भारतकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 212, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 212

तैत्तिरीयब्राह्मणम् (१.४.४) १८३ निष्क॑रोति । मि॒त्रो वा ए॒तस्य॑ य॒ज्ञं गृ॑ह्णाति । यस्या॒ग्निम॑नु॒द्धृत॒ꣳ॒ सूर्यो॑ऽभ्यु॒देति॑ । मै॒त्रं च॒रुं निर्व॑पेत् । तेनै॒व य॒ज्ञं निष्क्री॑णीते, इति । पूर्ववत्सर्वं व्याख्येयम् । आज्योद्धरणमारभ्य मैत्रचरुपर्यन्तमेकं प्रायश्चित्तम् । अथाग्न्युद्वाननिमित्तं प्रायश्चित्तं विधत्ते- यस्या॑ऽहव॒नीये॑ऽनु॒द्द्वाते॒ गार्ह॑पत्य॒ उद्वाये॑त् (६) । यदा॑हव॒नीय॒मनु॑द्द्वाप्य॒ गार्ह॑पत्यं॒ मन्थे॑त् । विच्छि॑न्द्यात् । भ्रातृ॑व्यमस्मै जनयेत् । यद्वै य॒ज्ञस्य॑ वा॒स्त्व्यं॑ क्रि॒यते । तद॑नु॒ रु॒द्रोऽव॑चरति । यत्पूर्वं॒मन्वव॑सृ॒जेत् । वा॒स्त्व्य॑म॒ग्निमुपा॑- सीत । रु॒द्रोऽस्य॑ प॒शून्घातु॑कः स्यात् । आ॒ह॒व॒नीय॑मुद्द्वाप्य॑ । गार्ह॑पत्यं॒ मन्थे॑त् (७), इति । यस्य पुरुषस्याऽऽहवनीयाग्नौ विद्यमाने सति गार्हपत्याग्निर्नश्येत्तदानीमयं पुरुषस्तं विद्यमानमाहवनीयमविनाश्य यदि गार्हपत्यार्थं मन्थनं कुर्यात्तदानीमाहवनीयजनकस्य गार्हपत्यस्याभावाद्यज्ञो विच्छिद्येत । पूर्वा ह्याहवनीयजनको गार्हपत्यो विनष्टः । इत ऊर्ध्वं मन्थनीयस्तु नैतस्याऽऽहवनीयस्य जनकः । किंच तन्मन्थनेन यजमानस्य भ्रातृव्यमुत्पादयेत् । मन्थनीयस्य पूर्वाहवनीयविरोधित्वात् । एवं तर्हि शास्त्रीयो गार्हपत्याहवनीयौ मा भूताम् । लौकिकमेवाग्निहोत्रं क्रियतामिति चेत् । तदप्यनुपपन्नम् । यज्ञस्य संबन्धि यदङ्गं वास्तव्यं लौकिकं क्रियते । वास्तवे लोकव्यवहारे भवं वास्तव्यम् । तल्लौकिकमङ्गमनु रुद्रः क्रूरो देवो यज्ञशालायां प्रविशति । एवं सति यदि पूर्वं विद्यमानमाहवनीयमनु कर्म समापयेत्तदानीं लौकिकमेवाग्निमुपासितवान्भवति । ततो रुद्रोऽस्य पशून्विनाशयेत् तस्मात्पूर्वसिद्धमाहवनीयं विनाशय पश्चाद्गार्हपत्यार्थमग्निं मन्थेत् । तत्र मन्थनमन्त्रं विधत्ते- इ॒तः प्र॑थ॒मं ज॑ज्ञे अ॒ग्निः । स्वाद्योने॒रधि॑ जा॒तवे॑दाः । स गाय॒त्रिया त्रि॒ष्टुभा॒ जग॑त्या । दे॒वेभ्यो॑ ह॒व्यं व॑हतु प्रजा॒नन्नि॑ति । छन्दो॑भिरे॒वैनं॒ ꣳ॒स्वाद्योने॑: प्रज॑नयति, इति ।