भारतकोश
संग्रह पर लौटें

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

इत॒ एक॑वि॒ꣳ॒शः । तस्य॒ दशा॒वस्ता॒दहा॑नि । दश परस्ता॑त् । स वा ए॒ष वि॒राज्युभयतः॒ प्रति॑ष्ठितः । वि॒राट्झि॒ हि वा ए॒ष उ॒भयतः॒ प्रति॑ष्ठितः । तस्मा॑दन्त॒रेमौ यन् । सर्वे॑षु सुव॒र्गेषु॑ लो॒केष्व॒भित॑पन्नेति (१), इति । एष विषुवानेकविंशस्तोमको भवति । एतेनैकविंशस्तोमेन पुरा देवा इतो भूलोकादुत्कृष्टतमं स्वर्गलोकं प्रत्यादित्यमारोहयन् । न केवलमेकविंशस्तोमयोगेनाह्न एकविंशत्वम् । किंत्वितोऽपि कारणात्स एष विषुवानेकविंशः। किं तत्कारणमिति तदुच्यते । तस्य ऽधोभागेऽभिप्लवषडहव्यतिरिक्तानि दशाहानि विद्यन्ते । तद्यथा-पृष्ठ्यः षडहः, अभिजिदेकाहः त्रयः परः सामानोऽ हविर्शेषाः, इत्येवं दशाहानि । तथा विषुवत ऊर्ध्वमपि । तथा हि- आवृत्त्या त्रयः परःसामानः, अभिजिदेकाहः पृष्ठ्यः षडहः, इत्येवं दशाहानि । सोऽयं विषुवानुभयतो दशसंख्यायुक्तत्वेन विराड्रूपेऽहः संघे प्रतिष्ठितः। यस्मादेष विषुवानुभयतो विराजि प्रतिष्ठितस्तस्मादेतदीयेनैकविंशेन स्वर्गमारूढ आदित्योऽप्युभयतोऽस्मिन्संधरारूपे विराजि प्रतिष्ठितः । अधस्तात्पञ्च शतानि रश्मयः । उपरिष्टात्पञ्च शतानि । यद्वा प्रधानभूता रश्मयोऽधस्ताद्दशोपरिष्टाद्दश । तस्माद्विराजि प्रतिष्ठितत्वादन- योर्लोकयोर्मध्ये संचरन्नादित्य ऊर्ध्वस्थितेषु द्युलोकादिषु स्वर्गेष्वधःस्थितेषु भौमेषु पातालवर्तिषु च स्वर्गेषु स्वकीय- रश्मिभिरभितपन्संचरति । एवमादित्यसदृशत्वादयं विषुवान्प्रशस्तः । अथ विषुवति दिवाकीर्त्यसामानि विधत्ते- दे॒वा वा आ॑दि॒त्यस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ । परा॑चोऽ- तिपा॒दाद॑बिभयुः । तं छन्दो॑भिरदृ॒ꣳ॒हन्दृ॒त्यै॑ । दे॒वा वा आ॒दि॒त्यस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ । अवा॑चोऽवपा॒दाद॑बिभयुः । तं प॒ञ्चभी॑ र॒श्मिभि॑रुद॑वयन् । तस्मा॑देकवि॒ꣳ॒शेऽह॒न्पञ्च॑ दिवाकी॒र्त्या॑नि क्रियन्ते । र॒श्मयो॒ वै दि॑वाकी॒र्त्या॑नि, इति । स्वर्गलोकंगतो योऽयमादित्यस्तस्य पराचोऽ तिपादात्पुनरावृत्तिरहितादूर्ध्वभाविनोऽतिगमनाद्देवा भीता आदित्यो निरवधिकमूर्ध्वं गच्छति न तु स्वर्गे स्थास्यतीति भीतास्तत्परिहाराय

