ मा॒स्यूर्ज॒मवा॑रुन्धत । तस्मा॑न्मा॒सि पि॒तृभ्य॑: क्रियते । म॒नु॒ष्या॑ अपश्यं च॒मसं घृ॒तस्य॑ पू॒र्ण ँस्व॒धाम् (१) । तमु॒पोंद॑तिष्ठन्त॒र्मजु॑हवुः । तेन॑ द्वयीमूर्ज॒मवा॑रुन्धत । तस्मा॒द् द्विरह्नो॑ मनु॒ष्ये॑भ्य॒ उप॑ह्रियते । प्रा॒तश्च॑ सा॒यं च॑ । प॒शवौ॑ऽपश्यं च॒मस घृतस्य॑ पू॒र्ण ँ स्व॒धाम् । तमु॒पोद॑तिष्ठन्त॒मजु॑हुवुः । तेन॑ त्र॒यीमूर्ज॒मवा॑रुन्धत । तस्मा॒त्त्रिरह्न॑: प॒शव॑: प्रेर॑ते । प्रा॒तः संङ्गवे सा॒यम् । असु॑रा अपश्यं च॒मसं घृ॒तस्य॑ पू॒र्ण ँ स्व॒धाम् । (२) । तमुपोद॑तिष्ठन्तर्मजुहवुः । तेनं संवत्स॒र ऊर्ज॒मवा॑रुन्धत, इति । पितृभिरेकस्मिन्मासे स्वभोज्यान्नस्य प्राप्तत्वात्प्रतिमासममावास्यायां पिण्डपितृयज्ञः क्रियते । मनुष्यैकस्मिन्नेवाह्नि कालद्वयवर्तिनो भोज्यस्य प्राप्तत्वात्प्रातःकाले सायंकाले भुज्यते । पश्वभिमानिभिर्देवैरे- कस्मिन्नेवाह्नि कालत्रय भोज्यस्यान्नस्य प्राप्तत्वात्त्रिषु कालेषु पशवस्तुणभक्षणार्थं संचरन्ति । तत्तन्मध्यकाले तु रोमन्थं कुर्वन्तो वर्तन्ते । असुरास्त्वेकस्मिन्संवत्सरे स्वभोज्यमन्नं प्राप्तवन्तः । अथ देवैरनुष्ठितं व्यापारं दर्शयति - ते दे॒वा अ॑मन्यन्त । अ॒मी वा इ॒दम॑भूवन् । यद्व॒य ँस्म॒ इति॑ । त ए॒तानि॑ चातुर्मा॒स्या॒न्य॑पश्यन् । ता॒नि निर॑वपन् । तैरे॑वैषां॒ तामूर्ज॒मवृ॑ञ्जत । ततो॑ दे॒वा अभ॑वन् । पराऽसु॑राः (३), इति । ते देवा मिलित्वैवं विचारितवन्तो यदैश्वर्यं वयमिदानीं प्राप्य वर्तामहे तदिदं सर्वममी असुरा एव प्राप्तवन्तः । तस्मात्संवत्सरेसकृद्भुक्त्वा तृप्ताः सन्तः पुनः संवत्सरसमाप्तिपर्यन्तं स्वभोजनव्यापाराभावान्निरन्तरं युध्यन्तोऽस्मान्क्लेशयिष्यन्ति । एवं विचार्य ते देवा असुरविनाशहेतुत्वेनैतानि वक्ष्यमाणानि वैश्वदेवादीनि

तैत्तिरीयब्राह्मणम् (१.४.९) २११ चातुर्मासस्यानि दृष्टवन्तः। यस्मात्संवत्सरे तैर्निरुक्तैरसुराणां संवत्सरपर्याप्तं भोज्यं विनाशितवन्तस्ततो देवा विजयं प्राप्ता असुराश्च पराभूताः। इत्थमाख्यायिकया चातुर्मास्यानामत्यन्तप्रशस्तत्वं दर्शयितुं दर्शपूर्णमासादिप्रशंसापूर्वकं तत्तत्प्रशंसामुपपन्यस्य दर्शादिविध्य- नुवादपुरःसरं