तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 261, कुल 345 में से
संदर्भ में पढ़ें२३२ (१.५.३) तैत्तिरीयब्राह्मणम् लनधम्मिल्लबन्धननयनाञ्जनादिभिः शृङ्गारं कुर्वन्ति । सौभाग्यदेवतायास्तत्कालस्वामित्वेन तदेतदुचितम् । अथ चतुर्थपञ्चमभागयोः संधिं निन्दति- यत्प्र॑ती॒चीन॑मपरा॒ह्णात् । प्रा॒चीन॑'५ सा॒यात् । ततो॑ दे॒वा अति॑रा॒त्रं निर॑मिमत । तत्तदार्तवीर्यं॒ निर्माग॑ः, इति । पञ्चमभागं प्रशंसति- वरु॑णस्य सा॒यम् । तत्पुण्य॑न् तेज॒स्यह॑ः । तस्मा॑त्त॒र्हि नानृ॑तं वदेत् (३), इति ॥ वरुणस्योग्रदेवतात्वात्तस्मिन्पुण्यकालेऽनृतवादिनं वरुणो बाधते । अत एवान्यत्र श्रूयते--"अनृते खलु वै क्रियमाणे वरुणो गृह्णाति" इति । तस्मात्तस्मिन्कालेऽतिप्रयत्नादनृतं वर्जयेत् । उत्तमाधमकालविभागज्ञानं प्रशंसति- ब्रा॒ह्म॒णो वा अ॑ष्टाविं॒शो नक्ष॑त्राणाम् । समा॒नस्या॒ह्नः पञ्च॑ पुण्या॑नि॒ नक्ष॑त्राणि । च॒त्वार्य॑श्ली॒लानि॑ । तानि॒ नव॑ । यच्च॑ प॒रस्ता॒न्नक्ष॑त्राणां॒ यच्चा॒वस्ता॑त् । ता॒न्येका॑दश । ब्रा॒ह्म॒णो द्वाद॑शः । य एवं वि॒द्वान्सं॑वत्स॒रं व्र॒तं चर॑ति । सं॒व॒त्स॒रेणै॒वास्य॑ व्र॒तं गुप्तं भ॑वति, इति । कृत्तिकादीनि भरण्यान्तानि सप्तविंशतिर्नक्षत्राणि तदपेक्षया ब्राह्मणोऽष्टाविंशो नक्षत्रम् । यथा नक्षत्रयोगात्कालस्य कर्मयोग्यतैवं ब्राह्मणवचनादपि कालः कर्मयोग्यो भवति । अत एव शिष्टाः कर्मारम्भेषु पुण्याहं वाचयन्ति । संवत्सरसंपादनेन प्रशंसति । एकस्याह्नः प्राप्ताः प्रातः संगवादयः पञ्च भागा नक्षत्रांशोपेतत्वात्पञ्च नक्षत्राणि । तानि च पूर्वोक्तरीत्या प्रशस्तत्वात्पुण्यानि । यानि च संधिरूपाणि तान्यग्निष्टोमाद्युत्पादनेन निःसारत्वादश्लीलानि निन्दितानि । एवं पुण्यान्यश्लीलानि च मिलित्वा नवसंख्याकानि । यच्च नक्षत्रांशयुक्तेन नक्षत्राणामेतेषां नवसंख्याकानां परस्तादुपरि प्रदोषकालरूपं यच्चाधस्तादुषःकालरूपं ताभ्यां द्वाभ्यां सह तान्येकादश संपद्यन्ते तदपेक्षया वचनेन पुण्याहत्वसंपादको ब्राह्मणो द्वादशः ।