९२ (१.२.४) तैत्तिरीयब्राह्मणम् तमादित्यं सवनगतैर्गायत्र्यादिभिश्चन्दोभिर्दृढंस्तभितवन्तः । रज्जुभिर्बद्धमिवाकुर्वन् । तस्माद्धृत्यै छन्दांसि भवन्ति । ततो देवा आदित्यस्यांवाचोऽवपादादधःपतनादबिभयुः । तत्परिहाराय पञ्चमी रश्मिभिरादित्यमुदवयन्नूर्ध्वमुत्तम्भितवन्तः । तस्मादेकविंशे विषुवत्यह्नि दिवाकीर्त्यनामकानि पञ्च सामानि कर्तव्यानि । तानि च यथोक्तपञ्चरश्मिस्थानानि । अथ सामान्यतो विहितानि पञ्च सामानि विशेषाकारेण विधत्ते- ये गा॑य॒त्रे । ते गा॑यत्री॒षूत्तर॑योः॒ पव॑मानयोः (२) । म॒हादि॑वाकी॒र्त्य ँ होतृ॑ः पृ॒ष्ठम् । वि॒क॒र्णं ब्र॑ह्मसा॒म । भा॒सौऽग्नि॒ष्टोमः॑, इति । गायत्रीछन्दोयुक्ते प्रातः सवने दिवैव कीर्तनीय भ्राजभासाख्ये ये सामनी ते एवोत्तरयोर्माध्यंदिनार्भवपवमानयोर्गायत्रीछन्दस्कास्वृक्षु गातव्ये । महादिवाकीर्त्यनामकं यत्साम तद्धोतृसंबन्धिपृष्ठस्तोत्रं कार्यम् । तथा विकर्णनामकं यत्तद्ब्रह्मसाम कार्यम् । तदेतदुभयं चतुर्षु पृष्ठस्तोत्रेषु प्रथमतृतीययोः संपद्यते । भासाख्यं यत्सामाऽग्निष्टोमसाम कार्यम् । येनाग्निष्टोमः समाप्यते तदग्निष्टोमसाम । एवं विषुवति सामानि पुनरप्युभयतः स्थितानां परःसाम्नां स्तुतिः क्रियते- अथै॒तानि॒ परा॑णि । परै॒र्वे दे॒वा आ॑दि॒त्य ँ सु॑व॒र्गं लो॒कम॑पारयन् । यदपा॑रयन् । तत्परा॑णां प॒रत्वम् । पा॒रय॑न्त्येनं॒ परा॑णि । य ए॒वं वेद॑ । अथै॒तानि॒ स्परा॑णि । स्प॒रैर्वे दे॒वा आ॑दि॒त्य ँ सु॑व॒र्गं यदस्पा॑रयन् । तत्प (त्स्प) राणा ँ स्प॒रत्वम् । स्पा॒रय॑न्त्येन ँ स्परा॑णि । य ए॒वं वेद॑ (३), इति । ए॒ति॒ पव॑मानयोः॒ स्परा॑णि॒ पञ्च॑ च । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके द्वितीयाध्याये चतुर्थोऽनुवाकः ॥ ४ ॥

तैत्तिरीयब्राह्मणम् (१.२.५) ९३ पूर्वोक्तविधिव्यवच्छेदार्थोऽथशब्दः । एतानि पुरस्तादुपरिष्टाच्च कर्तव्यानि परःसामारख्यान्यहानि पराणि परशब्दाभिधेयानि । तत्कथमिति तदुच्यते । पुरा देवाः पराख्यैरैतैरहोभिरेवाऽऽदित्यं स्वर्गं लोकमपार- यन्प्रापितवन्तः। अतः पारयन्त्येभिरिति व्युत्पत्या परत्वं संपन्नम् । य एवं परत्वं जानाति तमेनं पुरुषं पराख्याण्यान्हान्यभीष्टफलसमाप्तिं प्रापयन्ति । अपि चैतानि स्पराब्देनाप्यभिधीयन्ते । स्पारयति प्रीणयत्येभिरिति स्परत्वम् । अन्यत्पूर्ववत् । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय तैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे द्वितीयप्रपाठके चतुर्थोऽनुवाकः ॥ ४ ॥ अथ द्वितीयप्रपाठके पञ्चमोऽनुवाकः । चतुर्थे दिवाकीर्त्यनामानि सामानि विहितानि । अथ पञ्चमे पशवोऽभिधीयन्ते । यदुक्तं सूत्रकारेण-“अथ पशुक्लृप्तिराग्नेयं प्रायणीय आलभन्ते श्वोभूते सारस्वतीं मेषीमेवं विहितानेकादशिनानन्वहमारभन्ते सौर्यं विषुवत्युपालभ्यं तेषामेवेपाकुर्वतां द्वादशाहीयस्य दशरात्रस्य सप्तदश उक्थ्यो द्वात्रिंशतमेकादशिन्यो प्रवृज्यन्ते नवाहान्यतिरिच्यन्ते तेषु गव्यानतिरिक्त पशूनालभन्ते वैष्णवं वामनमेकविँशमैन्द्राग्नं त्रिणवे वैश्वदेवं त्रयस्त्रिँशे द्यावापृथिव्यां धेनुं प्रथमे छन्दोमे तस्या एव वायव्यं वत्सं मध्यम आदित्यमविं वशामुत्तमे मैत्रावरुणीमविवाक्ये प्राजापत्यमृषभं तूपरं महाव्रतमाग्नेयमुदयनीयः” इति । तत्रोक्तान्वैष्णवान्विधातुं प्रस्तौति- अप्र॑तिष्ठां॒ वा ए॒ते ग॑च्छन्ति । येषा॑ᳵसंवत्स॒रेऽना॑प्तेऽथ॑ । एका॑द॒शि॒न्याप्य॑ते॒, इति॑ । येषां यजमानानामसमाप्ते संवत्सरसत्रे सति तत्समाप्तेः प्रागेव पश्वेकादशिनी समाप्यते ते यजमानाः संवत्सरसंपूर्तिपर्यन्तं पश्वभावादप्रतिष्ठां गच्छन्ति । “आग्नेयः कृष्णग्रीवः सारस्वती मेषी बभ्रुः सौम्यः” इत्याद्यनुवाके पञ्चमकाण्डगते पश्वेकादशिनी समाम्नाता । सेयं संवत्सरगतेषु दिनेषु प्रतिदिनमेकैकः पशुरित्येवं क्रमेण पुनः पुनरावर्तनीया । तथा सति द्विपञ्चाशदधिकशतत्रयसंख्याकेष्वहःसु द्वात्रिंशदेकादशिन्यः समाप्यन्ते । इत ऊर्ध्वं पुनरप्येकादशिनी

९४ (१.२.५) तैत्तिरीयब्राह्मणम् कर्तुमशक्या । नवामामेवाहानामवशिष्टत्वात्संवत्सरपूरणाय तावदष्टाहान्यवशिष्टानि । मध्ये विषुवत एकस्याह्नोऽधिकस्य प्रविष्टत्वादत्र नवाहावशेषः । तेषु नवसु पशुभावेन येयमप्रतिष्ठा प्राप्ता तां वारयितुं क्रमेण नव पशून्वैष्णवादीन्विधत्ते- वै॒ष्ण॒वं वा॑म॒नमाल॑भन्ते । य॒ज्ञो वै विष्णु॑:। य॒ज्ञमे॒वाऽ ल॑भन्ते॒ प्रति॑ष्ठित्यै ऐन्द्रा॒ग्नमाल॑भन्ते । इ॒न्द्रा॒ग्नी वै दे॒वाना॒मया॑तयामानौ । ये ए॒व दे॒वते॒ अया॑तयाम्नी । ते ए॒वाऽऽल॑भन्ते (१) । वै॒श्व॒दे॒वमाल॑भन्ते । दे॒वता॑ ए॒वाव॑रुन्धते । द्या॒वा॒पृ॒थि॒व्यां धे॒नुमाल॑भन्ते । द्यावा॑पृथि॒व्योरे॒व प्रति॑तिष्ठन्ति । वा॒य॒व्यं॑ व॒त्समाल॑भन्ते । वा॒युरे॒वैभ्यो॒ यथा॑ऽऽय॒तना॑द्दे॒वता॒ अवरुन्धे । आ॒दि॒त्याम॑तिं व॒शामाल॑भन्ते । इ॒यं वा अदि॑तिः । अ॒स्यामे॒व प्रति॑तिष्ठन्ति । मै॒त्रा॒व॒रू॒णीमाल॑भन्ते (२) । मि॒त्रेणै॒व य॒ज्ञस्य॑ स्वि॑ष्ट ँ शमयन्ति । वरु॑णेन