तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 263, कुल 345 में से
संदर्भ में पढ़ेंकु॒त॒स्तानि॒ निर॑मिमीतेति॑ । आ॒त्मन॒ इति॑ । प्रा॒णा॒पा॒नाभ्या॑मे॒वोपाँ॒श्वन्तर्या॒मौ निर॑मिमीत (१) । व्या॒नादु॑पाँशुसव॑नम् । वाच॒ ऐन्द्र॑वाय॒वम् । द॒क्ष॑क्रतुभ्यां मैत्रावरुणम् । श्रोत्रा॑दाश्वि॒नम् । चक्षु॑षः शुक्रा॒म॒न्थिनौ॑ । आ॒त्मन॑ आग्रय॒णम् ।। अङ्गे᳚भ्य उ॒क्थ्य॑म् । आयु॑षो ध्रु॒वम् । प्र॒ति॒ष्ठायां॑ ऋतुपा॒त्रे, इति॑ । सोमग्रहणसाधनत्वेन यज्ञनिर्वाहकाणां पात्राणां संख्याविशेषों निर्मातृविशेषो निर्माणसाधनं चेति त्रयं ब्रह्मवादिनां प्रश्नेनाभिज्ञपुरुषोत्तरेण च निर्णीतम् । प्रजापतिः स्वशरीरान्निरमिमीतेति । सामान्येनोक्तस्य प्राणापानाभ्यामित्यादिना विशेषः कथितः । तत्र प्राणवायोरुपांशुपात्रं निर्मितम् । अपानवायोरन्तर्यामपात्रम् । व्यानवायोरुपांशुसवनाख्यः पाषाणः वागिन्द्रियादैन्द्रवायवपात्रम् । दक्ष उत्साहः । क्रतुः संकल्पः ताभ्यां मैत्रावरुणपात्रम् । श्रोत्रादाश्विनपात्रम् । चक्षुरिन्द्रियाच्छुक्रामन्थिपात्रद्वयम् । आत्मनो मध्यशरीरादाग्रयणपात्रम् । अङ्गेभ्यो हस्तपादादिभ्य उक्थपात्रम् । स्वकीयादायुष्याद्दार्ढ्यध्रुवपात्रम् । प्रतिष्ठाहेतुभ्यां पादाभ्यामृतुपात्रद्वयम् । प्रजापतेः सत्यं संकल्पत्वा दिंदमेतस्माज्जायतामिति संकल्पमात्रेण तथैव जायते । यस्मादत्र प्राणादिभ्य एतानि निष्पन्नानि तस्मात्तत्तन्मन्त्रेष्वनेनैव क्रमेण प्राणादय एव दृश्यन्ते । तथा च ग्रहाभिवीक्षणमन्त्रा एवमाम्नायन्ते-"प्राणाय मे वर्चोदा वर्चसे पवस्वापानाय व्यानाय वाचे दक्षक्रतुभ्याम्" इत्याद्याः। सवनीयपुरोडाशान्प्रशंसति- य॒ज्ञं वाव तं प्र॒जाप॑ति॒र्निर॑मिमीत । स निर्मि॑तो नाध्रियत॒ सम॑व्लीयत । स ए॒तान्प्र॒जाप॑तिर्पिवा॒पान॑पश्यत् । तान्निर्व॑पत् तैर्वे स य॒ज्ञमप्य॑वपत् । यद॑पिवा॒पा भव॑न्ति । य॒ज्ञस्य॒ धृत्यै॒ असं॑व्लयाय (२), इति॑ । उपाँ॒श्वन्त॑र्या॒मौ निर॑मिमीतामिमीत॒ षट् च॑ । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके पञ्चमाध्याये चतुर्थोऽनुवाकः ॥ ४ ॥ यथोक्तग्रहपात्रसाध्यः प्रजापतिनिर्मितः स सोमयज्ञो दृढो नाभवत्, किंतु विशीर्णोऽभूत् । अतस्तद्दार्यहेतूनपिवापान्सवनीयपुरोडाशान्दृष्ट्वा तन्निर्वापेण तं यज्ञमप्यवपद् दृढीचकार । अतोऽन्यस्यापि तन्निर्वापो