भारतकोश
संग्रह पर लौटें

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

तैत्तिरीयब्राह्मणम् (१.४.१०) २१७ प्रजया पशुभिः प्रथितो भवति । त्र्यम्बकस्य रुद्रस्य संबन्धेन हविषां त्र्यम्बकनामेत्युन्नेयम् । चतुर्थं पर्व प्रशंसति- अथ॑ वा॒युः प॑रमे॒ष्ठिन॑'५ शुनासी॒रीये॑णायजत । स ए॒तं लो॒कम॑जयत् । यस्मि॑न्वा॒युः । यच्छु॑नासी॒रीये॑ण॒ यज॑ते । ए॒तमे॒व लो॒कं ज॑यति । यस्मि॑न्वा॒युः (१) । वा॒योरे॒व सायु॑ज्यमुपैति, इति । वायुश्चतुर्थपर्वणा परमेष्ठिनमाराध्य यस्मिन्निदानीं वायुर्वर्तते तमेतं लोकं जितवान् । एवमन्योऽपि तं लोकं जित्वा वायोः सायुज्यं प्राप्नोति । “इन्द्राय शुनासीराय पुरोडाशं द्वादशकपालम्' इति शुनासीर संबन्धस्योक्तत्वाद्यस्य पर्वणः 'शुनासीरीयत्वम् । “आग्नेयमष्टाकपालं निर्वपति सौम्यं चरुम्' इत्यनुवाकनिरूपितो वैश्वदेवः । “ऐन्द्राग्नमेकादशकपालं मारुती मामिक्षाम् ” इत्यनुवाकेन निरूपिता ।। वरुणप्रघासाः “अग्नयेऽनीकवते पुरोडाशमष्टाकपालं निर्वपति” इत्यनुवाकेन निरूपिता साकमेधाः । “सोमाय पितृमते पुरोडाशँ षट्कपालम्” इत्यनेन निरूपितः पितृयज्ञः । “प्रतिपूरुषमेककपालान्निर्वपति” इत्यनेन निरूपितानि त्र्यम्बकाणि । “ऐन्द्राग्नं द्वादशकपालं वैश्वदेवं चरुम्” इत्यनुवाकैकदेशेन निरूपितः शुनासीरीयः । अनेन शुनासीरीयेण सह चत्वारि पर्वाणि चतुर्षु निष्पाद्यमानत्वाच्चातुर्मास्थानीत्युच्यन्ते । एते चातुर्मास्ययाजिनस्तेषां पुनरावृत्तिरहितं फलं विचारण दर्शयति- ब्रह्म॑वा॒दिनो॑ वदन्ति । प्र चा॑तुर्मा॒स्याया॒जी मी॑यता३न प्रमी॑यता३ इति॑ । जी॒वान्वा॒ एष ऋ॒तूनप्ये॑ति । यदि॑ व॒सन्ता॑ प्र॒मीय॑ते । व॒सन्तो भ॑वति । यदि॑ ग्री॒ष्मे ग्री॒ष्मः । यदि॑ व॒र्षासु॑ व॒र्षाः । यदि॑ श॒रदि॑ श॒रत् । यदि॑ हे॒मन्-हे॑म॒न्तः । ऋ॒तुर्भू॒त्वा सं॑वत्स॒रमप्ये॑ति । सं॒व॒त्स॒रः प्र॒जाप॑तिः । प्र॒जाप॑ति॒र्वावै॒षः (१०), इति । परिवत्सरमाप्नोति शुनाशीरीये॑ण यज॑तेऽ जयन्सहस्रयाजिनमाप्नो॑ति वैश्वदे॒वत्वँ॑सा॑कमेधैर॑यजत समे॑र्धन्त पितृयज्ञत्वं॑ जय॑ति यस्मिन्वायुह॑'मन्तस्त्रीणि च ।

चतुर्थोऽध्यायः ॥ ४ ॥

२१८ (१.४.१०) तैत्तिरीयब्राह्मणम् इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके चतुर्थाध्याये दशमोऽनुवाकः ॥ १० ॥ उ॒भये॑ यु॒वं सुरा॑मु॒र्दस्था॒न्निवै॑ य॒स्य॑ प्रातःसवन॒ एकैकोऽसु॑र्यं पर्व॑मानः प्र॒जा वै स॒त्रमा॑स॒ता॒ग्निर्वाव सं॑वत्स॒ारो दर्श॑ । उ॒भये॑ वा उर्द॑स्था॒त्सर्वा॑भि॒र्मध्य॑तो॒ऽत्र॑ वाव ब्रा॑ह्म॒णेभ्य॑श्च गृ॒हमे॑धिन् ँषट् षष्टिः । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके चतुर्थोऽध्यायः ॥ ४ ॥ दर्शपूर्णमासयाजिनस्तत्फलं प्राप्य तस्यानित्यत्वात्ततः प्रमीयन्ते पुनरावर्तन्ते । तथा चातुर्मास्ययाजी फलावस्थातः प्रच्यवत न वेति ब्रह्मवादिनां प्रश्नः । न प्रच्यवतं इत्यभिप्रेत्याभिज्ञस्योत्तरम् । अयमनुष्ठाताऽ नुष्ठानानन्तरमेवर्तुदेवताः प्राप्नोति । यद्यपि देवताशरीरमन्यैर्न दृश्यते तथाऽप्यन्तबीजरूपेणाङ्कुरितं वर्तते । अत एव देवतजन्मव्यतिरेकेण जन्मान्तरं न भवति । सामान्येनोक्तामृतुप्राप्तिमेव वसन्तादिवाक्यानि विस्पष्टी कुर्वन्ति । यस्मिन्नृतावस्य वर्तमानदेहपात- स्तद्देवतादेहःपूर्वमङ्कुरितो विस्पष्टी भवति । एवमृतुदेहेन तद्भोगान्भुक्त्वा च संवत्सरदेवं प्रविशति । स च संवत्सरः । प्रजापतिरूपः। स च प्रजापतिरेष एव शास्त्रैरिदानीमपि सर्वत्र वर्ण्यते । तस्मादयं फलावस्थातो न म्रियते । अस्य प्रपाठकस्थानुवाकार्थसंग्रह उच्यते- दशानुवाका अत्र स्युराद्ये ग्रहविधिः स्मृतः । श्रुताः सौत्रामणीमन्त्रा द्वितीयेऽऽथतृतीयके ॥ दोहप्रायश्चित्तिरग्निप्रायश्चित्तश्चतुर्थके . सोमाधिक्ये प्रतीकारः पञ्चमे संसवे पुनः । षष्ठे प्रायश्चित्तिरुक्ता यूपारोहादिकारिता । प्रायश्चित्तिः सप्तमे स्यात्यावमान्या जपोऽष्टमे । चातुर्मास्यान्युत्तर स्युर्दशमे तत्प्रशंसनम् ॥ वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् । पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे चतुर्थप्रपाठके दशमोऽनुवाकः ॥ १० ॥

तैत्तिरीयब्राह्मणम् (१.५.१) २१९ इति श्रीमद्वीरबुक्कणसाम्राज्यधुरंधर श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डेचतुर्थप्रपाठकः समाप्तः॥ ४ ॥ (मूलक्रमेण-अष्ट० १ अध्या. ४ अनु.१०(३१)। (भाष्यक्रमेण-कां. १ प्रपा० ४अनु.१०.(३६) । अथ प्रथमकाण्डे पञ्चमप्रपाठकारम्भः। तत्र प्रथमोऽनुवाकः। यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ सोमग्रहाद्या विहिताश्चतुर्थे हि प्रपाठके । नक्षत्राख्येष्टका मन्त्रप्रमुखाः पञ्चमे श्रुताः । अनारभ्योक्तितस्तेषां लिङ्गवाक्यानुसारतः। योजनीयास्तत्र तत्र न्यायाद्भासंप्रदायतः ॥ तत्र तु प्रथमानुवाके प्रोक्ता नक्षत्रेष्टकामन्त्राः क्वचिद्विकृतिरूपे चयने द्रष्टव्याः । यथाऽनारभ्याधीतं सामिधेनीसप्तदश्यं प्रकृतौ प्रत्यक्षश्रुतेन पाञ्चदश्येनावरुद्धायामवकाशमलभमानं विकृतौ निविशत एवमेतेऽपि मन्त्राःप्रत्यक्षश्रुतेः कृत्तिका नक्षत्रमग्निदेवता" इत्यादिमन्त्रैरवरुद्धायां प्रकृताववकाशाभावाद्विकृतौ निविशन्ते.तत्र प्रथमं मन्त्रमाह- अ॒ग्नेः कृत्तिकाः॑ । शु॒क्रं पु॒रस्ता॑ज्ज्योति॑र॒वस्ता॑त्, इति । अग्निनक्षत्रस्य स्वामी । तस्य स्वभूताः सप्त कृत्तिका अम्बादुलादयः । ताश्च मध्ये वर्तन्ते शुक्लं तेजो दीप्तिसाधनं काष्ठं वा । तच्च परस्तात्परपार्श्वे वर्तते । ज्योतिर्ज्वाला सा चावस्तादपरपार्श्वे वर्तते। तासामुभयपार्श्वयोः शुक्रज्योतिषोरभिमानिदेवते अत्यन्तदीप्तिमत्त्यौ परं दीपयन्त्यौ वर्तेते । एवमुत्तरेष्वपि मन्त्रेषु योज्यम् । ·द्वितीयं मन्त्रमाह- प्र॒जाप॑ते रोहि॒णी । आपः॑ पु॒रस्ता॒दोष॑धयो॒ऽवस्ता॑त्, इति । प्रजापतिर्नक्षत्रस्वामी देवस्तस्य स्वभूता रोहिणी मध्ये वर्तते । आप ओषधयश्च पार्श्वद्वये वर्तन्ते ।