दु॒रिष्ट॑म् । प्रा॒जा॒प॒त्यं तूप॑रं म॑हाव्र॒त आल॑भन्ते । प्रा॒जा॒प॒त्यो॑ऽतिग्रा॒ह्यो॑ गृह्यते । अह॑रे॒व रू॒पेण॒ समर्ध॑यन्ति । अथो॒ अह॑ ए॒वैष ब॒लिर्ह्री॑यते । आ॒ग्ने॒यमाल॑भन्ते प्रति॒प्रज्ञा॑त्यै, इति । प्राजापत्याभ्यां पश्वतिग्राह्याभ्यां महाव्रताख्यमहः प्रजापतिसंबन्धात्स्वानुकूलेन रूपेण समृद्धं भवति । अपि च प्रजापतिसंबंधोऽस्याह्नोऽस्तीतीत्येवं पूजा च संपद्यते । आग्नेयेन च पशुनाऽग्निप्रकाशवद् बुद्धिप्रकाशरूपं प्रज्ञानं संपद्यते । स्पष्टमन्यत् । तानेतान्पशून्देवताद्वारा प्रत्येकं प्रशस्य जातिद्वारा पुनः प्रशंसति- अ॒ज॒पे॒त्वा॒न्वा ए॒ते पूर्वै॒र्मासै॒र्वरु॑न्धते । यदे॒ते ग॒व्याः प॒शव॑ आल॒भ्यन्तै॑ । उ॒भये॑षां प॒शूना॒मव॑रुद्ध्यै, इति । आग्नेयः कृष्णग्रीव इत्यादिकाः सर्वेऽप्यजास्तेष्वन्तिमः पेत्वो

तैत्तिरीयब्राह्मणम् (१.२.६) ९५ गालितवृषणः । अजाश्च पेत्वाश्चाजपेत्वास्तानजपेत्वानेव पशून्पूर्वमासैरेते यजमानाः प्राप्नुवन्ति । इदानीं विधीयमानपशुयुक्तदिनेभ्यः पूर्वेषु मासेषु तादृशानामेव पशूनामालब्धत्वादेतेषु तु विधीयमानेषु पशुषु धेन्वादयो गव्याः सन्ति । तदालम्भने पशूनामुभयेषां पूर्वमालब्धा- नामजानामिदानीमालभ्यमानानां गव्यानां च प्राप्तिर्भवति । पुनरपि व्यतिरेकमुखेन तानेव पशून्प्रशंसति- यद॑तिरि॒क्तामेका॑द॒शिनी॒माल॑भेरन् । अप्रि॑यं भ्रातृ॑व्य॒म॒भ्य॑तिरिच्येत । यद् द्वौद्वौ॑ प॒शू स॒मस्ये॑युः कनी॑य॒ आयुः॑ कुर्वीरन् । यदे॒त ब्रा॑ह्म॒ण वन्त॑: प॒शव॑ आ॒लभ्य॑न्ते । नाप्रि॑यं भ्रातृ॑व्य॒म॒भ्य॑ति॒रिच्य॑ते । न कनी॑य॒ आयु॑: कुर्वते (३) , इति । ते ए॒वाऽऽल॑भन्ते मैत्रावरु॒णीमाल॑भन्ते॒ऽवरु॑द्ध्यै स॒प्त च॑ । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके द्वितीयाध्याये पञ्चमोऽनुवाकः ॥ ५ ॥ अतिविशिष्टेष्वपि दिनेष्वेकादशिन्येवाऽऽलब्धव्येति दुराग्रहाद्यो मन्यते स प्रष्टव्यः किं वत्सरादूर्ध्वदिनद्वयेनातिरिक्ता सेयमेकादशिन्यालब्धव्या किंवा चरमयोर्दिनद्वयोर्द्वौ द्वौ पशू समस्याऽऽ लब्धव्याविति । नाऽऽद्यः । दिनातिरेके सत्यप्रियस्य भ्रातृव्यस्याभिवृद्धिप्रसङ्गात् । न द्वितीयः । एकादशिन्या दिनसंपूर्णा (र्त्य) · भावेनाऽऽयुःक्षयप्रसङ्गात् । अतो दोषद्वयपरिहारायानेन ब्राह्मणेनोक्ताः पशव आलम्भनीयाः । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे द्वितीयप्रपाठके पञ्चमोऽनुवाकः ॥ ५ ॥ अथ द्वितीयप्रपाठके षष्ठोऽनुवाकः । पञ्चमे वैष्णवाद्या नव पशवोऽभिहिताः । अथ षष्ठे महाव्रतमुच्यते तत्राऽऽदौ तच्छब्दनिरुक्तिद्वारेण प्रशंसति- प्र॒जाप॑तिः प्र॒जाः सृ॒ष्ट्वा वृ॑त्तोऽशयत । तं दे॒वा भू॒तानां॒ रसँ॑ तेज॑: सं॒भृत्य॑ । तेनै॑नमभिषज्यन् । म॒हान्वृ॒वती॑ति॑ ।

