भारतकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 112, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 112

तैत्तिरीयब्राह्मणम् (१.२.२) ८३ हान्त्यनुष्ठेयानि । अष्टाभिर्लोकपालैःपरिपालिता अष्टसंख्याकाः स्वर्गा लोकास्तेषां मध्ये कश्चिदूर्ध्वदिग्वर्ती स्वर्ग इत्येवं नवसंख्याकाः स्वर्गाः । तेषु नवस्वपि तेन यथोक्तानुष्ठानेन प्रतिष्ठां प्राप्नुवन्तो गच्छन्ति । अत्र कंचिच्छाखान्तरीयं पक्षमुपन्यस्यति- अ॒ग्नि॒ष्टोमाः॑ परः॒ सामा॑नः का॒र्या ३ इत्या॑हुः । अ॒ग्नि॒ष्टोम॑संमितः सुव॒र्गो लो॒क इति॑ । द्वाद॑शाग्नि॒ष्टोम॑स्य स्तोत्रा॑णि । द्वाद॑श॒ मासाः॑ संवत्स॒रः, इति । परांस्युत्कृष्टतराणि सामानि येष्वहर्विशेषेषु ते परःसामानः । तेषु विषुवतोऽह्नः त्रयस्त्रयस्ते षडप्यग्निष्टोमात्मकाः कर्तव्या इति शाखान्तराध्यायिन आहुः । तत्रायं हेतुः । अग्निष्टोमेन सदृशः स्वर्गस्तत्कथमिति तदुच्यते । अग्निष्टोमस्य द्वादशसंख्याकानि स्तोत्राणि विद्यन्ते । प्रातः सवने बहिष्पवमानाख्यमेकं स्तोत्रं चत्वार्याज्यस्तोत्राणि । माध्यंदिने सवने माध्यंदिनपवमानाख्यमेकं स्तोत्रम् । पृष्ठस्तोत्राणि चत्वारि । तृतीयसवन आर्भभवपवमानाख्यमेकं स्तोत्रं यज्ञायज्ञियं द्वितीयम् । तदेवं द्वादश स्तोत्राणि । संख्यासाम्यन्मासद्वारा संवत्सरसंपत्तौ सत्यां स्वर्गवासिना संवत्सरदेवेनाग्निष्टोमः समो भवति । तमेतं शाखान्तरपक्षं दूषयित्वा स्वपक्षं विधत्ते- तत्तन्न सूर्क्ष्य॑म् । उ॒क्थ्या॑ ए॒व सं॑स॒दृशाः परः॑सामा॒नः का॒र्याः (१) । प॒शवो॒ वा उ॒क्थानि॑ । प॒शूना॒मव॑रुद्ध्यै, इति । परःसामारख्या अहर्विशेषा अग्निष्टोमरूपा इति यदन्यैरुक्तं तत्तथा न सूर्क्ष्यं न द्रष्टव्यम् । सूर्क्ष दर्शन इति धातुः । कथं तर्हीति तदुच्यते । उक्थ्यनामकानि द्वादशेभ्यःस्तोत्रेभ्य उपरितनानि त्रीणि स्तोत्राणि यस्मिन्क्रतौ सोऽयमुक्थ्यः । तादृश एव परःसामारख्या अहर्विशेषाः सप्तदशस्तोमयुक्ताः कर्तव्याः। यानि त्रीण्युक्थ्यस्तोत्राणि तानि पशुप्तिहेतुत्वात्पशव एव। तस्मादुक्थ्यानुष्ठानं पशुप्तये भवति । उभयपार्श्ववर्तिभ्यः परःसामारव्येभ्योऽहर्विशेषेभ्यः पुरस्तादु- परिष्टाच्च द्वे अहनी विधत्ते- वि॒श्व॒जि॒द॒भि॒जिता॑व॒ग्नि॒ष्टोमौ॒, इति ।

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १) · पृष्ठ 112, कुल 345 में से · BharatKosha