भारतकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 264, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 264

तैत्तिरीयब्राह्मणम् (१.५.५) २३५ यज्ञस्य दाढर्याय विशरणाभावाय भवति । सोमप्रकरणे षष्ठकाण्डे “प्राण्यानि पात्राणि युज्यन्ते” इत्यनुवाके पात्रस्तुतिस्तस्मादनुसवनं पुरोडाशा निरुप्यन्त इति निर्वापविधिश्चाऽऽम्नातः । अतस्तच्छेषोऽ यमनुवाको द्रष्टव्यः । इति श्रीमत्सायणाचार्यवरचित माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे पञ्चमप्रपाठके चतुर्थोऽनुवाकः ॥ ४ ॥ अथ पञ्चमप्रपाठके पञ्चमोऽनुवाकः । ऋ॒तमे॒व प॑रमे॒ष्ठि । ऋ॒तं नात्ये॑ति॒ किंच॑न । ऋ॒ते स॒मुद्र अ॒भिहि॑तः। ऋ॒ते भूमि॑रि॒यँ श्रि॒ता । अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा॑ । तप॒ आक्रा॑न्तमु॒ष्णिहा॑ । शिर॑स्तप॒स्याहि॑तम् । वै॒श्वान॒रस्य॑ ते॒जसा॑ । ऋ॒तेना॑स्य॒ निर्व॑र्तये । स॒त्येन॑ प॒रिव॑र्तये (१) तप॑सा॒ऽस्यानु॑वर्तये । शि॒वेना॒स्योप॑वर्तये श॒ग्मना॑स्या॒भिव॑र्तये । तदृ॒तं तत्स॒त्यम् । तद्व्र॒तं तच्छ॑केयम् । तेन॑ शकेयं॒ तेन॑ राध्यास॒म्, इति॑ । चतुर्थे सोमगणभूता पात्रस्तुतिरुक्ता । पञ्चमे चातुर्मास्यशेषा वपनमन्त्रा उच्यन्ते । तत्र वैश्वदेवस्यानुष्ठानान्ते यद्वपनं तत्राऽऽ द्यान्मन्त्रान्सूत्रकारो विनियुङ्क्ते-“त्रेण्या शलल्येक्षुकाण्डेनेक्षुशलाकया लौहेन च क्षुरेणौदुम्बरेण च कशान्निर्वर्तयते वापयते श्मश्रूणि “ऋतमेव परमेष्ठि, ऋतं नात्येति किंचन, ऋते समुद्र आहितः, ऋते भूमिरियँ श्रिता, अग्निस्तिग्मेन शोचिषा तप आक्रान्तमुष्णिहा शिरस्तपस्याहितं वैश्वानरस्य तेजसा ऋतेनास्य निर्वर्तये सत्येन परिवर्तये तपसाऽस्यानुवर्तये शिवेनास्योपवर्तये शग्मेनास्याभिवर्तये' इति निर्वर्तयत इति, 'तदृतं तत्सत्यं तद् व्रतं तच्छकेयं तेन शकेयं तेन राध्यासम्' इति यजमानो जपति” इति । सूत्रगतत्रेण्यादिशब्दार्थ उपरितनानुवाके व्याख्यास्यते । ऋतमेवेत्यादिशग्मेनास्याभिवर्तये इत्यन्ता मन्त्राः केशनिवर्तने विनियुक्ताः । तद् व्रतमित्यादि यजमानजपे । ऋतं सत्यवदनं तदेव परमेष्टि जगत्स्रष्टुः प्रजापतेःस्वरूपम् । तस्माल्लोके किंचन वस्तुजातमतिक्रमितुं न भवति । तत्कथमिति तदेवोच्यते । योऽयं समुद्रो जलराशिरत्युन्नतः सोऽप्यृते समाहितः । प्रजापतिर्वेलां कृत्वा तामिमां नातिक्राम त्वमिति समुद्रमुवाच । स तस्मिन्नेव सत्यवाक्ये तथैव व्यवस्थितः । समुन्नतोऽपि जलराशिर्वेलामुल्लङ्घ्यभूमिं न प्लावयति ॥

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १) · पृष्ठ 264, कुल 345 में से · BharatKosha