भारतकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 247, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 247

२१८ (१.४.१०) तैत्तिरीयब्राह्मणम् इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके चतुर्थाध्याये दशमोऽनुवाकः ॥ १० ॥ उ॒भये॑ यु॒वं सुरा॑मु॒र्दस्था॒न्निवै॑ य॒स्य॑ प्रातःसवन॒ एकैकोऽसु॑र्यं पर्व॑मानः प्र॒जा वै स॒त्रमा॑स॒ता॒ग्निर्वाव सं॑वत्स॒ारो दर्श॑ । उ॒भये॑ वा उर्द॑स्था॒त्सर्वा॑भि॒र्मध्य॑तो॒ऽत्र॑ वाव ब्रा॑ह्म॒णेभ्य॑श्च गृ॒हमे॑धिन् ँषट् षष्टिः । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके चतुर्थोऽध्यायः ॥ ४ ॥ दर्शपूर्णमासयाजिनस्तत्फलं प्राप्य तस्यानित्यत्वात्ततः प्रमीयन्ते पुनरावर्तन्ते । तथा चातुर्मास्ययाजी फलावस्थातः प्रच्यवत न वेति ब्रह्मवादिनां प्रश्नः । न प्रच्यवतं इत्यभिप्रेत्याभिज्ञस्योत्तरम् । अयमनुष्ठाताऽ नुष्ठानानन्तरमेवर्तुदेवताः प्राप्नोति । यद्यपि देवताशरीरमन्यैर्न दृश्यते तथाऽप्यन्तबीजरूपेणाङ्कुरितं वर्तते । अत एव देवतजन्मव्यतिरेकेण जन्मान्तरं न भवति । सामान्येनोक्तामृतुप्राप्तिमेव वसन्तादिवाक्यानि विस्पष्टी कुर्वन्ति । यस्मिन्नृतावस्य वर्तमानदेहपात- स्तद्देवतादेहःपूर्वमङ्कुरितो विस्पष्टी भवति । एवमृतुदेहेन तद्भोगान्भुक्त्वा च संवत्सरदेवं प्रविशति । स च संवत्सरः । प्रजापतिरूपः। स च प्रजापतिरेष एव शास्त्रैरिदानीमपि सर्वत्र वर्ण्यते । तस्मादयं फलावस्थातो न म्रियते । अस्य प्रपाठकस्थानुवाकार्थसंग्रह उच्यते- दशानुवाका अत्र स्युराद्ये ग्रहविधिः स्मृतः । श्रुताः सौत्रामणीमन्त्रा द्वितीयेऽऽथतृतीयके ॥ दोहप्रायश्चित्तिरग्निप्रायश्चित्तश्चतुर्थके . सोमाधिक्ये प्रतीकारः पञ्चमे संसवे पुनः । षष्ठे प्रायश्चित्तिरुक्ता यूपारोहादिकारिता । प्रायश्चित्तिः सप्तमे स्यात्यावमान्या जपोऽष्टमे । चातुर्मास्यान्युत्तर स्युर्दशमे तत्प्रशंसनम् ॥ वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् । पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे चतुर्थप्रपाठके दशमोऽनुवाकः ॥ १० ॥

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १) · पृष्ठ 247, कुल 345 में से · BharatKosha