तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 242, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् (१.४.१०) २१३ सूक्तवाके हि भूयो हविष्करणमाशास्ते, दिव्यं धामाऽऽशास्त इति वाक्यद्वयं पठितम् । तयोर्वाक्ययोर्मध्ये संवत्सरीणामिति वाक्यं पठेत् । अत एव सूत्रकार उदाहृत्य पठति-“ संवत्सरीणा ँस्वस्तिमाशास्ते दिव्यं धामाऽऽशास्त इति सूक्तवाकस्याऽऽशीःषु होताऽनुवर्तयते ” इति । अथ द्वितीयतृतीयपर्वणोः परिवत्सरेदावत्सररूपादित्यचन्द्रमसोः प्राप्तिप्रतिपादनपुरःसरं क्रमेण मन्त्रविशेषं विधत्ते- यद्व॑रुणप्रघा॒सैर्यज॑ते । आ॒दि॒त्यमे॒व तत्परि॑वत्स॒रमा॑प्नोति (१) । तस्मा॑द्वरुणप्रघा॒सैर्यज॑मानः । प॒रि॒व॒त्स॒रीणा ँ॑ स्व॒स्तिमाशा॑स्त॒ इत्याशा॑सीत । यत्सा॑कमे॒धैर्यज॑ते । च॒न्द्रम॑समे॒व तदि॑दावत्स॒रमा॑प्नोति तस्मा॑त्साकमे॒धैर्यज॑मानः इ॒दा॒व॒त्स॒रीणा ँ॑ स्व॒स्तिमाशा॑स्त॒ इत्याशा॑सीत, इति । इत्थ चातुर्मास्यावयवरूपाणि वैश्वदेवादीनि त्रीणि पर्वाणि तदीयमन्त्रविशेषांश्च विधाय तदवयवरूपं महापितृयज्ञं विधत्ते- यत्पि॑तृय॒ज्ञेन॒ यज॑ते । दे॒वाने॒व तद॒न्व॑वस्यति, इति । तत्तेन पितृयज्ञेन पितृमद्विशेषणयुक्तसोमादीन्देवानन्ववस्यत्यनुक्रमेण प्रीणयति । अथ चतुर्थपर्वण्यनुवत्सररूपवायुप्राप्तिप्रतिपादनपरः सरं मन्त्रविशेषं विधत्ते- अथ॑ वा अ॑स्य वा॒युश्चा॑नुवत्स॒रश्चाप्री॑ता॒वुच्छि॑ष्येते । यच्छु॑नासीरीये॑ण॒ यज॑ते (२) । वा॒युमे॒व तद॑नुवत्स॒रमा॑प्नोति । तस्मा॑च्छुनासीरीये॑ण॒ यज॑मानः अ॒नु॒व॒त्स॒रीणा ँस्व॒स्तिमाशा॑स्त॒ इत्याशा॑सीत, इति । वैश्वदेवादिभिस्त्रिभिः पर्वभिःसंवत्सरादयस्तथा कालास्तदभि- मानिदेवा अग्न्यादयः प्रीता अनुवत्सरः कालस्तदभिमानी वायुश्चेत्येतावुभौ पूर्वमप्रीताववशिष्टौ । शुनासीरीयाख्येन (ण) चतुर्थेन पर्वणा तदुभयप्रीतिर्भवति । तस्माच्छुनासीरीयेण यजमानोऽवत्सरीणाँ स्वस्तिमाशास्त इत्याशासीतेति पूर्ववद्व्याख्येयम्