९६ (१.२.६) तैत्तिरीयब्राह्मणम् तन्म॒हाव्र॒तस्य॑ महाव्रत॒त्वम् । म॒हद् व्र॒तमिति॑ । तन्म॒हाव्र॒तस्य॑ महाव्रत॒त्वम् । म॒हतो॒ व्रतमिति॑ । तन्म॒हाव्र॒तस्य॑ महाव्रत॒त्वम्, इति । प्रजासृष्टिव्यापारेण श्रान्तः प्रजापतिर्यदा शयनं कृतवांस्तदा देवाः सर्वेषां भूतानां सारभूतं तेजः संपाद्य तेन तेजसा तमेनं श्रान्तं प्रजापतिं चिकित्सितवन्तः । ततोऽयं प्रजापतिर्महान्भूदित्युक्तवन्तः । यदिदं रसरूपं तेजस्तदिदं महाव्रताख्ये विद्यमानं हविः । तथा सति महानववर्तिष्ठानेन कर्मणेति व्युत्पत्या तस्य कर्मणो महाव्रतनाम संपन्नम् । यद्वा कर्मणोऽस्य महाफलहेतुत्वेन महत्वान्महच्चतद् व्रतमिति तद् व्युत्पत्तिः । अथवा महतः प्रजापतेरौषधरूपत्वान्महतो व्रतमिति व्युत्पत्तिः । तस्मिन्महाव्रताख्येऽह्नि प्रधानभूतस्तोमं विधत्ते- प॒ञ्च॒विँ॒शः स्तोमो॑ भवति (१) । च॒तुर्विंशत्यर्धमासः॒ सं॑वत्स॒रः । यद्वा ए॒तस्मि॑न्त्सवंत्सरेऽधि॒प्रजा॑यत । तदन्नं॑ पञ्चवि॒ ँशम॑भवत्, इति । एकस्मिन्सूक्ते विद्यमानानां तिसृणामृचामावृत्तिविशेषेण संपाद्यः पञ्चविंशतिसंख्यायुक्तः स्तोमः कर्तव्यः। तत्र चतुर्विंशतिसंख्यायाऽर्धमासद्वारेण संवत्सरसंपत्तिः। यच्चैतस्मिन्संवत्सरे- ऽधिकमन्नमुत्पन्नं तत्पञ्चविंशतिसंख्यापूरकमभवत् । एवं प्रशस्तेन पञ्चविंशतिस्तोमेन युक्तस्याह्नः स्थानविशेषं विधत्ते- म॒ध्य॒तः क्रि॑यते । म॒ध्य॒तो ह्यन्न॑मशि॒तं धि॒नोति॑ । अथो॑ मध्य॑त ए॒व प्र॒जाना॒मूर्ध॑ध्रियते, इति । संवत्सरस्य समाप्तिहेतोरतिरात्ररूपादन्तिमादह्नः पूर्वभावित्वेन संवत्सरमध्ये तदनुष्ठानम् । लोकेऽपि यदन्नमशितं सन्नात्यधिकं नात्यल्पं भवति तदेव मध्यमप्रमाणयुक्तं भोक्तारं प्रीणयति । अति च भुक्तोरसः शरीरमध्य एव स्थाप्यते । तस्मात्संवत्सरमध्येऽनुष्ठानं प्रशस्तम् । तस्मिन्नपि मध्ये पुनर्विशेषेण स्थापनं विधत्ते- अथ॒ यद्वा इ॒दम॑न्त॒तः क्रि॒यतै॑ । तस्मा॑दु॒दन्ते॑ प्र॒जाः समै॑धन्ते । अ॒न्त॒तः क्रि॑यते प्र॒जन॑नायै॒व, इति॑ ।

