तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 113, कुल 345 में से
संदर्भ में पढ़ें८४ (१.२.२) तैत्तिरीयब्राह्मणम् विश्वजिदाख्यो योऽयमेकाहः स उक्थ्येभ्यः पुरस्तात्कर्तव्यः स च षष्ठे मासि सप्तविंशे दिने प्राप्नोति । अभिजिदाख्योऽपर एकाहः स च पुरःसामभ्य उपरिष्टात्कर्तव्यः । तथा सति विषुवत उपरितने मासि चतुर्थदिने प्राप्नोति । तावेतावग्निष्टोमौ द्वादशस्तोत्रयुक्तावेव कार्यौ । अथ पूर्वोक्तान्यहानि प्रशंसति- उ॒क्थ्या॑: स॒प्तद॒शाः प॒रः सामा॑नः । ते सँस्तु॑ना वि॒राज॑म॒भिसंप॑द्यन्ते । द्वे च॒र्चौवि॑ति॒रिच्ये॑ते । एक॑या॒ गौर॑ति॒रिक्त॑: । एक॑याऽऽयु॒रून॑: । सु॒व॒र्गो वै लो॒को ज्योति॑: । ऊर्ध्वि॒राट् (२) । सु॒व॒र्गमे॒व तेन॑ लो॒कम॒भिज॑यन्ति, इति । विषुवतः पुरस्तादुपरिष्टाच्च सप्तदशस्तोमयुक्ताः परःसामाख्या अहर्विशेषा उक्थ्यरूपा ये पूर्वं विहिताः सन्ति तेषु विद्यमानाः स्तोत्रविशेषा विराजं दशसंख्यां संपद्यन्ते । तत्प्रकारस्तु सामवेदविहितप्रकारेण गणयित्वा द्रष्टव्यः । ते च परःसामानः पूर्वस्मिन्पक्षे ज्योतिर्गौरायुुरित्येवमनुक्रमेण कर्तव्याः । उत्तरस्मिन्पक्ष आयुर्गौर्ज्योतिरित्येवं व्युत्क्रमेण कर्तव्याः । तत्र तत्र सामवेदोक्तप्रकारेण गोनामकः क्रतुरेकया स्तोतृतया दशसंख्यातोऽतिरिच्यते । आयुर्नामकः क्रतुरेकया न्यूनः । तयोरुभयोर्मेलनेन पुनरपि षट् संख्या पूर्यते । किंचैतेषु योऽयं ज्योति राख्योऽहर्विशेषः स स्वर्गप्रकाशकत्वात्स्वर्ग एव । या च विराड्रूपा लक्षणभूता दशसंख्या सेयमूर्ध्वस्वरूपा । तेन तादृशेन परःसामानुष्ठानेन स्वर्गं लोकमभिजयनन्तीति । अथैतेषु षट्सु परःसामसु पृष्ठस्तोत्रगतानि क्रमेण विधत्ते- यत्पृ॒ ँरा॑थंतरम्॑ । तत्प्र॑थ॒मेऽह॑न्कार्यम्॑ । बृ॒हद्द्वि॒तीये॑ । वै॒रू॒पं तृ॒तीये॑ । वै॒राजं॑ च॑तु॒र्थे । शा॒क्व॒रं प॑ञ्च॒मे । रै॒वत॑ ँ षष्ठे॒ । त दु॑ पृ॒ष्ठेभ्यो॒ नय॑न्ति, इति । पूर्वपक्षवर्तिनि प्रथमे परः साम्नि ज्योतिराख्ये रथंतरेण निष्पाद्यं राथंतरं यत्पृष्ठस्तोत्रं तत्कर्तव्यम् । द्वितीयेऽह्नि गोनामके बृहत्साम्नि निष्पाद्यं पृष्ठस्तोत्रं कार्यम् । आयुर्नामके तृतीये वैरूपसामयुक्तं पृष्ठस्तोत्रं कार्यम् । विषुवत ऊर्ध्वभाविन्यायुर्नाम्नि चतुर्थे परः साम्नि वैराजसामयुक्तं पृष्ठस्तोत्रम् । पञ्चमे गोनाम्नि शाक्वरसामयुक्तं पृष्ठस्तोत्रम् । ज्योतिर्नाम्नि षष्ठे रैवतकसामयुक्तं पृष्ठस्तोत्रम् । तद् तेनैव प्रकारेणानुतिष्ठन्त एतान्यहानि