तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 246, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् (१.४.१०) २१७ प्रजया पशुभिः प्रथितो भवति । त्र्यम्बकस्य रुद्रस्य संबन्धेन हविषां त्र्यम्बकनामेत्युन्नेयम् । चतुर्थं पर्व प्रशंसति- अथ॑ वा॒युः प॑रमे॒ष्ठिन॑'५ शुनासी॒रीये॑णायजत । स ए॒तं लो॒कम॑जयत् । यस्मि॑न्वा॒युः । यच्छु॑नासी॒रीये॑ण॒ यज॑ते । ए॒तमे॒व लो॒कं ज॑यति । यस्मि॑न्वा॒युः (१) । वा॒योरे॒व सायु॑ज्यमुपैति, इति । वायुश्चतुर्थपर्वणा परमेष्ठिनमाराध्य यस्मिन्निदानीं वायुर्वर्तते तमेतं लोकं जितवान् । एवमन्योऽपि तं लोकं जित्वा वायोः सायुज्यं प्राप्नोति । “इन्द्राय शुनासीराय पुरोडाशं द्वादशकपालम्' इति शुनासीर संबन्धस्योक्तत्वाद्यस्य पर्वणः 'शुनासीरीयत्वम् । “आग्नेयमष्टाकपालं निर्वपति सौम्यं चरुम्' इत्यनुवाकनिरूपितो वैश्वदेवः । “ऐन्द्राग्नमेकादशकपालं मारुती मामिक्षाम् ” इत्यनुवाकेन निरूपिता ।। वरुणप्रघासाः “अग्नयेऽनीकवते पुरोडाशमष्टाकपालं निर्वपति” इत्यनुवाकेन निरूपिता साकमेधाः । “सोमाय पितृमते पुरोडाशँ षट्कपालम्” इत्यनेन निरूपितः पितृयज्ञः । “प्रतिपूरुषमेककपालान्निर्वपति” इत्यनेन निरूपितानि त्र्यम्बकाणि । “ऐन्द्राग्नं द्वादशकपालं वैश्वदेवं चरुम्” इत्यनुवाकैकदेशेन निरूपितः शुनासीरीयः । अनेन शुनासीरीयेण सह चत्वारि पर्वाणि चतुर्षु निष्पाद्यमानत्वाच्चातुर्मास्थानीत्युच्यन्ते । एते चातुर्मास्ययाजिनस्तेषां पुनरावृत्तिरहितं फलं विचारण दर्शयति- ब्रह्म॑वा॒दिनो॑ वदन्ति । प्र चा॑तुर्मा॒स्याया॒जी मी॑यता३न प्रमी॑यता३ इति॑ । जी॒वान्वा॒ एष ऋ॒तूनप्ये॑ति । यदि॑ व॒सन्ता॑ प्र॒मीय॑ते । व॒सन्तो भ॑वति । यदि॑ ग्री॒ष्मे ग्री॒ष्मः । यदि॑ व॒र्षासु॑ व॒र्षाः । यदि॑ श॒रदि॑ श॒रत् । यदि॑ हे॒मन्-हे॑म॒न्तः । ऋ॒तुर्भू॒त्वा सं॑वत्स॒रमप्ये॑ति । सं॒व॒त्स॒रः प्र॒जाप॑तिः । प्र॒जाप॑ति॒र्वावै॒षः (१०), इति । परिवत्सरमाप्नोति शुनाशीरीये॑ण यज॑तेऽ जयन्सहस्रयाजिनमाप्नो॑ति वैश्वदे॒वत्वँ॑सा॑कमेधैर॑यजत समे॑र्धन्त पितृयज्ञत्वं॑ जय॑ति यस्मिन्वायुह॑'मन्तस्त्रीणि च ।