तैत्तिरीयब्राह्मणम् (१.२.६) ९७ अन्तिमादतिरात्रात्पूर्वश्वःसु योऽन्तः संवत्सरस्योपान्तरूपो देशस्तत्रैतदहः कर्तव्यम् । यद्यस्मादिदमेव महाव्रतमन्ते क्रियते तस्माल्लोकेषूत्कृष्टस्य कृष्यादिव्यापारस्यान्ते फलदशायां प्रजाः सम्यग्वर्धन्ते । तस्मात्प्रजावृद्ध्यर्थमितरेषामह्नामन्त एवैतत्कर्तव्यम् । अस्याह्नः पक्षिरूपत्वं परिकल्प्य तदवयवरूपेण स्तोमं विधत्ते- त्रि॒वृच्छिरो॑ भवति (२)। त्रे॒धा विहि॑तं॒ हि शिर॑: । लोम॑ छ॒वीरस्थि॑, इति । ऋक्त्रयात्मकमेकं सूक्तं तादृशानि त्रीणि सूक्तानि त्रिवृतोऽवयवा यस्य स्तोमस्य सोऽयं स्तोमस्त्रिवृत् । स च पक्ष्याकारस्य शिरः स्थानीयः । लोकेऽपि शिरस्त्रिधा निर्मितम् । लोम केशः । छवीस्त्वक् । अस्थि प्रसिद्धम् । तदिदं शिरसस्त्रैविध्यम् । तस्य त्रिवृत्स्तोमस्य पञ्चदशादिस्तोमवदावृत्तगानशङ्कां वारयितुमूर्ध्वगानं विधत्ते- परा॑चा स्तुवन्ति । तस्मा॑त्स॒दृगे॒व । न मेद्य॑तो॒ऽनुमेद्यति॑ । न कृ॒श्य॒तोऽनु॑ कृश्यति, इति । आवृत्तिराहित्यं पराक्त्वं तादृशेन त्रिवृता स्तुतिं कुर्युः। यस्माच्छिरःस्थानीयस्य त्रिवृत आवृत्तिर्नास्ति तस्माल्लोकेऽपि त्रिवृत्स्थानीयं तच्छिर एक रूपमेव मेद्यतः स्थौल्यं गच्छतः शरीरस्यापि संबन्धि भूत्वा स्वयं न मेद्यति न स्थूली भवति । तथा कृश्यतः कृशीभवतः शरीरस्य संबन्धि भूत्वा स्वयं न कृशी भवति । अथ पक्षद्वयस्थानीयं स्तोमद्वयं विधत्ते- प॒ञ्च॒द॒शौऽन्यः प॒क्षो भ॑वति । स॒प्त॒द॒शौऽन्यः॑ । तस्मा॑द्वया॑ '५ स्यन्यत॑र॒मर्ध॑म॒भिप॒र्याव॑र्तन्तै । अ॒न्य॒त॒रतो॒ हि तद्गरीयः क्रियते॑ (३), इति । यस्मांद्रान्तरत एकस्मिन्पक्षरूपे सप्तदशाख्ये स्तोमे तत्स्तोत्रं गरीयोऽधिकावृत्तिरूपम् । यस्माल्लोकेऽपि पक्षिण आकाशे गच्छन्तः पर्यावर्तमाना दक्षिणं वामं वाऽन्यतरमर्धमभिलक्ष्य प्रवृद्धमिव कृत्वा पर्यावर्तन्ते ।

९८ (१.२.६) तैत्तिरीयब्राह्मणम् योऽयं पूर्वत्र विहितः पञ्चविंशः स्तोमो भवतीति तं मध्यशरीरत्वकल्पनया प्रशंसति- प॒ञ्च॒वि॒ꣳ॒श आ॒त्मा भ॑वति । तस्मा॑न्मध्य॒तः प॒शवो॒ वरि॑ष्ठाः, इति । आत्मा पक्ष्याकारस्य महाव्रतस्य मध्यशरीरम् । तस्मादयं पञ्चविंशस्तोम इतरेभ्यस्त्रिवृदादिस्तोमेभ्यो भूयांस्तस्मात्पशवो मध्यशरीरभागे वरिष्ठाः स्थौल्ययुक्ता दृश्यन्ते । अथ पुच्छस्थानीयं स्तोमन्तरं विधत्ते- ए॒क॒वि॒ꣳ॒शं पु॒च्छम् । द्वि॒पदा॑सु स्तुवन्ति॒ प्रति॑ष्ठित्यै, इति । योऽयमेकविंशस्त्र्यावृत्तिरूपः