तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 241, कुल 345 में से
संदर्भ में पढ़ें२१२ (१.४.१०) तैत्तिरीयब्राह्मणम् विशेषेण राजत इति विराट् प्रजापतिस्तस्य विशेषेण लोकत्रयाक्रमणसाधनानि चातुर्मास्यानि वैश्वदेवादीनि चतुर्षु मासेष्वनुष्ठेयत्वाच्चातुर्मास्यानि । फाल्गुन्यां पौर्णमास्यां वैश्वदेवाख्यं पर्वानुष्ठाय मासचतुष्टयमतीत्याऽऽषाढ्यां पौर्णमास्यां वरुणप्रघासाख्यं पर्वानुष्ठाय पुनर्मासचतुष्टयमतीत्य कार्तिकायां पौर्णमास्यां तदीयचतुर्दश्यां च साकमेधाख्यं पर्वानुष्ठेयम् । एतैर्यथा प्रजापतेर्लोकत्रये प्रतिष्ठैवमन्योऽप्येतत्सत्सर्वं प्राप्नोति । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे चतुर्थप्रपाठके नवमोऽनुवाकः ॥ ९ ॥ अथ चतुर्थप्रपाठके दशमोऽनुवाकः । नवमे चातुर्मास्यानि विहितानि । अथ दशमे तत्र विशेषं विधातुं प्रस्तौति- अ॒ग्निर्वाव सं॑वत्स॒रः । आ॒दि॒त्यः प॑रिवत्स॒रः । च॒न्द्रमा॑ इ॒दाव॑त्स॒रः । वा॒युर॑नुवत्स॒रः, इति । प्रभवविभवादीनां षष्टिसंवत्सराणां मध्य एकैकसंवत्सरपञ्चकमेकैकं युगम् । तस्मिन्युगे वर्तमानानां पञ्चानां संवत्सराणां क्रमेण संवत्सरः परिवत्सर इदावत्सरोऽनुवत्सर इद्वत्सर इत्येतानि नामधेयानि । तथा चोक्तम् - चान्द्राणां प्रभवादीनां पञ्चके पञ्चके युगे । संपरीदान्विदित्येतच्छब्दपूर्वास्तु वत्सराः ॥ इति ॥ तत्र संवत्सरादीनां चतुर्णामभिमानित्वादग्न्यादयस्तद्रूपाः । एवं प्रस्तुत्य वैश्वदेवाख्ये कर्मणि संवत्सरस्वरूपाग्नि- प्राप्तिप्रतिपादनपुरःसरं कंचिन्मन्त्रविशेषं विधत्ते- यद्वै॑श्वदे॒वेन॒ यज॑ते । अ॒ग्निमे॒व तत्सं॑वत्स॒रमा॒प्नोति॑ । तस्मा॑द्वैश्वदे॒वेन॒ यज॑मानः । सं॒व॒त्स॒रीणां॒ स्व॒स्ति माशा॑स्त॒ इत्याशा॑सीत॒, इति । वैश्वदेवाख्यस्य प्रथमपर्वणः संवत्सररूपाग्निप्राप्तिहेतु- त्वात्तद्यागकाले तदीयसूक्तवाकमध्ये संवत्सरीणामिति वाक्यं पठेत् ।