तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 259, कुल 345 में से
संदर्भ में पढ़ें२३० (१.५.३) तैत्तिरीयब्राह्मणम् इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे पञ्चमप्रपाठके द्वितीयोऽनुवाकः ॥ २ ॥ अथ पञ्चमप्रपाठके तृतीयोऽनुवाकः । द्वितीयानुवाके नक्षत्रोपजीवनेन शुभकालो निरूपितः। तृतीये दिवसभागोपजीवनेन शुभकालो निरूप्यते । अह्न पञ्च विभागाः । प्रातः संगवमध्याह्नापराह्णसायाह्नशब्दाभिधेयाः। तत्राऽऽद्यन्तयोः स्वभावविशेषं दर्शयति- दे॒वस्य॑ सवि॒तुः प्रा॒तः प्र॑स॒वः प्रा॒णः । वरु॑णस्य सा॒यमा॑स॒वोऽपा॒नः॑ ; इति । योऽयमुदयान्तरभावी मुहूर्तत्रयात्मकः कालः प्रातः शब्दवाच्यः स च सवितुः प्रेरकस्य देवस्य प्रसवः प्रेरणयुक्तः । सूर्योदये सत्यनुष्ठातारः कर्षकाः सेवका वणिजश्च स्वस्वव्यापारेषु सूर्यप्रकाशेन प्रेर्यन्ते । तस्मात् प्रकर्षणानिति चेष्टते सर्वो लोकोऽत्रेत्ययं कालः प्राणरूपः । अह्रोऽन्तिमो मुहूर्तत्रयात्मकः कालः सायं शब्दाभिधेयः । स च वरुणसंबन्धी । तत ऊर्ध्वं तारकेन तमसा जगदावरणात् । स च प्राणिप्रेरणस्या- ऽऽसमन्ताच्छेदकत्वादासव इत्युच्यत । अस्तमयकाले हि सर्वे प्राणिनः स्वस्वव्यापारेभ्य उपरन्मते । अतोऽपगतचेष्टत्वादपान इत्युच्यत । अथ प्रातः संगवयोः प्रथमद्वितीययोर्भागयोः संधिरूपं कालं हेयतया निरूपयति- यत्प्र॑ती॒चीनं॑ प्रा॒तस्तना॑त् । प्रा॒चीनं॒ "संग॒वात् । ततो॑ दे॒वा अ॒ग्निष्टो॒मं निर॑मिमत। तत्तदार्त्तवीर्यं॒ निर्मार्गः॑, इति । प्रातःकालं योऽयमन्तिमो मुहूर्तस्तं पृथक्कृत्य तत्स्वरूपं प्रातस्तनात्कालात्प्रतीचीनमित्युच्यते । मुहूर्तत्रयात्मकस्य संगवाख्यस्य द्वितीयभागस्य यः प्रथमो मुहूर्तस्तं पृथक्कृत्य तत्स्वरूपं संगवात्प्राचीनमिति व्यपदिश्यते । प्रातःकालात्प्रतीचीनं संगवात्प्राचीनं च मुहूर्तद्वयात्मकं संधिरूपं यत्कालरूपं भवति ततः संधिरूपात्कालादग्निष्टोमसंस्थारूपं सोमयागं देवा निर्मितवन्तः । यस्मात्कारणात्संधिरूपप्रत्तंवीर्यं देवैर्गृहीतसारत्वान्निःसारं तस्मादयं निर्मार्गः कालः मार्गो मार्जनं शुद्धिः ततो निर्गतो निर्मार्गः । प्रातः कालवत्संगवकालं प्रशंसति-