२२० (१.५.१) तैत्तिरीयब्राह्मणम् तृतीयं मन्त्रमाह- सोम॑स्येन्व॒का । वित॑तानि पु॒रस्ता॒द्वय॑न्तो॒ऽवस्ता॑त्, इति । इन्वका मृगशीर्षसंघगतास्तारकाः। विततानि विस्तीर्णास्तन्तवः । वयन्तः पटस्य निर्मातारो देवताविशेषाः । चतुर्थं मन्त्रमाह- रु॒द्रस्य॑ बा॒हू । मृ॒ग॒यव॑: पु॒रस्ता॑द्विक्षारो॒ऽवस्ता॑त् इति । बाहुशब्देन द्विवचनान्तेनाऽऽर्द्रानक्षत्रमुपलक्ष्यते बाहुवत्प्रयलहेतुत्वात् मृगयवो व्याधविशेषा देवाः । विक्षारो विशिष्टो लक्ष्यवेधः । पञ्चमं मन्त्रमाह- अदि॑त्यै पुर्नव॑सू । वातः॑ पु॒रस्तादा॒र्द्रम॒वस्ता॑त् (१), इति । वातो वृष्टेःपूर्वभावी वायुः । आर्द्रं वृष्टिजन्यद्रवत्वम् । षष्ठं मन्त्रमाह- बृहस्पते॑स्ति॒ष्य॑: . जुह्व॑तः पु॒रस्ता॒द्यज॑माना अव॒स्तात्, इति । जुह्वतो होमकर्तार ऋत्विजः । यजमानाः स्वामिनः। सप्तमं मन्त्रमाह- स॒र्पाणा॑माश्रे॒षाः । अ॒भ्याग॒च्छ॑न्तः पु॒रस्ता॑द॒भ्यानृ॒त्यन्तो॒ऽ वस्ता॑त्, इति । अभ्यागच्छन्तः सर्पनृत्तदर्शनार्थमुत्सुका अभिमुखमागच्छन्तः पुरुषाः। अभ्यानृत्यन्तःफणानां प्रसारणनाभिमुखं नृत्तं कुर्वन्तः सर्पाः। अष्टमं मन्त्रमाह- पि॒तॄणां म॒घाः। रु॒दन्तः॑ पु॒रस्ता॑दपभ्रं ঁ शौऽवस्ता॑त्, इति । रुदन्तो रोदनं कुर्वन्तो बन्धवः । अपभ्रंशो देहपातः । नवमं मन्त्रमाह- अ॒र्य॒म्णः पूर्वे॑ फल्गु॑नी । जा॒या पु॒रस्ता॑दृ॒षभो॑ऽवस्ता॑त्, इति ।

तैत्तिरीयब्राह्मणम् (१.५.१) २२१ जाया प्रसिद्धा । ऋषभो भर्ता सेक्ता पुरुषः । दशमं मन्त्रमाह- भग॒स्योत्त॑रे । वह॑तवः पु॒रस्ताद्वह॑माना अ॒वस्ता॑त् (२), इति । उत्तरे इत्यत्र फल्गुनी इत्यनुवर्तते पितृगृहात्कन्यया नीयमाना धन विशेषा वहतवः तेषां वोढारो वहमानाः । एकादशं मन्त्रमाह- दे॒वस्य॑ सवि॒तुर्हस्त॑ः । प्र॒सवः॑ पु॒रस्ता॑त्स॒निर॒वस्ता॑त्, इति । प्रसवः कार्येषु प्रेरणम् । सनिर्धनदानम्। द्वादशं मन्त्रमाह- इन्द्र॑स्य चि॒त्रा । ऋ॒तं पु॒रस्ता॑त्स॒त्यम॒वस्ता॑त्, इति । चिन्त्यमानं वस्तुतत्वमृतमुच्यते । वाच्यमानं वस्तुतत्त्वं सत्यम् । त्रयोदशं मन्त्रमाह- वा॒योर्निष्ट्या॑ । व्र॒तति॑: पु॒रस्ता॑दसि॑द्धि॒रवस्ता॑त्, इति । निष्ट्या स्वातिः । व्रततिर्वायुना चालयितुं शक्या वल्ली । असिद्धिर्वल्ल्या अधःपातः। चतुर्दशं मन्त्रमाह- इन्द्रा॑ग्नि॒योर्विशा॑खे । यु॒गानि॑ पु॒रस्ता॑त्कृ॒षमा॑णा अ॒वस्ता॑त्, इति । कर्षणेन बलीवर्दगलयोः स्थप्यमानं काष्ठं युगम् । कृषमाणाः कृषिकर्तारः । पञ्चदशं मन्त्रमाह- मि॒त्रस्यानू॑रा॒धाः । अ॒भ्यारोह॑त्पु॒रस्ता॑द॒भ्यरूं॑ढम॒वस्ता॑त् (३), इति ।

२२२ (१.५.१) तैत्तिरीयब्राह्मणम् संमुखत्वेनावस्थितमुन्नतं देशमारोढुमुद्यतं पदमभ्यारोहत् । पूर्ववत्कृतारोहणं पदमभ्यारूढम् । षोडशं मन्त्रमाह- इन्द्र॑स्य रो॒हिणी॑ । शृ॒णत्पु॒रस्ता॑त्प्रतिशृण॒द्वस्ता॑त्, इति । रोहिणीशब्देन ज्येष्ठोच्यते । संग्रामारोहणहेतुत्वात् । शृणुद्धिसनोद्युक्तं स्वकीयं बलम् । प्रतिशृणत्प्रतिकूलत्वेन हिंसोद्युक्तं परकीयं बलम् । सप्तदशं मन्त्रमाह- निर्ऋ॑त्यै मू॒लव॑र्हणी । प्र॒ति॒भ॒ञ्जन्तः॑ पु॒रस्ता॑त्प्रतिशृणन्तो॒ऽवस्ता॑त्, इति । यन्मूलनक्षत्रं तदेव विरोधिपदार्थनिवर्हणशक्तित्वाद्वर्हणीत्युच्यते । प्रतिकूलां सेनां भग्नां कुर्वन्तः पुरुषाः प्रतिभञ्जन्तः । स्वात्मानं प्रातिकूल्येन हिंसन्तः पुरुषाः प्रतिशृणन्तः । अष्टादशं मन्त्रमाह- अ॒पां पूर्वा अषा॑ढाः। वर्च॑: पु॒रस्ता॑त्स॒मिति॑र॒वस्ता॑त्, इति । परसैन्याभिभवक्षमं बलं वर्चः । समितियुद्धम् ॥ एकोनविंशं मन्त्रमाह- विश्वे॑षां दे॒वाना॒मुत्त॑राः । अ॒भि॒जय॑त्पु॒रस्ता॑द॒भिज॑- तम॒वस्ता॑त्, इति । जयाभिमुखं सैन्यमभिजयत् । लब्धजयमभिजितम् । अस्मिन्मन्त्र उत्तरा इत्यत्राषाढा इत्यनुवर्तते । विंशं मन्त्रमाह- विष्णो॑: श्रो॒णा । पृ॒च्छमा॑ना: पु॒रस्ता॒त्पन्था॑ अ॒वस्ता॑त् (४), इति । श्रवणनक्षत्रं श्रोणा । तल्लोकजिज्ञासवः पुरुषाः पृच्छमानाः । तल्लोकप्राप्त्युपायः पन्थाः ।

