तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 213, कुल 345 में से
संदर्भ में पढ़ें१८४ (१.४:४) तैत्तिरीयब्राह्मणम् जातवेदा उत्पन्नसर्वजगदभिज्ञोऽग्निः स्वाद्योनेः स्वकीयात्कारणादितोऽरणेः प्रथममुत्पन्नः । स च गायत्र्यादिच्छन्दस्त्रयेण सहकारिणा देवान्हविश्च प्रकर्षेण जानन्नस्मदीयं हव्यं देवेभ्यो वहत्वित्यनेन मन्त्रेण मन्थनं कुर्यात् । तथा सति गायत्र्यादिच्छन्दोभिरेवानुगृहीतः स्वकीयात्कारणादुत्पादितो भवति । यथोक्तं मन्थनविधिमनूद्यानुमन्त्रणं विधत्ते- गा॒र्हप॑त्यं मन्थति । गा॒र्हप॑त्यं वा अन्वहि॑ताग्नेः प॒शव॒ उप॑तिष्ठन्ते । स यदु॒द्वास॑यति । तदनु॑ प॒शवोऽप॑क्रामन्ति . इ॒षे र॒य्यै रम॑स्व (८), इति । सह॑से द्यु॒म्नाय॑ । ऊ॒र्जे पत्या॒येत्या॑ह । प॒शवो॒ वै र॒यिः । प॒शुने॒वास्मै॑ रमयति, इति । मन्थनेन निष्पन्नो यो गार्हपत्यस्तदनु पशवोऽस्य संपद्यन्ते । तदुद्वासने तु पशवो नश्यन्ति । अतस्तदुद्वासनं वारयितुमिष इत्यादिमन्त्रेणाभिमन्त्रयेत् । मन्त्रस्य चायमर्थः-हेऽग्ने इषऽन्नार्थं रय्यै धनार्थं सहसे बलार्थं द्युम्नाय यशोर्थमूर्जे क्षीरादिरसार्थं पत्याय स्वामित्वार्थं च रमस्व त्वामत्र क्रीडां कुरु । अस्मिन्मन्त्रे धनवाचिना रयिशब्देन पशूनामप्यभिमतत्वात्पशूनस्मै संपादयति । अथ मन्त्रेण समिन्धनविधिमभिप्रेत्य तस्य भागमनूद्य व्याचष्टे- सार॑स्व॒तौ त्वो॒त्सौ स॒मि॑न्धाता॒मित्या॑ह । ऋ॒क्सामे॒ वै सार॑स्व॒तावु॒त्सौ । ऋ॒क्सा॒माभ्या॑मे॒वैनं॒ ँस॒मि॑न्धे, इति । हेऽग्न उत्सावत्युत्सुकौ सारस्वतौ सरस्वतिसंबन्धिनावृग्वेदसामवेदौ त्वां समिन्धातां सम्यग्दीपयताम् । भागान्तरमुदाहृत्य व्याचष्टे- स॒म्राड॑सि वि॒राड॑सीत्या॑ह । र॒थ॒न्तरं॒ वै स॒म्राट् । बृ॒हद्वि॒राट् (९) । ताभ्या॑मे॒वैनं॒ ँस॒मि॑न्धे, इति । सम्यग्राजत इति सम्राट् । विविधं राजत इति विराट् । हेऽग्ने सामद्वयरूपस्त्वमसि । अथ निमित्तान्तरकृतं प्रायश्चित्तं विधत्ते-