तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 114, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् (१.२.२) ८५ पृष्ठेभ्यः पृष्ठ (ष्ठ्य) षडहगतेभ्योऽहोभ्य उपरि नयन्ति । यद्यप्येतानि ज्योतिरादीन्यभिप्लवषडहगतान्यहानि तथाऽपि रथंतरादिपृष्ठस्तो- त्रयोगात्पृष्ठ (ष्ठ्य) षडहगतान्येव संपद्यन्त इत्यर्थः । अथैतेष्वहःस्वतिग्राह्यविशेषान्विधत्ते- सं॒तन॑य ए॒ते ग्रहा॑ गृह्यन्ते (३) । अ॒ति॒ग्रा॒ह्याः॑ परः सामसु इ॒माने॒वैतैर्लो॒कान्त्संत॑न्वन्ति, इति । संहितायां तृतीयकाण्डे तृतीयप्रपाठके -“देवा वै यद्यज्ञेन नावारुन्धत" इत्यस्मिन्षष्ठेऽनुवाके परः शब्दाभियेयास्त्रयोऽतिग्राह्या विहिताः। तत्र" अद्भ्यस्त्वौषधीभ्यो गृह्णामि " इति प्रथमस्य मन्त्र । " ओषधीभ्यस्त्वा प्रजाभ्यो गृह्णामि " इति द्वितीयस्य मन्त्रः । “प्रजाभ्यस्त्वा प्रजापतये गृह्णामि" इति तृतीयस्य मन्त्रः । एभिर्मन्त्रैः परःसामसु ज्योतिर्गौरायुुरित्येतेष्वहःसु अतिग्राह्यनामकाः ग्रहाः संतनयः संतता ग्रहीतव्याः । प्रथमेऽह्नि प्रथमो द्वितीयेऽह्नि द्वितीयस्तृतीयेऽह्नि तृतीय इत्येवं सांतत्यम् । एतैः संततं गृहीतैरिमान्भूरादींस्त्रींल्लोकान्संततान्कुर्वन्ति । अथ विषुवत ऊर्ध्वभाविषु परः सामसु व्युत्क्रमेण तानेव ग्रहान्विधत्ते - मि॒थु॒ना ए॒ते ग्रहा॑ गृह्यन्ते । अ॒ति॒ग्रा॒ह्याः॑ प॒रःसाम॑सु । मि॒थु॒नमे॒व तैर्यज॑माना॒ अवरु॑न्धते, इति । एते ग्रहाः पूर्वेष्वहःस्वनुक्रमगता उत्तरेष्वहःसु व्युत्क्रमगताः । एतच्च संहितायामेव स्पष्टमाम्नातम्-“पूर्वेष्वहःस्वितः पराञ्चो गृह्यन्त उत्तरेष्वहः- स्वमुतोऽर्वाञ्चो गृह्यन्ते" इति । उत्तरगतान्यहान्यप्यायुर्गौर्ज्योतिरित्युेवं व्युत्क्रमगतानि । एवं च सति प्रथमषष्ठयोर्ज्योतिराख्ययोरह्लोरब्भ्य त्यादिमन्त्रयुक्तोऽतिग्राह्यो द्विरावृत्तः । गोनाम्नोर्द्वितीयपञ्चमयोरोषधीभ्य इतिमन्त्रयुक्तोऽ तिग्राह्यो द्विरावृत्तः । आयुर्नाम्नोस्तृतीयचतुर्थयोः प्रजाभ्य इतिमन्त्रयुक्तोऽतिग्राह्यो द्विरावृत्तः । एवं सत्येते मिथुनरूपाः संपद्यन्ते। तैर्यजमाना मिथुनं प्राप्नुवन्ति । अथ विषुवद्दिने पृष्ठस्तोत्रगतं साम विधत्ते- बृ॒हत्पृ॒ष्ठं भ॑वति । बृ॒हद्वै सु॑व॒र्गो लो॒कः । बृ॒हतै॒व सु॑व॒र्गं लो॒कं य॑न्ति, इति । बृहत्साम्नः स्वर्गप्राप्तिहेतुत्वात्तद्रूपत्वम् ।