तैत्तिरीयब्राह्मणम् (१.५.१) २२३ एकविंशं मन्त्रमाह- वसू॑ना॒ ॅश्रवि॑ष्ठाः । भू॒तं पु॒रस्ता॒द् भूति॑र॒वस्ता॑त्, इति । धनिष्ठानक्षत्रं श्रविष्ठाः । पूर्वमनुभूतमैश्वर्यं भूतम् । अनुभूयमानमनुभविष्यमाणं च भूतिः। द्वाविंशं मन्त्रमाह- इन्द्र॑स्य श॒तभि॑षक् । वि॒श्वव्य॑चाः पु॒रस्ता॑द्विश्वक्षि॑तिर॒वस्ता॑त्, इति । पूर्वं चित्रानक्षत्रस्वामी योऽयमिन्द्र उक्तः सोऽयं त्वष्टा परमैश्वर्ययोगादिन्द्र उच्यते । अन्यत्र “त्वष्टा नक्षत्रमभ्येति चित्राम्” इति मन्त्राम्नानात् । यत्विन्द्रस्य रोहिणीत्युक्तं तत्र ज्येष्ठानक्षत्राधिपतिः प्रसिद्ध एवेन्द्रः “इन्द्रो ज्येष्ठामनुक्षत्रमेति” इत्यवाम्नानात् । अत्र त्विन्द्रशब्देन परमैश्वर्ययोगाद्वरुणो गृह्यते । “क्षत्रस्य राजा वरुणोऽधिराजो नक्षत्राणा ॅ शतभिषग्वसिष्ठः” इति मन्त्राम्नानात् । विश्वं व्यचति व्याप्नोतीति विश्वव्यचा वृष्टिः । विश्वेषां सस्यानामाधारभूतः क्षेत्रविशेषो विश्वक्षितिः। त्रयोविंशं मन्त्रमाह- अ॒जस्यैक॑पाद्ः पूर्वे॑ प्रोष्ठप॒दाः । वै॒श्वा॒न॒रं पु॒रस्ता॑द्वैश्वाव॒सव॑म॒वस्ता॑त्, इति । अजशब्देनैकपाच्छब्देन च सूर्योऽभिधीयते । “तं ॅ सूर्य देवमजमेकपादम्” इति मन्त्राम्नानात् । जगदनुग्रहाय स्वेच्छागृहीतं शरीरं मुक्त्वा मनुष्यवत्कर्म पारतन्त्र्येण जन्माभावादस्याजत्वम् । एक एव पद्यते संचरतीत्येकपात् । “सूर्य एकाकी चरति” इति मन्त्रान्तरविशेषात् । विश्वेषां नराणां हितं जगत्प्रकाशनं वैश्वानरम् “आदित्याज्जायते वृष्टिः” इति स्मृत्यभिहितम् वृष्टिद्वारा विश्वेषां निवासहेतुत्वं वैश्वावसवम् । चतुर्विंशं मन्त्रमाह- अहे॑र्बुध्निय॒स्योत्त॑रे । अ॒भि॒षि॒ञ्चन्तः॑ । पु॒रस्ता॑दभि षण्वन्तो॑ ऽवस्ता॑त्, इति । अहिशब्देन बुध्नियशब्देन चाऽऽवसथ्याख्यः पञ्चमोऽग्निरुच्यते ।

२२४ (१.५.१) तैत्तिरीयब्राह्मणम् अत एवाऽधानप्रकरणे "अहे॑ बु॒ध्निय॒ मन्त्रं॑ मे गोपाय" इत्याम्नातम् । सोऽ यमहिंसकत्वादन्येन हिंसितुमशक्यत्वाच्चाहिः । बुध्ने मूले जगदादाबुत्पन्नत्वाद् बुध्नियः । उत्तरे इत्यत्र प्रोष्ठपदा इत्यनुवर्तते । राज- सूयादियागविशेषेष्वभिषेककर्तार ऋत्विजोऽभिषिञ्चन्तः । सोमयागेष्वभिषवं कुर्वन्तोऽभिषुण्वन्तः । पञ्चविशं मन्त्रमाह- पू॒ष्णो रे॒वती॑ । गावः॑ पु॒रस्ता॑द्व॒त्सा अ॒वस्ता॑त्, इति । गावः प्रसिद्धाः । वत्साश्च पोषणीयाः। षड्विशं मन्त्रमाह- अ॒श्विनो॑र॒श्वयुजौ॑ । ग्रा॒मः पु॒रस्ता॒त्सेना॑ऽव॒स्ता॑त्, इति । देवभिषग्भ्यामश्विभ्यां चिकित्सनीय एकस्थाननिवासो जनसंघो ग्रामः । परराष्ट्रं गच्छञ्जनसंघः सेना । साऽ प्यश्विभ्यां चिकित्सनीयैव । सप्तविंशं मन्त्रमाह- य॒मस्या॑प॒भर॑णीः । अ॒प॒कर्ष॑न्तः पु॒रस्ता॑दप॒वह॑न्तोऽव॒स्ता॑त्, इति । पापिजनान्यातयितुं बलादानयन्तो दूता अपकर्षन्तः । आनीतानां यातनां कुर्वन्तोऽपवहन्तः । एतेषु सर्वेष्वपि मन्त्रेषु नक्षत्राधिपतिदेवताया अनुकूला पार्श्वद्वयवर्तिनावर्थौ योजनीयौ । अष्टाविंशैकोनत्रिंशयोर्मन्त्रयोः प्रतीके दर्शयति- पू॒र्णा प॒श्चाद्यत्ते॑ दे॒वा अद॑धुः (५), इति । आ॒र्द्रामव॒स्ता॑दर्हमाना अ॒वस्ता॑द॒भ्यारू॑ढमव॒स्तात्पन्था॑ अ॒वस्ता॑द्व॒त्सा अ॒वस्ता॒त्पञ्च॑ च । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके पञ्चमाध्यये प्रथमोऽनुवाकः ॥ १ ॥ पूर्णा पश्चादुत पूर्णा पुरस्तादित्येका । यत्ते देवा अदधुर्भागधेयमित्यन्या । एतच्चोभयं संहितायां तृतीयकाण्डे व्याख्यातम् । एतैरेकोन त्रिंशन्मन्त्रैः क्वचिद्विकृतिविशेषे चयने प्रकृतिमन्त्रान्बाधित्वा नक्षत्रेष्टका उपदध्यात् ।

तैत्तिरीयब्राह्मणम् (१.५.२) २२५ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे पञ्चमप्रपाठके प्रथमोऽनुवाकः ॥ १ ॥ अथ पञ्चमप्रपाठके द्वितीयोऽनुवाकः । प्रथमेऽनुवाके वैकृतिनक्षत्रैष्टकामन्त्रा उक्ताः । अथ द्वितीयतृतीययोरनुवाकयोः कर्मानुष्ठानाय पुण्यकालो निरूप्यते । तस्य चानारभ्याधीतत्वात्कर्मविशेषसंबन्धापादकस्य वाक्यादेरभावाच्च क्रत्वर्थत्वं नास्ति, किं तु पुरुषार्थत्वमित्यवगन्तव्यम् । तत्रास्मिन्ननुवाके नक्षत्रमुपजीव्य कालविशेषं विधत्ते- यत्पुण्यं॒ नक्ष॑त्रम् । तद्बट् कु॑र्वीतोपव्यु॒षम् । य॒दा वै सूर्य॑ उ॒देति॑ । अथ॒ नक्ष॑त्रं नैति॑ । याव॑ति॒ तत्र॒ सूर्यो॒ गच्छे॑त् । ज॒घ॒न्यं पश्ये॑त् । ताव॑ति कुर्वीत यत्का॒री स्यात् । पुण्य॑ऽह एव कु॑रुते । एव ँह॒ वै य॒ज्ञेषु॑ च॒ शत॑द्युम्नं च मा॒त्स्यो निर॑वसा॒याञ्च॑कार (१), इति । ज्योतिःशास्त्रप्रसिद्ध्या कर्तुः स्वस्य क्रियमाणस्य कर्मणश्चानुकूलत्वेन पुण्यं यन्नक्षत्रमस्ति, उपव्युषः कालसमीपे तन्नक्षत्रं बट् कुर्वीत बाढं कुर्वीत । आकाशे सूर्योदयदेशादूर्ध्वमेतावति दूरे तन्नक्षत्रं तिष्ठतीति बुद्धौ दृढनिश्चयं कुर्यात् । उपव्युषमित्यस्यैवाभिप्रायः स्पष्टी क्रियते । यस्मिन्काले सूर्य उदेति तस्मिन्काले तन्नक्षत्रं पुरुषो नैति न प्राप्नोति । सूर्यप्रकाशने तिरोहितत्वाद् द्रष्टुं न शक्यत इत्युदयात्प्रागेव नक्षत्रदर्शनकाले तस्य स्थानविशेषं निश्चिनुयात् । तच्च नक्षत्रं यावत्प्राच्यामुदयं प्राप्य पश्चिमाभिमुखं गच्छति । तथा सति यस्मिन्देशे नक्षत्रस्थानं स्वेन निश्चितं तत्स्थानात्प्राचीनः समीपदेशस्तन्नक्षत्रापेक्षया जघन्यः । तस्मिञ्जघन्यदेशे यावति काले सूर्यो गच्छेत्तावति काले स्वेन कर्तव्यं कर्म कुर्यात् । यत्कर्म करोतीति यत्कारी । तादृशश्चिकीर्षुः पुरुषस्तस्मिन्काले प्रारभेत । तथा सति सत्स्वपि शास्त्रोक्तेषु कालदोषेषु तेषां दोषाणामुपशमादयं पुरुषः पुण्याह एव तत्कृतवान्भवति । तदेतत्साम्प्रदायिकम् । यस्मान्मात्स्यो नाम कश्चिदृषिर्यज्ञेषुनामकं शतद्युम्नं च पुरुषमीदृशे मुहूर्ते कारयित्वा निःशेषेण श्रेष्ठ्यं प्रापयामास । अथ प्रसङ्गाल्लोकद्वये श्रेयः साधनं नक्षत्रसमूहध्यानविशेषं विधत्ते-

