तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 119, कुल 345 में से
संदर्भ में पढ़ें९० (१.२.४) तैत्तिरीयब्राह्मणम् तावु॒भौ स॒ह म॑हाव्र॒ते गृ॑ह्येते । य॒ज्ञस्यै॒वान्तं॑ ग॒त्वा । उ॒भयो॑र्लोकयो॒: प्रति॑तिष्ठन्ति, इति । महाव्रतदिवसो यज्ञस्यान्तः । परेद्युरेव सत्रसमाप्तेस्तत्र ग्रहणे सति यज्ञसमाप्तौ लोकद्वये प्रतिष्ठा भवति । सोऽयं ग्रहग्रहणप्रकारः सूत्रे स्पष्टमभिहितः- “तानूर्ध्वानिवृत्तांश्च तेषां मध्ये सौर्य उदुत्यं जातवेदसमित्येतस्मिन्नेवाहनि वैश्वकर्मणमतिग्राह्याणामष्टमं गृह्णाति वाचस्पतिं विश्वकर्माणमिति । श्वोभूत आदित्यं महीमूषुमातरमिति तावेवमेव व्यत्यासं गृह्णात्यामहाव्रतात्तौ सह महाव्रत” इति । अथ विषुवति शस्त्रविशेषं विधत्ते- अ॒र्क्य॑मु॒क्थं भ॑वति । अन्ना॒द्यस्याव॑रुद्ध्यै, (४) इति । स॒मा॒यच्छ॑त्यतिग्रा॒ह्या गृ॒ह्यते॑ गृह्य॒ते सं॑वत्स॒रस्या॒न्योऽन्यो गृ॒ह्येते॑ प॒ञ्च च । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके द्वितीयाध्याये तृतीयः प्रपाठ(योऽनुवा)कः ॥ ३ ॥ अर्चनीयो देवोऽर्कस्तत्संबद्धमुक्थं शस्त्रमर्क्यं तच्छंसनीयम् । “अर्को वै देवानामन्नम्” इति श्रुत्यन्तरादन्नप्राप्तिर्युक्ता । इति श्रुत्यन्तरादन्नप्राप्तिर्युक्ता । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे द्वितीयप्रपाठके तृतीयोऽनुवाकः ॥ ३ ॥ अथ द्वितीय प्रपाठके चतुर्थोऽनुवाकः । तृतीयेऽनुवाके विषुवद्दिनेऽतिग्राह्यविशेषाः उक्ताः । अथ चतुर्थे तस्मिन्नेव दिने दिवाकीर्त्यनामानि सामान्युच्यन्ते । यद्विहितं पूर्वानुवाक एकविंशमहर्भवतीति तदिह तावदादौ प्रशंसति- ए॒क॒वि॒ꣳ॒श ए॒ष भ॑वति । ए॒तेन॒ वै दे॒वा एक॑वि॒ꣳ॒शेन॑ । आ॒दि॒त्यामि॑त ऊ॒र्ध्वꣳ सु॑व॒र्गं लो॒कमरो॑हयन् । स वा ए॒ष