तद्विधत्ते- यद्यज॑ते यामे॒व दे॒वा ऊर्ज॑म॒वारु॑न्धत । तां तेना॑वरुन्धते यत्पि॒तृभ्य॑: करो॒ति॑ । यामे॒व पि॒तर॑ ऊर्ज॑म॒वारु॑न्धत । तां तेना॑वरुन्धे । यदा॑व॒सथेऽन्न॑ ँहर॑न्ति । यामे॒व म॑नु॒ष्या॑ ऊर्ज॑म॒वारु॑न्धत । तां तेना॑वरुन्धे । यद्दक्षि॑णां ददा॑ति (४) । यामे॒व प॒शव॑ ऊर्जमवा॑रुन्धत । तां तेना॑वरुन्धे । यच्चातुर्मा॒स्यैर्यज॑ते ।। यामेवासु॑रा॒ ऊर्ज॑म॒वारु॑न्धत । तां तेना॑वरुन्धे । भव॑त्या॒त्मना॑ । परा॑ऽस्य॒ भ्रातृ॑व्यो भवति॒, इति । यजते दर्शपूर्णमासावनुतिष्ठति । पितृभ्यः करोति । पिण्डपितृयज्ञमनुतिष्ठति । आवसथेऽन्नं हरन्ति । वैश्वदेवान्तेऽतिथीनन्नेन पूजयन्ति । अन्वाहार्यगवादिरूपां दक्षिणां ददाति । तथा च यथा तेन तेन तत्तत्फलप्राप्तये दर्शपूर्णमासादयः कर्त्तव्या एवमत्रापि फलप्राप्तये चातुर्मास्यानि यजते । तत आत्मना भवति । स्वयमेव जययुक्तो भवति । भ्रातृव्यस्तु पराभवति । अत्र चातुर्मास्यविधौ तात्पर्यं दर्शयितुं पुनः प्रशंसति- वि॒रा॒जो वा ए॒षा वि॒क्रां॑न्तिः । यच्चातु॑र्मा॒स्यानि॑ । वै॒श्व॒दे॒वेना॒स्मिँल्लो॒के प्र॒त्य॑तिष्ठत् । व॒रु॒ण॒प्र॒घा॒सैर॒न्तरि॑क्षे सा॒क॒मे॒धैरु॒मुष्मिँ॑ल्लो॒के । ए॒ष हु॒त्वा वै तत्सर्वं॑ भवति । य ए॒वं वि॒द्वाँश्चातु॑र्मा॒स्यैर्यज॑ते (५) इति । म॒नु॒ष्या॑ अपश्यं॒ चम॒सं घृ॒तस्य॑ पू॒र्ण ँस्व॒धामसु॑रा अपश्यं॒ चम॒सं घृ॒तस्य पू॒र्ण ँस्व॒धामसु॑रा॒ ददा॑त्यतिष्ठञ्च॒त्वारि॑ च । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके चतुर्थाध्याये नवमोऽनुवाकः ॥ ९ ॥

२१२ (१.४.१०) तैत्तिरीयब्राह्मणम् विशेषेण राजत इति विराट् प्रजापतिस्तस्य विशेषेण लोकत्रयाक्रमणसाधनानि चातुर्मास्यानि वैश्वदेवादीनि चतुर्षु मासेष्वनुष्ठेयत्वाच्चातुर्मास्यानि । फाल्गुन्यां पौर्णमास्यां वैश्वदेवाख्यं पर्वानुष्ठाय मासचतुष्टयमतीत्याऽऽषाढ्यां पौर्णमास्यां वरुणप्रघासाख्यं पर्वानुष्ठाय पुनर्मासचतुष्टयमतीत्य कार्तिकायां पौर्णमास्यां तदीयचतुर्दश्यां च साकमेधाख्यं पर्वानुष्ठेयम् । एतैर्यथा प्रजापतेर्लोकत्रये प्रतिष्ठैवमन्योऽप्येतत्सत्सर्वं प्राप्नोति । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे चतुर्थप्रपाठके नवमोऽनुवाकः ॥ ९ ॥ अथ चतुर्थप्रपाठके दशमोऽनुवाकः । नवमे चातुर्मास्यानि विहितानि । अथ दशमे तत्र विशेषं विधातुं प्रस्तौति- अ॒ग्निर्वाव सं॑वत्स॒रः । आ॒दि॒त्यः प॑रिवत्स॒रः । च॒न्द्रमा॑ इ॒दाव॑त्स॒रः । वा॒युर॑नुवत्स॒रः, इति । प्रभवविभवादीनां षष्टिसंवत्सराणां मध्य एकैकसंवत्सरपञ्चकमेकैकं युगम् । तस्मिन्युगे वर्तमानानां पञ्चानां संवत्सराणां क्रमेण संवत्सरः परिवत्सर इदावत्सरोऽनुवत्सर इद्वत्सर इत्येतानि नामधेयानि । तथा चोक्तम् - चान्द्राणां प्रभवादीनां पञ्चके पञ्चके युगे । संपरीदान्विदित्येतच्छब्दपूर्वास्तु वत्सराः ॥ इति ॥ तत्र संवत्सरादीनां चतुर्णामभिमानित्वादग्न्यादयस्तद्रूपाः । एवं प्रस्तुत्य वैश्वदेवाख्ये कर्मणि संवत्सरस्वरूपाग्नि- प्राप्तिप्रतिपादनपुरःसरं कंचिन्मन्त्रविशेषं विधत्ते- यद्वै॑श्वदे॒वेन॒ यज॑ते । अ॒ग्निमे॒व तत्सं॑वत्स॒रमा॒प्नोति॑ । तस्मा॑द्वैश्वदे॒वेन॒ यज॑मानः । सं॒व॒त्स॒रीणां॒ स्व॒स्ति माशा॑स्त॒ इत्याशा॑सीत॒, इति । वैश्वदेवाख्यस्य प्रथमपर्वणः संवत्सररूपाग्निप्राप्तिहेतु- त्वात्तद्यागकाले तदीयसूक्तवाकमध्ये संवत्सरीणामिति वाक्यं पठेत् ।

तैत्तिरीयब्राह्मणम् (१.४.१०) २१३ सूक्तवाके हि भूयो हविष्करणमाशास्ते, दिव्यं धामाऽऽशास्त इति वाक्यद्वयं पठितम् । तयोर्वाक्ययोर्मध्ये संवत्सरीणामिति वाक्यं पठेत् । अत एव सूत्रकार उदाहृत्य पठति-“ संवत्सरीणा ँस्वस्तिमाशास्ते दिव्यं धामाऽऽशास्त इति सूक्तवाकस्याऽऽशीःषु होताऽनुवर्तयते ” इति । अथ द्वितीयतृतीयपर्वणोः परिवत्सरेदावत्सररूपादित्यचन्द्रमसोः प्राप्तिप्रतिपादनपुरःसरं क्रमेण मन्त्रविशेषं विधत्ते- यद्व॑रुणप्रघा॒सैर्यज॑ते । आ॒दि॒त्यमे॒व तत्परि॑वत्स॒रमा॑प्नोति (१) । तस्मा॑द्वरुणप्रघा॒सैर्यज॑मानः । प॒रि॒व॒त्स॒रीणा ँ॑ स्व॒स्तिमाशा॑स्त॒ इत्याशा॑सीत । यत्सा॑कमे॒धैर्यज॑ते । च॒न्द्रम॑समे॒व तदि॑दावत्स॒रमा॑प्नोति तस्मा॑त्साकमे॒धैर्यज॑मानः इ॒दा॒व॒त्स॒रीणा ँ॑ स्व॒स्तिमाशा॑स्त॒ इत्याशा॑सीत, इति । इत्थ चातुर्मास्यावयवरूपाणि वैश्वदेवादीनि त्रीणि पर्वाणि तदीयमन्त्रविशेषांश्च विधाय तदवयवरूपं महापितृयज्ञं विधत्ते- यत्पि॑तृय॒ज्ञेन॒ यज॑ते । दे॒वाने॒व तद॒न्व॑वस्यति, इति । तत्तेन पितृयज्ञेन पितृमद्विशेषणयुक्तसोमादीन्देवानन्ववस्यत्यनुक्रमेण प्रीणयति । अथ चतुर्थपर्वण्यनुवत्सररूपवायुप्राप्तिप्रतिपादनपरः सरं मन्त्रविशेषं विधत्ते- अथ॑ वा अ॑स्य वा॒युश्चा॑नुवत्स॒रश्चाप्री॑ता॒वुच्छि॑ष्येते । यच्छु॑नासीरीये॑ण॒ यज॑ते (२) । वा॒युमे॒व तद॑नुवत्स॒रमा॑प्नोति । तस्मा॑च्छुनासीरीये॑ण॒ यज॑मानः अ॒नु॒व॒त्स॒रीणा ँस्व॒स्तिमाशा॑स्त॒ इत्याशा॑सीत, इति । वैश्वदेवादिभिस्त्रिभिः पर्वभिःसंवत्सरादयस्तथा कालास्तदभि- मानिदेवा अग्न्यादयः प्रीता अनुवत्सरः कालस्तदभिमानी वायुश्चेत्येतावुभौ पूर्वमप्रीताववशिष्टौ । शुनासीरीयाख्येन (ण) चतुर्थेन पर्वणा तदुभयप्रीतिर्भवति । तस्माच्छुनासीरीयेण यजमानोऽवत्सरीणाँ स्वस्तिमाशास्त इत्याशासीतेति पूर्ववद्व्याख्येयम्

२१४ (१.४.१०) तैत्तिरीयब्राह्मणम् पर्वचतुष्टयसंघात्मकं चातुर्मास्ययागं प्रशंसति- सं॒व॒त्स॒रं वा ए॒ष ई॑प्स॒तीत्या॑हुः। यश्चातु॑र्मा॒स्यैर्यज॑त॒ इति॑ । ए॒ष ह॒ त्वै सं॑वत्स॒रमा॑प्नोति । य ए॒वं वि॒द्वा ँ श्चातु॑र्मा॒स्यैर्यज॑ते, इति । यः पुमान्पर्वचतुष्टयोपेतैश्चातुर्मास्यैर्यजते स एष संवत्सराभिमानिनं प्रजापतिं प्राप्तुमिच्छतीत्येवमभिज्ञा आहुः । तस्मात्तद्याजी संवत्सराभिमानित्वं प्राप्नोति । अथ वैश्वदेवाख्यं कर्म प्रशंसति- विश्‍वे॑ दे॒वाः सम॑जयन्त । तैऽग्निमे॒वार्य॑जन्त । त ए॒तं लो॒कम॑जयन् (३)। यस्मि॑न्न॒ग्निः. यद्वै॑श्‍वदे॒वेन॒ यज॑ते । ए॒तमे॒व लो॒कं जय॑ति । यस्मि॑न्न॒ग्निः . अ॒ग्नेरे॒व सायु॑ज्य॒मुपै॑ति, इति । विश्वे देवा इति देवगणविशेषाः । तद्गणस्था देवा यदा सम्यग्यष्टुमुपक्रान्तवन्तस्तदानीमग्निमेवेष्ट्वा यस्मिल्लोकेऽग्निर्वर्तत एतमेव लोकं ते प्राप्नुवन् । अतोऽन्योऽपि विश्वेदेवेनेष्ट्वा यस्मिन्नग्निर्वर्तत तं लोकं प्राप्य तस्याग्नेः सायुज्यं सहावस्थानमेव प्राप्नोति । पुनरपि वैश्वदेवं प्रकारान्तरेण प्रशंसति- य॒दा वै॑श्वदे॒वेन॒ यज॑ते । अथ॑ संवत्स॒रस्य॑ गृ॒हप॑तिमाप्नोति । य॒दा सं॑वत्स॒रस्य॑ गृ॒हप॑तिमा॒प्नोति॑ । अथ॑ स॒हस्र॑या॒जिन॑माप्नोति । य॒दा स॑हस्रया॒जिन॑मा॒प्नोति॑ (४)। अथ॑ गृ॒हमे॒धिन॑माप्नोति । य॒दा गृ॒हमे॒धिन॑मा॒प्नोति॑ । अथ॒ग्निर्भ॑वति । य॒दाऽग्निर्भव॑ति । अथ॒ गौर्भवति । ए॒षां वै वै॑श्वदे॒वस्य॑ मात्रा॑ । ए॒तद्द्वा ए॒तेषा॒मव॑मम् । अतौऽतो॒ वा उ॑त्त॒राणि॒ श्रेयां॑सि भवन्ति ।। यद्विश्वे॑ दे॒वाः स॒म॑र्यजन्त । तद्वै॑श्वदे॒वस्य॑ वैश्वदेव॒त्वम् (५), इति । संवत्सराख्यस्य सत्रस्य गवामयनस्य यजमानेषु मुख्यो गृहपतिः

तैत्तिरीयब्राह्मणम् (१.४.१०) २१५ सहस्रदक्षि णायुक्तेनाऽऽगोर्यामादिना यजमानः सहस्रयाजी स एकः श्रुतिस्मृत्युदितगार्हस्थ्यस्यानुष्ठायी गृहमेधी । एते गृहपत्यादयो मनुष्येषु श्रेष्ठाः । अग्निर्दैवतात्मा गौर्गवाभिमानिदेवविशेषः । यस्मिन्दिने वैश्वदेवेन यजते तस्मिन्नेवदिने गृहपतिः सहस्रयाजी गृहमेधी वह्निगवाख्यदेवानां महिम्ना योग्यो भवति । येयं फलक्लृप्तिरुक्तैष्वैव वैश्वदेवपर्वणो मात्रा । इयदेव फलमित्यर्थः । एतच्च वैश्वदेवफलमेतेषामितरपर्वफलानां मध्येऽवमेमत्यल्पम् । अतोऽत एकैकस्मात्पर्वफलादुत्तरोत्तरपर्वफलान्यत्यन्तं प्रशस्तानि । यस्माद्विश्वे देवा एतत्पर्व सम्यगनुष्ठितवन्तस्तस्मादस्य वैश्वदेवत्वं संपन्नम् । द्वितीयं पर्व प्रशंसति- अथा॑ऽऽदि॒त्यो वरु॑णँ॒ राजा॑नं वरुणप्रघा॒सैरे॑यजत । स ए॒तं लो॒कम॑जयत् । यस्मि॑न्नादि॒त्यः । यद्व॑रुणप्रघा॒सैर्यज॑ते । ए॒तमे॒व लो॒कं ज॑यति । यस्मि॑न्नादि॒त्यः । आ॒दि॒त्यस्यै॑व सायु॑ज्य॒मुपै॑ति । यदादि॒त्यो वरु॑ण॒ ँ राजा॑नां वरुणप्रघा॒सैर्यज॑त । तद्व॑रुणप्रघासानां वरुणप्रघास॒त्वम् इति । प्रकृष्टो घासो भक्ष्यविशेषो मेषसंबन्धी येषु हविर्विशेषेषु ते प्रघासाः । ते च वरुणसंबन्धिनः । वरुणपाशविमोकार्थ- मनुष्ठीयमानत्वात् । तथा च राजसूयप्रकरणे समाम्नायते-“तैर्यैवै स प्रजा वरुणपाशादमुञ्चत” इति । तैरेतैर्वरुणप्रघासैरादित्यो वरुणं राजानमिष्ट्वा यस्मिन्निदानीमादित्यो दृश्यते तमेतं लोकमजयत् । अतोऽन्योऽपि तं लोकं जित्वाऽऽदित्यस्य सायुज्यमप्नोति । वरुणमुद्दिश्येज्यमानत्वादेते वरुणप्रघासनामका हविर्विशेषाः संपन्नाः। तृतीयं पर्व प्रशंसति- अथ॒ सोमो॒ राजा॒ छन्दाँ॑सि साकमे॒धैर॑यजत (६) । स ए॒तं लो॒कम॑जयत् । यस्मिँ॑श्च॒न्द्रमा॑वि॒भाति॑ । यत्सा॑कमे॒धैर्यज॑ते । ए॒तमे॒व लो॒कं ज॑यति । यस्मिँ॑श्च॒न्द्रमा॑ वि॒भाति॑ । च॒न्द्रम॑स ए॒व सायु॑ज्य॒मुपै॑ति । सोमो॒ वै च॒न्द्रमा॑: । ए॒ष ह॒ त्वै सा॒क्षात्सोमं॑ भक्षयति । स ए॒वं