२२६ (१.५.२) तैत्तिरीयब्राह्मणम् यो वै न॑क्ष॒त्रियं॑ प्र॒जाप॑तिं॒ वेद॑ । उ॒भयो॑रेनं लो॒कयो॑र्विदुः। हस्त॑ ए॒वास्य॒ हस्त॑: । चि॒त्राशिर॑: निष्ट्या॒ हृदय॑म् । ऊ॒रू विशा॑खे । प्र॒तिष्ठा॒ऽनूरा॒धाः। ए॒व वै न॑क्ष॒त्रिय॑: प्र॒जाप॑तिः । य ए॒वं वेद॑ । उ॒भयो॑रेनं लो॒कयो॑र्विदुः(२) । अ॒स्मि॑१५ श्चा॒मुष्मि॑१५ श्चँ, इति॑ ।। नक्षत्राण्येव शरीरं यस्य प्रजापतेस्तं प्रजापतिं यः पुरुषो वेदोपास्ते तं पुरुषं लोकद्वये देवामनुष्याश्च जानन्ति । तथाविधख्यातियुक्तो भवतीत्यर्थः । यदिदं हस्तनक्षत्रं तदेव प्रजापतेर्हस्तस्थानीयम् । चित्रानक्षत्रं तु शिरःस्थानीयम् । निष्ट्या स्वातीनक्षत्रं तु हृदयस्थानीयम् । विशाखानक्षत्रमूरुस्थानीयम् । अनूराधानक्षत्रं पादस्थानीयम् । एवमुपास्यमानः प्रजापतिर्नक्षत्रियः । य एवं वेत्यादेः पुनरभिधानमुपसंहारार्थम् । अथ प्रासङ्गिकं किंचिल्लौकिकं काम्यं कर्म विधत्ते- यां का॒मये॑त दुहि॒तरं॑ प्रि॒या स्या॒दिति॑ । तां नि॒ष्ट्या॑या द॒द्यात् । प्रि॒यैव भ॑वति॒ नैव तु पुन॒राग॑च्छति, इति । निष्ट्या स्वातीनक्षत्रं तस्मिन्नक्षत्रे दत्ता दुहिता पत्युः प्रियैव भवति। किं त्वस्ति कश्चिदन्यो विशेषः । पितुर्गृहं नाऽऽगच्छत्येवाऽऽगन्तुं मनस्तु न कुरुते । नेयं नक्षत्रनिन्दा, किंतु प्रीत्यतिशयज्ञापकत्वेन नक्षत्रस्तुतिरेव । अथान्यत्किंचिल्लौकिकं कर्म विधत्ते- अ॒भि॒जिन्नाम॒ नक्ष॑त्रम् । उ॒परि॑ष्टात् । अ॒वस्ता॑च्छ्रो॒णायै॑ । दे॒वा॒सु॒राः संय॑त्ता आसन् । ते दे॒वास्तस्मि॑न्नक्ष॑त्रे॒ऽभ्य॑जयन् (३) यद॒भ्यर्जयन् । तद॒भिजितो॑ऽभिजित्वम् । यं का॒मये॑तानपज॒य्यं ज॑ये॒दिति॑ । तमे॒तस्मि॑न्नक्ष॑त्रे यातयेत् । अन॒पज॒य्यमे॒व ज॑यति । पा॒प॒राजितमि॒व तु, इति॑ । उत्तराषाढानक्षत्रस्य यश्चतुर्थः पादः श्रवणनक्षत्रस्य यः प्रथमः पादस्तदुभयं मिलित्वा नक्षत्रसंधिरूपमभिजिदाख्यं किंचिन्नक्षत्रम् । देवास्तस्मिन्नक्षत्रे युद्धं कृत्वाऽभितां जितवन्तः । तस्मादभिजिदिति नाम संपन्नम् । एवं सति केनापि जेतुमशक्यं सैन्यमयं राजा जयेत्विति कामयमानोऽभिजिन्नक्षत्रे प्रयत्नं कारयेत्ततो जयत्येव । किं त्वस्ति

तैत्तिरीयब्राह्मणम् (१.५.२) २२७ किंचिदन्यच्छत्रोः । पापेन तदीयं सैन्यं पराजितमिव भवति । अस्य राज्ञो न कश्चित्प्रयासः। इयमपि पूर्ववन्नक्षत्रप्रशंसैव । अथ श्रौतकर्माङ्गत्वेन रेवतीं विधत्ते- प्र॒जाप॑तिः प॒शूनसृ॑जत । ते नक्ष॑त्रं नक्ष॑त्र॒मुपा॑तिष्ठन्त । ते स॒माव॑न्त ए॒वाभ॑वन् । ते रे॒वती॒मुपा॑तिष्ठन्त (४) । ते रे॒वत्यां॒ प्राभ॑वन् । तस्मा॑द्रे॒वत्यां॑ प॒शूनां कु॑र्वीत । यत्किंचा॑र्वाची॒न ँ सोमा॑त् । प्रैव भ॑वन्ति, इति । प्रजापतिना सृष्टाः पशवो रेवतीव्यतिरिक्ते तस्मिन्नक्षत्रे स्वकीयस्वामिगृहे समागतास्ते च समा एवाभवन् । समशब्दादुत्पन्न आवतुप्रत्ययः स्वार्थिकः । यावन्तः समागतास्तावन्त एव न तु वृद्धिं गताः। रेवत्यां तु स्वामिगृहं प्राप्ताः प्रभूता अभवन् । तस्मात्सोमयागादर्वाचीनं पशूनां संबन्धि यत्कर्म “वायव्य ँ श्वेतमालभेत” इत्यादि तद्रेवत्यां कुर्वीत । तेन पशवः प्रभूता एव भवन्ति । नामनिरुक्त्या देवसंबन्धेन च नक्षत्राणि प्रशंसति- स॒ल॒िलं वा इ॒दम॒न्तर्रासी॑त् । यदतर॑न् । तत्ता॑रकाणां तार॒क॒त्वम् । यो वा इ॒ह यज॑ते । अ॒मुं स लो॒कं न॑क्षते । तन्नक्ष॑त्राणां नक्ष॒त्र॒त्वम् (५) । दे॒व॒गृ॒हा वै नक्ष॑त्राणि । य ए॒वं वेद॑ । गृ॒ह्ये॑व भ॑वति, इति । द्यावापृथिव्योरन्तर्मध्ये यदिदं स्थावरजंगमात्मकं जगद्दृश्यते तत्सर्वं पुरा प्रलयकाले सलिलमेवासीत् तदानीं कृत्तिकाद्याः सलिलं तीर्त्वा लोकान्तरेषु गताः । तस्मात्तरन्तीति व्युत्पत्त्या तारकत्वं संपन्नम् । यो यजमान इह नक्षत्रयुक्ते काले यागं करोति स यजमानोऽमुं स्वर्गं लोकं नक्षत्रे प्राप्नोति । नक्ष गताविति धातुः। अतो नक्षत्र इति व्युत्पत्त्या नक्षत्रत्वं संपन्नम् । किंच देवतागृहसदृशान्येतानि नक्षत्राणि । यथा मनुष्या गृहेषु दीपप्रकाशेन व्यवहरन्त्येवं देवा नक्षत्रप्रकाशेन व्यवहरन्ति । अतः प्रशस्तानि नक्षत्राणि । एवं वेदिता प्रशस्तगृहो बहुगृहो वा भवति । अथ प्रसङ्गाल्लौकिकं कंञ्चिद्धमं विधत्ते- या॒नि वा इ॒मानि॑ पृथि॒व्याश्चि॒त्राणि॑ । ता॒नि नक्ष॑त्राणि

