तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 257, कुल 345 में से
संदर्भ में पढ़ें२२८ (१.५.२) तैत्तिरीयब्राह्मणम् तस्मा॑दश्लीलना॒मँ श्चि॒त्रे । नाव॑स्ये॒न्न य॑जेत । यथा॑ पापा॒हे कु॒रु॒ते । ता॒दृगे॒व तत्, इति । पृथिव्याः संबन्धीनि चित्राणि विविधानि ग्रामनगरादीनि स्थानानि यानि सन्ति तानि नक्षत्रसदृशानि । यथा द्युलोके नक्षत्राणि विविधान्युपकारकाणि च दृश्यन्ते तद्वद्द्रमादीन्यपि । तस्माद्भू संबन्धि चित्ररूपं यत्स्थानमश्लीलनामकं प्रतिकूलनक्षत्रसदृशं निन्दितं स्थानं म्लेच्छजनभूयिष्ठं तस्मिन्नश्लीलनाम्नि ग्रामे निवासं यागाद्यनुष्ठानं च न कुर्यात् । यथा पापाहे निषिद्धदिने कृतं नोपकारकं तथा निषिद्धदेशेऽपि कृतं तादृशमेव भवति । अथ नक्षत्राणामुत्तमाधमविभागं दर्शयितुं देवयम संबन्धित्वेन नक्षत्राण्युपन्यस्य तत्संचारं दर्शयति- दे॒वनक्ष॑त्राणि वा अ॒न्यानि॑ (६) । य॒मनक्ष॑त्राण्य॒न्यानि॑ । कृत्ति॑काः प्रथ॒मम् । विशा॑खे उत्त॒मम् । तानि॑ दे॒वनक्ष॑त्राणि । अ॒नू॒रा॒धाः प्रथ॒मम् । अ॒प॒भरणी॒रुत्त॒मम् । तानि॑ य॒मनक्ष॑त्राणि॑ । यानि॑ दे॒वनक्ष॑त्राणि । तानि॒ दक्षि॑णेन॒ परिय॑न्ति । यानि॑ य॒मनक्ष॑त्राणि (७) । तान्युत्त॑रेण, इति । एनबन्यतरस्यामदूरेऽपञ्चम्या इति विहितस्यैनप्रत्ययस्या- दूरार्थवाचित्वाद्देवलोकस्य समीपे दक्षिणापार्श्वे कृत्तिकादीनि परिभ्रमन्ति । अनुराधादीनि तु यमलोकस्य समीप उत्तरपार्श्वे परिभ्रमन्ति । अथ निर्वचनमुखेन यमनक्षत्राणामधमत्वं दर्शयति- अन्वे॑षामरा॒त्स्मेति॑ । तद॑नूरा॒धाः । ज्येष्ठ॑मेषा- मव॑धिष्म॒ति॑ । तज्ज्ये॒ष्ठ॒घ्नी ॥ मूल॑मेषामवृक्षा॒मेति॑ । तन्मूल॑ब॒र्हणी॑ । यन्नासं॑हन्त । तद॑षा॒ढाः । यदश्रौण॑त् (८) । तच्छ्रो॒णा । यदशृ॑णोत् । तच्छ्रवि॑ष्ठाः। यच्छ॒तम॑भिष॒ज्यन्॑ । तच्छ॒तभि॑षक् । प्रोष्ठ॒पदे॒षूद॑यच्छन्त । रे॒वत्या॑मरवन्त। अश्व॑यु॒जोरयु॑ञ्जत । अ॒प॒भर॑णी॒ष्वपा॑वहन् । तानि॒ वा ए॒तानि॑ य॒मनक्ष॑त्राणि, इति ।