२१६ (१.४.१०) तैत्तिरीयब्राह्मणम् वि॒द्वान्त्सा॑कमे॒धैर्यज॑ते । यत्सोम॑श्च॒ राजा॒ छन्दाँ॑सि च॒ स॒मैध॑न्त (७) । तत्सा॑कमे॒धानाँ॑ ॅसाकमेध॒त्वम्, इति । सोमो राजा साकमेधाख्यैर्हविर्भिश्छन्दोदेवान्पूजयित्वा यस्मिन्नयं चन्द्रमा विशेषेण भासते तमेतं लोकमजयत् । एवमन्योऽपीतं लोकं जित्वा चन्द्रमसःसायुज्यं प्राप्नोति । एष यज्ञेऽप्यभिषूयमाणः सोम एव चन्द्रमाः । चन्द्रमस एतदभिमानित्वादतश्चन्द्रप्रसादेन कालव्यवधानमन्तरेण साकमेधयाजी यागं कृत्वा सोमं भक्षयति । यस्मादस्मिन्यज्ञे पूज्यपूजकभावेनच्छन्दोदेवताः सोमश्च समैधन्त संभूय वृद्धिं प्राप्तास्तस्मात्साकमेधन्ते वर्धन्त एभिर्हविर्विशेषैरिति तेषां साकमेधनाम संपन्नम् । पितृयज्ञं प्रशंसति- अथ॒र्तव॑: पि॒तर॑: प्र॒जाप॑तिं पि॒तरं॑ पितृय॒ज्ञेना॑यजन्त । त ए॒तं लो॒कम॑जयन् । यस्मि॑न्नृ॒तव॑: । यत्पि॑तृय॒ज्ञेन॒ यज॑ते । ए॒तमे॒व लो॒कं ज॑यति । यस्मि॑न्नृ॒तव॑: । ऋ॒तूनामे॒व सायु॑ज्यमुपै॑ति । यदृतव॑: । पि॒तर॑: प्र॒जाप॑तिं पि॒तरं॑ पितृय॒ज्ञेनार्य॑जन्त । तत्पि॑तृय॒ज्ञस्य॑ पितृ यज्ञ॒त्वम् (८) इति । वसन्ताद्यृतुदेवताः प्राणिनां पितरः । प्राण्युत्पत्तेःकालाधीनत्वात् । तेषामृतूनां पिता प्रजापतिः । तथा च ऋतवः प्रजापतिं स्वपितरं पितृयज्ञेन पूजयित्वा यस्मिन्निदानीं वसन्तादयो देवा वर्तन्ते तं लोकमजयन् । एवमन्योऽपितं लोकं जित्वा वसन्तादीनां सायुज्यं प्राप्नोति । ऋत्वात्मकाः पितरो यजन्त्यनेनेत्ययं पितृयज्ञः । अथवा प्रजापत्यात्मकः । पितेज्यतेऽनेनेति पितृयज्ञः। पितृकर्तृकत्वेन पितृकर्मकत्वेन वा पितृसंबन्धी यज्ञ इत्यर्थः । त्र्यम्बकहवींषि प्रशंसति- अथौष॑धय इ॒मं दे॒वं त्र्य॑म्बकै॒रय॑जन्त॒ प्रथै॑महीति॑ । ततो॒ वै ता अप्र॑थन्त । य ए॒वं वि॒द्वाँस्त्र्य॑म्बकै॒र्यज॑ते । प्रथ॑ते प्र॒जया॑ प॒शुभि॑:, इति । ओषधीदेवता वयं प्रथेमहि विस्तृता भवेमेत्यभिप्रेत्य त्र्यम् बकहविर्भिरिमं रुद्रं देवमिष्ट्वा प्रथिता अभवन् । एवमन्योऽपि तमिष्ट्वा