२२८ (१.५.२) तैत्तिरीयब्राह्मणम् तस्मा॑दश्लीलना॒मँ श्चि॒त्रे । नाव॑स्ये॒न्न य॑जेत । यथा॑ पापा॒हे कु॒रु॒ते । ता॒दृगे॒व तत्, इति । पृथिव्याः संबन्धीनि चित्राणि विविधानि ग्रामनगरादीनि स्थानानि यानि सन्ति तानि नक्षत्रसदृशानि । यथा द्युलोके नक्षत्राणि विविधान्युपकारकाणि च दृश्यन्ते तद्वद्द्रमादीन्यपि । तस्माद्भू संबन्धि चित्ररूपं यत्स्थानमश्लीलनामकं प्रतिकूलनक्षत्रसदृशं निन्दितं स्थानं म्लेच्छजनभूयिष्ठं तस्मिन्नश्लीलनाम्नि ग्रामे निवासं यागाद्यनुष्ठानं च न कुर्यात् । यथा पापाहे निषिद्धदिने कृतं नोपकारकं तथा निषिद्धदेशेऽपि कृतं तादृशमेव भवति । अथ नक्षत्राणामुत्तमाधमविभागं दर्शयितुं देवयम संबन्धित्वेन नक्षत्राण्युपन्यस्य तत्संचारं दर्शयति- दे॒वनक्ष॑त्राणि वा अ॒न्यानि॑ (६) । य॒मनक्ष॑त्राण्य॒न्यानि॑ । कृत्ति॑काः प्रथ॒मम् । विशा॑खे उत्त॒मम् । तानि॑ दे॒वनक्ष॑त्राणि । अ॒नू॒रा॒धाः प्रथ॒मम् । अ॒प॒भरणी॒रुत्त॒मम् । तानि॑ य॒मनक्ष॑त्राणि॑ । यानि॑ दे॒वनक्ष॑त्राणि । तानि॒ दक्षि॑णेन॒ परिय॑न्ति । यानि॑ य॒मनक्ष॑त्राणि (७) । तान्युत्त॑रेण, इति । एनबन्यतरस्यामदूरेऽपञ्चम्या इति विहितस्यैनप्रत्ययस्या- दूरार्थवाचित्वाद्देवलोकस्य समीपे दक्षिणापार्श्वे कृत्तिकादीनि परिभ्रमन्ति । अनुराधादीनि तु यमलोकस्य समीप उत्तरपार्श्वे परिभ्रमन्ति । अथ निर्वचनमुखेन यमनक्षत्राणामधमत्वं दर्शयति- अन्वे॑षामरा॒त्स्मेति॑ । तद॑नूरा॒धाः । ज्येष्ठ॑मेषा- मव॑धिष्म॒ति॑ । तज्ज्ये॒ष्ठ॒घ्नी ॥ मूल॑मेषामवृक्षा॒मेति॑ । तन्मूल॑ब॒र्हणी॑ । यन्नासं॑हन्त । तद॑षा॒ढाः । यदश्रौण॑त् (८) । तच्छ्रो॒णा । यदशृ॑णोत् । तच्छ्रवि॑ष्ठाः। यच्छ॒तम॑भिष॒ज्यन्॑ । तच्छ॒तभि॑षक् । प्रोष्ठ॒पदे॒षूद॑यच्छन्त । रे॒वत्या॑मरवन्त। अश्व॑यु॒जोरयु॑ञ्जत । अ॒प॒भर॑णी॒ष्वपा॑वहन् । तानि॒ वा ए॒तानि॑ य॒मनक्ष॑त्राणि, इति ।

तैत्तिरीयब्राह्मणम् (१.५.२) २२९ पुरा कदाचिद्युयुत्सवो देवाः परस्परमिदमब्रुवन्नेषामसुराणां युद्धार्थं वयमनुकूलया सामग्र्याऽरात्स्म समृद्धा अभूमेति। यस्मिन्नक्षत्रे तदिदं वचन मब्रुवंस्तस्य नक्षत्रस्यानूराधा इति नाम संपन्नम्। तदनुकूलया सामग्र्या राद्धिः। समृद्धिरेत्रेति व्युत्पत्तेः। एषामसुराणां मध्ये ज्येष्ठं पुरुषं मुख्यमवधिष्मेति यस्मिन्नक्षत्रेऽब्रुवंस्तस्य नक्षत्रस्य ज्येष्ठघ्नीति नाम। तत्र नामैकदेशेन ज्येष्ठेति लौकिको व्यवहारः। भीमसेन भीम इतिवत्। एवमसुराणां मूलं निवासस्थानमवृक्षमव विच्छिन्नं कृतवन्तो वयमिति यस्मिन्नक्षत्रेऽब्रुवंस्तस्य नक्षत्रस्य मूलबर्हणीति नाम। मूलस्य बर्हणमुद्यमनमुच्छेदनमत्रेति व्युत्पत्तेः। अत्राप्येकदेशेन लौकिको व्यवहारः। ययोर्नक्षत्रयोर्देवकृतमुपद्रवं सोढुमशक्ता असुरास्तस्य नक्षत्रद्वयस्याषाढा इति नाम। न सहन्तेऽत्रेति व्युत्पत्तेः। श्रोणेति संघवाची। यस्मिन्नक्षत्रे प्रहारसंघोऽसुरेष्वभूत्तस्य श्रोणेति नाम। श्रवणमिति लौकिकव्यवहारः। यस्मिन्नक्षत्रे देवैरुक्तमधिक्षेपमसुर- संघोऽशृणोत्त्तस्यश्रविष्ठा इति नाम। धनिष्ठेति लौकिकव्यवहारः। यस्मिन्नक्षत्रेऽसुकृतं प्रहाराणां शतं देवा अभिष्यन्ननायासेन चिकित्सितवन्तस्तस्य शतभिषगिति नाम। प्रोष्ठपदारख्ये नक्षत्रद्वये देवाः स्वकीयान्यायुधान्यसुरयोधनायोद्यतवन्तस्तस्मान्नक्षत्रद्वयस्य प्रोष्ठपद- नामत्वम्। यस्मिन्नक्षत्रे देवा अरवन्तासुरभीतिकरं शब्दमकुर्वंस्तस्य रेवतीति नाम। यस्मिन्नक्षत्रे देवा रथेऽश्वानयोजित-वन्तस्याश्वयुगिति नाम। यस्मिन्नक्षत्रे प्राणानामपहारामसुरा अवहंस्तस्यापभरणीति नाम। प्राणभरणादपगतत्वात्। तान्येतान्यनूराधादीनि यमवदसुराणां मरणहेतुत्वाद्यमनक्षत्राणि। तत्र नामनिर्वचनादेव तेषामधमत्वेन वर्जनत्वप्रतीतेरितरनक्षत्रेषु कृत्तिकादिषूत्तमत्वप्राप्त्या तेषु लौकिकवैदिककाम्यानुष्ठानं विधत्ते- यान्ये॒व दै॑वनक्ष॒त्राणि॑। तेषु॑ कुर्वीत॒ यत्का॒री स्यात्॑। पुण्या॒ह ए॒व कु॑रुते (९), इति। व॒कारै॒वं व॒दोभ॒यो॑रे॒नं लो॒कयो॑र्विदुरजयन्न॒रेव॑तीमुपा॑तिष्ठन्त नक्ष॑त्र॒त्वम॒न्यानि॒ यानि॑ यमनक्ष॒त्राण्यश्रो॑लो॒द्यमनक्ष॒त्राणि॒ त्रीणि॑ च। इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके पञ्चमाध्याये द्वितीयोऽनुवाकः ॥२॥ यत्काम्यं कर्म करोतीति यत्कारी स पुरुषस्तत्कर्म देवनक्षत्रेषु कुर्वन्नितरेषां कालदोषाणामुपशान्त्या पुण्याह एव कृतवान्भवति।

