तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 256, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् (१.५.२) २२७ किंचिदन्यच्छत्रोः । पापेन तदीयं सैन्यं पराजितमिव भवति । अस्य राज्ञो न कश्चित्प्रयासः। इयमपि पूर्ववन्नक्षत्रप्रशंसैव । अथ श्रौतकर्माङ्गत्वेन रेवतीं विधत्ते- प्र॒जाप॑तिः प॒शूनसृ॑जत । ते नक्ष॑त्रं नक्ष॑त्र॒मुपा॑तिष्ठन्त । ते स॒माव॑न्त ए॒वाभ॑वन् । ते रे॒वती॒मुपा॑तिष्ठन्त (४) । ते रे॒वत्यां॒ प्राभ॑वन् । तस्मा॑द्रे॒वत्यां॑ प॒शूनां कु॑र्वीत । यत्किंचा॑र्वाची॒न ँ सोमा॑त् । प्रैव भ॑वन्ति, इति । प्रजापतिना सृष्टाः पशवो रेवतीव्यतिरिक्ते तस्मिन्नक्षत्रे स्वकीयस्वामिगृहे समागतास्ते च समा एवाभवन् । समशब्दादुत्पन्न आवतुप्रत्ययः स्वार्थिकः । यावन्तः समागतास्तावन्त एव न तु वृद्धिं गताः। रेवत्यां तु स्वामिगृहं प्राप्ताः प्रभूता अभवन् । तस्मात्सोमयागादर्वाचीनं पशूनां संबन्धि यत्कर्म “वायव्य ँ श्वेतमालभेत” इत्यादि तद्रेवत्यां कुर्वीत । तेन पशवः प्रभूता एव भवन्ति । नामनिरुक्त्या देवसंबन्धेन च नक्षत्राणि प्रशंसति- स॒ल॒िलं वा इ॒दम॒न्तर्रासी॑त् । यदतर॑न् । तत्ता॑रकाणां तार॒क॒त्वम् । यो वा इ॒ह यज॑ते । अ॒मुं स लो॒कं न॑क्षते । तन्नक्ष॑त्राणां नक्ष॒त्र॒त्वम् (५) । दे॒व॒गृ॒हा वै नक्ष॑त्राणि । य ए॒वं वेद॑ । गृ॒ह्ये॑व भ॑वति, इति । द्यावापृथिव्योरन्तर्मध्ये यदिदं स्थावरजंगमात्मकं जगद्दृश्यते तत्सर्वं पुरा प्रलयकाले सलिलमेवासीत् तदानीं कृत्तिकाद्याः सलिलं तीर्त्वा लोकान्तरेषु गताः । तस्मात्तरन्तीति व्युत्पत्त्या तारकत्वं संपन्नम् । यो यजमान इह नक्षत्रयुक्ते काले यागं करोति स यजमानोऽमुं स्वर्गं लोकं नक्षत्रे प्राप्नोति । नक्ष गताविति धातुः। अतो नक्षत्र इति व्युत्पत्त्या नक्षत्रत्वं संपन्नम् । किंच देवतागृहसदृशान्येतानि नक्षत्राणि । यथा मनुष्या गृहेषु दीपप्रकाशेन व्यवहरन्त्येवं देवा नक्षत्रप्रकाशेन व्यवहरन्ति । अतः प्रशस्तानि नक्षत्राणि । एवं वेदिता प्रशस्तगृहो बहुगृहो वा भवति । अथ प्रसङ्गाल्लौकिकं कंञ्चिद्धमं विधत्ते- या॒नि वा इ॒मानि॑ पृथि॒व्याश्चि॒त्राणि॑ । ता॒नि नक्ष॑त्राणि