तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 120, कुल 345 में से
संदर्भ में पढ़ेंइत॒ एक॑वि॒ꣳ॒शः । तस्य॒ दशा॒वस्ता॒दहा॑नि । दश परस्ता॑त् । स वा ए॒ष वि॒राज्युभयतः॒ प्रति॑ष्ठितः । वि॒राट्झि॒ हि वा ए॒ष उ॒भयतः॒ प्रति॑ष्ठितः । तस्मा॑दन्त॒रेमौ यन् । सर्वे॑षु सुव॒र्गेषु॑ लो॒केष्व॒भित॑पन्नेति (१), इति । एष विषुवानेकविंशस्तोमको भवति । एतेनैकविंशस्तोमेन पुरा देवा इतो भूलोकादुत्कृष्टतमं स्वर्गलोकं प्रत्यादित्यमारोहयन् । न केवलमेकविंशस्तोमयोगेनाह्न एकविंशत्वम् । किंत्वितोऽपि कारणात्स एष विषुवानेकविंशः। किं तत्कारणमिति तदुच्यते । तस्य ऽधोभागेऽभिप्लवषडहव्यतिरिक्तानि दशाहानि विद्यन्ते । तद्यथा-पृष्ठ्यः षडहः, अभिजिदेकाहः त्रयः परः सामानोऽ हविर्शेषाः, इत्येवं दशाहानि । तथा विषुवत ऊर्ध्वमपि । तथा हि- आवृत्त्या त्रयः परःसामानः, अभिजिदेकाहः पृष्ठ्यः षडहः, इत्येवं दशाहानि । सोऽयं विषुवानुभयतो दशसंख्यायुक्तत्वेन विराड्रूपेऽहः संघे प्रतिष्ठितः। यस्मादेष विषुवानुभयतो विराजि प्रतिष्ठितस्तस्मादेतदीयेनैकविंशेन स्वर्गमारूढ आदित्योऽप्युभयतोऽस्मिन्संधरारूपे विराजि प्रतिष्ठितः । अधस्तात्पञ्च शतानि रश्मयः । उपरिष्टात्पञ्च शतानि । यद्वा प्रधानभूता रश्मयोऽधस्ताद्दशोपरिष्टाद्दश । तस्माद्विराजि प्रतिष्ठितत्वादन- योर्लोकयोर्मध्ये संचरन्नादित्य ऊर्ध्वस्थितेषु द्युलोकादिषु स्वर्गेष्वधःस्थितेषु भौमेषु पातालवर्तिषु च स्वर्गेषु स्वकीय- रश्मिभिरभितपन्संचरति । एवमादित्यसदृशत्वादयं विषुवान्प्रशस्तः । अथ विषुवति दिवाकीर्त्यसामानि विधत्ते- दे॒वा वा आ॑दि॒त्यस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ । परा॑चोऽ- तिपा॒दाद॑बिभयुः । तं छन्दो॑भिरदृ॒ꣳ॒हन्दृ॒त्यै॑ । दे॒वा वा आ॒दि॒त्यस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ । अवा॑चोऽवपा॒दाद॑बिभयुः । तं प॒ञ्चभी॑ र॒श्मिभि॑रुद॑वयन् । तस्मा॑देकवि॒ꣳ॒शेऽह॒न्पञ्च॑ दिवाकी॒र्त्या॑नि क्रियन्ते । र॒श्मयो॒ वै दि॑वाकी॒र्त्या॑नि, इति । स्वर्गलोकंगतो योऽयमादित्यस्तस्य पराचोऽ तिपादात्पुनरावृत्तिरहितादूर्ध्वभाविनोऽतिगमनाद्देवा भीता आदित्यो निरवधिकमूर्ध्वं गच्छति न तु स्वर्गे स्थास्यतीति भीतास्तत्परिहाराय