२३० (१.५.३) तैत्तिरीयब्राह्मणम् इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे पञ्चमप्रपाठके द्वितीयोऽनुवाकः ॥ २ ॥ अथ पञ्चमप्रपाठके तृतीयोऽनुवाकः । द्वितीयानुवाके नक्षत्रोपजीवनेन शुभकालो निरूपितः। तृतीये दिवसभागोपजीवनेन शुभकालो निरूप्यते । अह्न पञ्च विभागाः । प्रातः संगवमध्याह्नापराह्णसायाह्नशब्दाभिधेयाः। तत्राऽऽद्यन्तयोः स्वभावविशेषं दर्शयति- दे॒वस्य॑ सवि॒तुः प्रा॒तः प्र॑स॒वः प्रा॒णः । वरु॑णस्य सा॒यमा॑स॒वोऽपा॒नः॑ ; इति । योऽयमुदयान्तरभावी मुहूर्तत्रयात्मकः कालः प्रातः शब्दवाच्यः स च सवितुः प्रेरकस्य देवस्य प्रसवः प्रेरणयुक्तः । सूर्योदये सत्यनुष्ठातारः कर्षकाः सेवका वणिजश्च स्वस्वव्यापारेषु सूर्यप्रकाशेन प्रेर्यन्ते । तस्मात् प्रकर्षणानिति चेष्टते सर्वो लोकोऽत्रेत्ययं कालः प्राणरूपः । अह्रोऽन्तिमो मुहूर्तत्रयात्मकः कालः सायं शब्दाभिधेयः । स च वरुणसंबन्धी । तत ऊर्ध्वं तारकेन तमसा जगदावरणात् । स च प्राणिप्रेरणस्या- ऽऽसमन्ताच्छेदकत्वादासव इत्युच्यत । अस्तमयकाले हि सर्वे प्राणिनः स्वस्वव्यापारेभ्य उपरन्मते । अतोऽपगतचेष्टत्वादपान इत्युच्यत । अथ प्रातः संगवयोः प्रथमद्वितीययोर्भागयोः संधिरूपं कालं हेयतया निरूपयति- यत्प्र॑ती॒चीनं॑ प्रा॒तस्तना॑त् । प्रा॒चीनं॒ "संग॒वात् । ततो॑ दे॒वा अ॒ग्निष्टो॒मं निर॑मिमत। तत्तदार्त्तवीर्यं॒ निर्मार्गः॑, इति । प्रातःकालं योऽयमन्तिमो मुहूर्तस्तं पृथक्कृत्य तत्स्वरूपं प्रातस्तनात्कालात्प्रतीचीनमित्युच्यते । मुहूर्तत्रयात्मकस्य संगवाख्यस्य द्वितीयभागस्य यः प्रथमो मुहूर्तस्तं पृथक्कृत्य तत्स्वरूपं संगवात्प्राचीनमिति व्यपदिश्यते । प्रातःकालात्प्रतीचीनं संगवात्प्राचीनं च मुहूर्तद्वयात्मकं संधिरूपं यत्कालरूपं भवति ततः संधिरूपात्कालादग्निष्टोमसंस्थारूपं सोमयागं देवा निर्मितवन्तः । यस्मात्कारणात्संधिरूपप्रत्तंवीर्यं देवैर्गृहीतसारत्वान्निःसारं तस्मादयं निर्मार्गः कालः मार्गो मार्जनं शुद्धिः ततो निर्गतो निर्मार्गः । प्रातः कालवत्संगवकालं प्रशंसति-

ब्राह्मणश्च तथा तपेदिति । “मध्यंदिने प्रबलमधीयीत” इति श्रुतेः ।

तैत्तिरीयब्राह्मणम् (१.५.३) २३१ मि॒त्रस्य॑ संग॒वः । तत्पु॒ण्यं तेज॑स्व्यहः॑ । तस्मा॒त्तर्हि॑ प॒शवः॑ समा॒र्यन्ति॑, इति । योऽयं संगवो द्वितीयो भागस्तस्य मित्रः स्वामी । मित्रस्य च सर्वानुग्राहकत्वात् । तदीयमह्नः स्वरूपं पुण्यमध्ययनादिपुण्यकर्मोपेतम् । अत एव तेजस्वित्वेन भासते । तस्मात्तेजस्वित्वादेव तस्मिन्काले पशवोऽरण्येषु सम्यगाचरन्ति । अथ द्वितीयतृतीयभागयोः संधिं पूर्वसंधिवन्निन्दति- यत्प्र॑ती॒चीनं॑ ᳵ संग॒वात् (१)। प्रा॒चीनं॑ म॒ध्यंदि॑नात् । ततो॑ दे॒वा उ॒क्थ्यं॑ निरमिमत । तत्तदार्तवीर्यं॒ निर्मार्गः॑, इति ।। तृतीयभागं प्रशंसति- बृ॒हस्पते॑र्म॒ध्यंदि॑नः । तत्पु॒ण्यं तेज॑स्व्यहः॑। तस्मा॒त्तर्हि॑ तेऽक्षि॑ष्ठं॒ तपति॑, इति । मध्यंदिनभागस्य बृहस्पतिःस्वामी । तस्यातिशयेन ब्रह्मवर्चसित्वात्तदीयमह्नः स्वरूपं पुण्यमतस्तस्मिंस्ते पशवोऽक्षिष्ठं नाशरहितमुद्वेगरहित्येनावस्थानरूपं तपः कुर्वन्ति । पशूनां तथाऽवस्थानमेव तपः । “गावो वा एतत्सत्रमासत” इत्यत्र तथा तत्तपःप्रतिपादनात् । वस्तुतस्तु तेक्षिष्ठमित्येकमेव पदम् । तथा च तेक्षिष्ठमतिशयेन तीक्ष्ण ᳵयथा स्यात्तथा तस्मिन्काले सूर्यस्तपति । ब्राह्मणश्च तथा तपेदिति । “मध्यंदिने प्रबलमधीयीत” इति श्रुतेः । तृतीयचतुर्थभागयोः संधिं निन्दति- यत्प्र॑ती॒चीनं॑ म॒ध्यंदि॑नात् । प्रा॒चीन॑मपरा॒ह्णात् । ततो॑ दे॒वाः षो॒ड॒शिनं॒ निर॑मिमत । तत्तदार्तवीर्यं॒ निर्मार्गः॑ (२), इति । चतुर्थभागं प्रशंसति- भग॑स्यापरा॒ह्नः । तत्पु॒ण्यं तेज॑स्व्यहः॑ । तस्मा॑दपरा॒ह्ने कु॒मा॒र्यो भग॑मि॒च्छमा॑नाश्चरन्ति, इति । भगं सौभाग्यं शृङ्गारं गृहवर्तिनां सर्वेषा भोजनादिव्यापारेषु निष्पन्नेष्वपराह्नकाले मातरः पुत्रीणां कुमारीणामङ्गप्रक्षा-

