तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 111, कुल 345 में से
संदर्भ में पढ़ें(१.२.२) तैत्तिरीयब्राह्मणम् आगोऽरणी प्रगृह्णाति ऋत्विग्द्वाभ्यां तु मन्त्रणम् । अनु वाचं नियम्याथ शल्कै रात्रौ समिध्यते ।। ७ ।। जात द्वाभ्यां प्रातरग्नावरणी निष्पेत्तथा । अपेति स्थानमुद्धन्यादग्नेस्तु सिकता वपेत् ।। ८ ।। सं वो द्वाभ्यां तु संभारान्वानस्पत्यान्संसृजेत् । ऋग्द्वाभ्यामग्न्युपस्थानं दिवस्त्वापोश्वमानलम् ।। ९ ।। आधातेजीजनन्नाग्निमञ्जलौ धारयेत्तृजाः । जातं प्राणित्यहं पूर्वानिलाधानेऽभिमन्त्रयेत् ।। १० ।। प्राणे त्वा पश्चिमाधा नं सुगार्हेत्यभिमन्त्रणम् । इमाः प्राञ्चोऽभियान्त्योजस्त्रिभिरुद्यम्यतेऽनलः ।। ११ ।। प्राची त्रिभिः पूर्वयानं यदि वह्न्यभिमन्त्रणम् । प्राणं द्वाभ्या पूर्ववह्नेस्स्थानं ह्यनुमन्त्रयेत् ।। १२ ।। उपस्थितिर्नयं पञ्च चतुर्वेदिं समीक्षते । इह गन्तुरुपस्थानं पञ्च सर्वाग्निमन्त्रणम् ।। अत्राऽऽधानगता मन्त्रा द्वासप्ततिरुदीरिताः ।। १३ ।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे द्वितीयप्रपाठके प्रथमोऽनुवाकः ।। १ ।। अथ द्वितीयप्रपाठके द्वितीयोऽनुवाकः । प्रथमेऽनुवाक आधानमन्त्रा उक्ताः । तावताऽऽ धानं समाप्तम् । अथ पञ्चस्वनुवाकेषु गवामयने केचिद्विशेषा उच्यन्ते । तत्रास्मिन्ननुवाके विषुवन्नामकं मुख्यमहः । तदुभयपार्श्ववर्त्तीनि चत्वार्यहान्युच्यन्ते । तदेतद्विधत्ते - नवै॒तान्यहा॑नि भवन्ति । नव॒ वै सु॑व॒र्गा लो॒काः । यदे॒तान्यहा॑न्यु॒पयन्ति॑ । नव॑स्वे॒व तत्सु॑व॒र्गेषु॑ लो॒केषु॑ स॒त्रिणः॑ प्र॒तिति॑ष्ठन्तो यन्ति, इति । षष्ठे मासि षड्विंशतिसंख्याकेष्वहस्सु गतेष्ववशिष्टानि चत्वार्यहानि तत ऊर्ध्वं विषुवन्नामकमेकं मुख्यमहः । ततोऽप्यूर्ध्वमुत्तर- मासषट्कस्याऽऽदौ चत्वार्यहानीत्येवमेतानि नवसंख्याकान्य-