ब्राह्मणोऽष्टाविंशो नक्षत्रम् । यथा नक्षत्रयोगात्कालस्य कर्मयोग्यतैवं

२३२ (१.५.३) तैत्तिरीयब्राह्मणम् लनधम्मिल्लबन्धननयनाञ्जनादिभिः शृङ्गारं कुर्वन्ति । सौभाग्यदेवतायास्तत्कालस्वामित्वेन तदेतदुचितम् । अथ चतुर्थपञ्चमभागयोः संधिं निन्दति- यत्प्र॑ती॒चीन॑मपरा॒ह्णात् । प्रा॒चीन॑'५ सा॒यात् । ततो॑ दे॒वा अति॑रा॒त्रं निर॑मिमत । तत्तदार्तवीर्यं॒ निर्माग॑ः, इति । पञ्चमभागं प्रशंसति- वरु॑णस्य सा॒यम् । तत्पुण्य॑न् तेज॒स्यह॑ः । तस्मा॑त्त॒र्हि नानृ॑तं वदेत् (३), इति ॥ वरुणस्योग्रदेवतात्वात्तस्मिन्पुण्यकालेऽनृतवादिनं वरुणो बाधते । अत एवान्यत्र श्रूयते--"अनृते खलु वै क्रियमाणे वरुणो गृह्णाति" इति । तस्मात्तस्मिन्कालेऽतिप्रयत्नादनृतं वर्जयेत् । उत्तमाधमकालविभागज्ञानं प्रशंसति- ब्रा॒ह्म॒णो वा अ॑ष्टाविं॒शो नक्ष॑त्राणाम् । समा॒नस्या॒ह्नः पञ्च॑ पुण्या॑नि॒ नक्ष॑त्राणि । च॒त्वार्य॑श्ली॒लानि॑ । तानि॒ नव॑ । यच्च॑ प॒रस्ता॒न्नक्ष॑त्राणां॒ यच्चा॒वस्ता॑त् । ता॒न्येका॑दश । ब्रा॒ह्म॒णो द्वाद॑शः । य एवं वि॒द्वान्सं॑वत्स॒रं व्र॒तं चर॑ति । सं॒व॒त्स॒रेणै॒वास्य॑ व्र॒तं गुप्तं भ॑वति, इति । कृत्तिकादीनि भरण्यान्तानि सप्तविंशतिर्नक्षत्राणि तदपेक्षया ब्राह्मणोऽष्टाविंशो नक्षत्रम् । यथा नक्षत्रयोगात्कालस्य कर्मयोग्यतैवं ब्राह्मणवचनादपि कालः कर्मयोग्यो भवति । अत एव शिष्टाः कर्मारम्भेषु पुण्याहं वाचयन्ति । संवत्सरसंपादनेन प्रशंसति । एकस्याह्नः प्राप्ताः प्रातः संगवादयः पञ्च भागा नक्षत्रांशोपेतत्वात्पञ्च नक्षत्राणि । तानि च पूर्वोक्तरीत्या प्रशस्तत्वात्पुण्यानि । यानि च संधिरूपाणि तान्यग्निष्टोमाद्युत्पादनेन निःसारत्वादश्लीलानि निन्दितानि । एवं पुण्यान्यश्लीलानि च मिलित्वा नवसंख्याकानि । यच्च नक्षत्रांशयुक्तेन नक्षत्राणामेतेषां नवसंख्याकानां परस्तादुपरि प्रदोषकालरूपं यच्चाधस्तादुषःकालरूपं ताभ्यां द्वाभ्यां सह तान्येकादश संपद्यन्ते तदपेक्षया वचनेन पुण्याहत्वसंपादको ब्राह्मणो द्वादशः ।

तैत्तिरीयब्राह्मणम् (१.५.४) २३३ एवमेते कालविशेषा द्वादशमासत्वेन भाविताः संवत्सरतामापद्यन्ते । एवमनेन प्रकारेण यो विद्वान् संवत्सरत्वसंपादनेनैकस्मिन्दिने व्रतं कर्मविशेषमाचरति तस्य तद् व्रतं प्रसिद्धेनेव संवत्सरेण गुप्तं भवति । संवत्सरानुष्ठानेन यावत्फलं तावदाप्नोतीत्यर्थः । अथ प्रकारान्तरेण तदभिधत्ते- स॒मा॒नस्याह्नः॑ प॒ञ्च पु॒ण्या॑नि॒ नक्ष॑त्राणि । च॒त्वा- र्य॑श्ली॒लानि॑ । ता॒नि॒ नव॑ । आ॒ग्ने॒यी रात्रिः॑ । ऐ॒न्द्रमहः॑ । तान्येका॑दश । आ॒दि॒त्यो द्वाद॑शः । य एवं वि॒द्वान्सं॑वत्स॒रं व्र॒तं चर॑ति । सं॒व॒त्स॒रेणै॑वास्य व्र॒तं गुप्तं भव॑ति । (४), इति । सृङ्ग्वां१॑षोडशिन॒ निर॑मिमीत॒ तत्तदार्त्तवीर्यं॑ मिर्मागाँ॑ वदे॒न्द्रवति स॒मा॒नस्याह्नः॑ प॒ञ्च पु॒ण्या॑नि॒ नक्ष॑त्राण्य॒ष्टौ च॑ । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके पञ्चमाध्याये तृतीयोऽनुवाकः ॥ ३ ॥ पूर्वं प्रदोषकालोषः काल ब्राह्मणेद्वादशसंख्या पूरिता । इदानीं तत्तत्रयं परित्यज्याग्निदेवताकां रात्रिमिन्द्रदेवताकमहरान्दियं च तत्तत्रयस्थाने निवेश्यानुसंधानमुच्यत इति विशेषः। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे पञ्चमप्रपाठके तृतीयोऽनुवाकः ॥ ३ ॥ अथ पञ्चमप्रपाठके चतुर्थोऽनुवाकः । तृतीये हेयोपादेयकालविभागो निरूपितः । स च ऋतुविशेषसंबन्धाभावात्पुरुषार्थः । अतः सामान्येन सर्वकर्मसु संबध्यत । चतुर्थे सोमविषये विशेषोऽभिधीयते । यदुक्तं पूर्वप्रपाठके-"यद्दारुमयाणि पात्राणि भवन्ति" इति । तदेतत्प्रशंसति- ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । कति॒ पात्रा॑णि य॒ज्ञं वह॑न्तीति॑ । त्रयो॑द॒शेति॑ ब्रूयात् ॥ स यद्ब्रू॒यात् । कस्तानि॒ निर॑मिमीतेति॑ । प्र॒जाप॑ति॒रिति॑ ब्रूयात् । स यद् ब्रू॒यात् ।

कु॒त॒स्तानि॒ निर॑मिमीतेति॑ । आ॒त्मन॒ इति॑ । प्रा॒णा॒पा॒नाभ्या॑मे॒वोपाँ॒श्वन्तर्या॒मौ निर॑मिमीत (१) । व्या॒नादु॑पाँशुसव॑नम् । वाच॒ ऐन्द्र॑वाय॒वम् । द॒क्ष॑क्रतुभ्यां मैत्रावरुणम् । श्रोत्रा॑दाश्वि॒नम् । चक्षु॑षः शुक्रा॒म॒न्थिनौ॑ । आ॒त्मन॑ आग्रय॒णम् ।। अङ्गे᳚भ्य उ॒क्थ्य॑म् । आयु॑षो ध्रु॒वम् । प्र॒ति॒ष्ठायां॑ ऋतुपा॒त्रे, इति॑ । सोमग्रहणसाधनत्वेन यज्ञनिर्वाहकाणां पात्राणां संख्याविशेषों निर्मातृविशेषो निर्माणसाधनं चेति त्रयं ब्रह्मवादिनां प्रश्नेनाभिज्ञपुरुषोत्तरेण च निर्णीतम् । प्रजापतिः स्वशरीरान्निरमिमीतेति । सामान्येनोक्तस्य प्राणापानाभ्यामित्यादिना विशेषः कथितः । तत्र प्राणवायोरुपांशुपात्रं निर्मितम् । अपानवायोरन्तर्यामपात्रम् । व्यानवायोरुपांशुसवनाख्यः पाषाणः वागिन्द्रियादैन्द्रवायवपात्रम् । दक्ष उत्साहः । क्रतुः संकल्पः ताभ्यां मैत्रावरुणपात्रम् । श्रोत्रादाश्विनपात्रम् । चक्षुरिन्द्रियाच्छुक्रामन्थिपात्रद्वयम् । आत्मनो मध्यशरीरादाग्रयणपात्रम् । अङ्गेभ्यो हस्तपादादिभ्य उक्थपात्रम् । स्वकीयादायुष्याद्दार्ढ्यध्रुवपात्रम् । प्रतिष्ठाहेतुभ्यां पादाभ्यामृतुपात्रद्वयम् । प्रजापतेः सत्यं संकल्पत्वा दिंदमेतस्माज्जायतामिति संकल्पमात्रेण तथैव जायते । यस्मादत्र प्राणादिभ्य एतानि निष्पन्नानि तस्मात्तत्तन्मन्त्रेष्वनेनैव क्रमेण प्राणादय एव दृश्यन्ते । तथा च ग्रहाभिवीक्षणमन्त्रा एवमाम्नायन्ते-"प्राणाय मे वर्चोदा वर्चसे पवस्वापानाय व्यानाय वाचे दक्षक्रतुभ्याम्" इत्याद्याः। सवनीयपुरोडाशान्प्रशंसति- य॒ज्ञं वाव तं प्र॒जाप॑ति॒र्निर॑मिमीत । स निर्मि॑तो नाध्रियत॒ सम॑व्लीयत । स ए॒तान्प्र॒जाप॑तिर्पिवा॒पान॑पश्यत् । तान्निर्व॑पत् तैर्वे स य॒ज्ञमप्य॑वपत् । यद॑पिवा॒पा भव॑न्ति । य॒ज्ञस्य॒ धृत्यै॒ असं॑व्लयाय (२), इति॑ । उपाँ॒श्वन्त॑र्या॒मौ निर॑मिमीतामिमीत॒ षट् च॑ । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके पञ्चमाध्याये चतुर्थोऽनुवाकः ॥ ४ ॥ यथोक्तग्रहपात्रसाध्यः प्रजापतिनिर्मितः स सोमयज्ञो दृढो नाभवत्, किंतु विशीर्णोऽभूत् । अतस्तद्दार्यहेतूनपिवापान्सवनीयपुरोडाशान्दृष्ट्वा तन्निर्वापेण तं यज्ञमप्यवपद् दृढीचकार । अतोऽन्यस्यापि तन्निर्वापो

चतुर्थोऽनुवाकः ॥ ४ ॥

तैत्तिरीयब्राह्मणम् (१.५.५) २३५ यज्ञस्य दाढर्याय विशरणाभावाय भवति । सोमप्रकरणे षष्ठकाण्डे “प्राण्यानि पात्राणि युज्यन्ते” इत्यनुवाके पात्रस्तुतिस्तस्मादनुसवनं पुरोडाशा निरुप्यन्त इति निर्वापविधिश्चाऽऽम्नातः । अतस्तच्छेषोऽ यमनुवाको द्रष्टव्यः । इति श्रीमत्सायणाचार्यवरचित माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे पञ्चमप्रपाठके चतुर्थोऽनुवाकः ॥ ४ ॥ अथ पञ्चमप्रपाठके पञ्चमोऽनुवाकः । ऋ॒तमे॒व प॑रमे॒ष्ठि । ऋ॒तं नात्ये॑ति॒ किंच॑न । ऋ॒ते स॒मुद्र अ॒भिहि॑तः। ऋ॒ते भूमि॑रि॒यँ श्रि॒ता । अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा॑ । तप॒ आक्रा॑न्तमु॒ष्णिहा॑ । शिर॑स्तप॒स्याहि॑तम् । वै॒श्वान॒रस्य॑ ते॒जसा॑ । ऋ॒तेना॑स्य॒ निर्व॑र्तये । स॒त्येन॑ प॒रिव॑र्तये (१) तप॑सा॒ऽस्यानु॑वर्तये । शि॒वेना॒स्योप॑वर्तये श॒ग्मना॑स्या॒भिव॑र्तये । तदृ॒तं तत्स॒त्यम् । तद्व्र॒तं तच्छ॑केयम् । तेन॑ शकेयं॒ तेन॑ राध्यास॒म्, इति॑ । चतुर्थे सोमगणभूता पात्रस्तुतिरुक्ता । पञ्चमे चातुर्मास्यशेषा वपनमन्त्रा उच्यन्ते । तत्र वैश्वदेवस्यानुष्ठानान्ते यद्वपनं तत्राऽऽ द्यान्मन्त्रान्सूत्रकारो विनियुङ्क्ते-“त्रेण्या शलल्येक्षुकाण्डेनेक्षुशलाकया लौहेन च क्षुरेणौदुम्बरेण च कशान्निर्वर्तयते वापयते श्मश्रूणि “ऋतमेव परमेष्ठि, ऋतं नात्येति किंचन, ऋते समुद्र आहितः, ऋते भूमिरियँ श्रिता, अग्निस्तिग्मेन शोचिषा तप आक्रान्तमुष्णिहा शिरस्तपस्याहितं वैश्वानरस्य तेजसा ऋतेनास्य निर्वर्तये सत्येन परिवर्तये तपसाऽस्यानुवर्तये शिवेनास्योपवर्तये शग्मेनास्याभिवर्तये' इति निर्वर्तयत इति, 'तदृतं तत्सत्यं तद् व्रतं तच्छकेयं तेन शकेयं तेन राध्यासम्' इति यजमानो जपति” इति । सूत्रगतत्रेण्यादिशब्दार्थ उपरितनानुवाके व्याख्यास्यते । ऋतमेवेत्यादिशग्मेनास्याभिवर्तये इत्यन्ता मन्त्राः केशनिवर्तने विनियुक्ताः । तद् व्रतमित्यादि यजमानजपे । ऋतं सत्यवदनं तदेव परमेष्टि जगत्स्रष्टुः प्रजापतेःस्वरूपम् । तस्माल्लोके किंचन वस्तुजातमतिक्रमितुं न भवति । तत्कथमिति तदेवोच्यते । योऽयं समुद्रो जलराशिरत्युन्नतः सोऽप्यृते समाहितः । प्रजापतिर्वेलां कृत्वा तामिमां नातिक्राम त्वमिति समुद्रमुवाच । स तस्मिन्नेव सत्यवाक्ये तथैव व्यवस्थितः । समुन्नतोऽपि जलराशिर्वेलामुल्लङ्घ्यभूमिं न प्लावयति ॥

तथा खदमन्तरेण सर्वान्प्राणिनो धारयेति प्रजापतिनोक्ते सत्यवाक्ये भूमिरियमाश्रिता वर्तते । तथा प्रजापतेः सत्यवाक्येनैवायमग्निस्तिग्मेन शोचिषा तीक्ष्णेन रश्मिना युक्तो वर्तते । तथा प्रजापतिवाक्येन सत्येन महर्षिभिस्तप्यमानं तप उष्णहादिच्छन्दोविशेषयुक्तेन मन्त्रेणाऽऽक्रान्तम् । तपस्यमाना हि च्छन्दोयुक्तान्मन्त्रान्नपन्ति । तथा प्रजापतिसत्यवाक्यादेव यजमानाः शिरोमुण्डनादिलक्षणे तपसि व्यवस्थिताः । तस्माद्वैश्वानरस्य स्वामिनः प्रजापतेस्तेजसर्तॆनास्य यजमानस्य कशान्निवर्तये निवृत्तान्क- रोमि । सत्येन तदीयेन परिवर्तये परितः परित्यक्तान्करोमि । मानसमृतं वाचिकं सत्यमिति तद्द्भिदः। तथाऽस्य यजमानस्य तपसा निमित्तभूतेनानुवर्तये केशाननुकूलान्करोमि । शिवेन शान्तेन प्रजापतिसत्यवाक्येनास्य केशानुपवर्तते समीपे केशमूले क्षुरस्य वर्तनं कुर्वे । शग्मेन सुखप्रापकेण प्रजापतेः सत्यवाक्येनास्य केशानभिवर्तयेऽभितः क्षुरं व्यापारयामि । सोऽयमध्वर्योर्वपनमन्त्रः । अथ यजमानस्य जपमन्त्रः । तत्प्रजापतेर्ऋतं मानसं तच्च वाचिकं सत्यं तदनेनानुष्ठेयं तद् व्रतं कर्मलक्षणं तत्सर्वं संपादयितुं शकेयं शक्तो भूयासम् । तेन प्रजापतिसत्येनैव शकेयं भूयासं व्रतेन कर्मणा-राध्यासं समृद्धो भूयासम् । · अथ वरुणप्रघासपर्वानन्तरभाविवपनमन्त्रौ- यद्धर्मः॒ पर्य॑वर्तयत् । अन्ता॑न्पृथि॒व्यादि॒वः । अ॒ग्निरी॑शा॒न ओज॑सा । वरु॑णो धी॒तिभिः॒ सह॑ (२), । इन्द्रो॑ म॒रुद्भिः॑ । सखि॑भिः॒, स॒ह, इति । कल्पः-‘‘अत्र पौर्णमास्येष्टोन्दनादिपूर्ववन्निवर्तनं सर्वं वा वापयेत् । मन्त्रादिर्विक्रियते-यद्धर्मः पर्यवर्तयदन्तान्पृथिव्या दिवः, अग्नीरीशान ओजसा, वरुणो धीतिभिः, सह, इन्द्रो मरुद्भिः, सखिभिः सहन्यग्निस्तिग्मे , नेत्यादि समानमिति । घर्मो दीप्यमानों य आदित्यॊऽस्ति सोऽयं पृथिव्यां दिवश्चान्त-प्रजापतिसत्यवाक्येनैव पर्यवर्तयत्परितः प्रकाशितवान् । अग्निश्चौजसा तेजोबलेनेशानः सर्वं दग्धुं प्रभुर्भवति । वरुणश्च धीतिभिर्बुद्धिविशेषैः सह स्वव्यापार प्रभवति । इन्द्रश्च मरुद्भिः । वरुणश्च धीतिभिर्बुद्धिविशेषैः सह स्वव्यापारं प्रभवति । मरुद्भिः स्वकीयैः सखिभिः सह प्रजापतिसत्यवाक्येन स्वव्यापारं प्रभुर्भवति । एतावन्पूर्वस्मान्मन्त्राद्विशेषः । अवशिष्टस्तु समानः । तस्यावशिष्टस्य पाठस्तु- अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा॑ । तप॑ आक्रां॒तमु॒ष्णिहा॑ । शिर॑स्तप॒स्याहि॑तम् । वै॒श्वा॒न॒रस्य॑ तेर्ज॑सा । ऋ॒तेना॑स्य॒