स्तोमस्तत्पक्षिरूपस्य महाव्रतस्य पुच्छम् । तंचित्स्तोमं द्विपदास्वृक्षु स्तुवन्ति । पादद्वयेन हि मनुष्याः प्रतितिष्ठन्ति । त्रिवृदादिस्तोमानामृतविजां च समुच्चयं विधत्ते- सर्वे॑ण स॒ह स्तु॑वन्ति । सर्वे॑ण॒ ह्यात्मना॑ऽऽत्म॒न्वी । स॒होत्प॑तन्ति, इति । योऽयं त्रिवृदादिकः पञ्चविंशान्तः स्तोमसंघस्तेन सर्वेणापि स्तुतिं कुर्यु ऋत्विजश्च सर्वे सहैव स्तुतिं कुर्युः । यस्माल्लोके सर्वेणाऽऽत्मना कृत्स्नेनावयववर्गसंघेन पक्षपुच्छादिना पतङ्ग आत्मन्यवयवी भवति न त्वेकेकेनावयवेन । तस्मादत्रापि सर्वे स्तोमाः यस्माच्च लोके सर्वे पक्षिणः सहोत्पतन्ति तस्मादत्र सर्वेऽप्यृत्विजः सहैव स्तुतिं कुर्युः । अत एव च्छन्दोगा आमनन्ति- “सर्वे सहर्त्विजो महाव्रतेन स्तुवीरन् । अध्वर्युशिरसोद्गायेत्” इत्यादिना । तत्र कंचिद्विशेषं विधत्ते- एकै॑कामुच्छि॑षन्ति । आ॒त्मन्ह्यङ्गा॑नि ब॒द्धानि॑, इति । अध्वर्युप्रभृतयः स्वस्वस्तोत्रेण गानं कुर्वन्तः स्वकीयामन्तिमां स्तोत्रीयामुच्छिषेयुः, न तु तया स्तुतिं कुर्युः । यतो लोके कस्मिंश्चिदात्मन्मध्यशरीरे सर्वाण्यवयवान्तराणि बद्धानि भवन्त्यतोऽत्रापि मध्यशरीरस्थानीयायामेकैकस्यां स्तोत्रीयायामवशेषितायामङ्गान्तराणि तत्राऽऽ पादयितुं शक्यानि । अन्यथा निराधाराण्यङ्गानि स्युः । तां च तत्र तत्रावशिष्टां स्तोत्रीयामुद्गाता गायेत् । अत एव च्छन्दोगैराम्नायते-“एवं

तैत्तिरीयब्राह्मणम् (१.२.६) ९९ कु॒र्यु॒रेकै॑कया स्तोत्री॑ययाऽ स्तु॒तयोद्गा॒तार॑म॒भिसमे॑युः” इत्यादिना । संहितायामप्यस्तुतायां गानमुद्गातृराम्नायते-“एकैकयाऽ स्तुतया समायन्ति दिग्भ्य एवान्नाद्य ँसंभरन्ति ताभिरुद्गातोद्गायनि दिग्भ्य एवान्नाद्यं संभृत्य तेज आत्मन्धत्ते ” इति । अथ हर्षहेतुव्यापारविशेषान्विधत्ते- न वा ए॒तेन॒ सर्वः॒ पुरु॑षः (४) । यदि॑त इ॒तो लोमा॑नि द॒तो न॒खान् . प॒रिमा॒र्दः क्रि॑यन्ते । ता॒न्येव तेन॒ प्रत्यु॑प्यन्ते, इति । इयत्पूर्वमुक्तमेकैकस्तोत्रीयोच्छेषणेन सर्वाण्यङ्गानिस्वात्मनि बद्धानि भवन्तीति । तत्रायं पुरुषो लोमानीतः प्राप्तवान् । दतो दन्तानितः प्राप्तवान् । नखानितः प्राप्तवानिति । यदेतेन लोमदन्तादिप्राप्तिमात्रेण पुरुषः सर्वो नैव भवति । पुरुषस्य भोगसंपूर्णत्वं नास्ति । अतो भोगः परिपूर्यते । परिमादः परितो हर्षहेतवो विनोदव्यापाराः कर्तव्याः । तैर्व्यापारैस्तान्यङ्गानि भोगपरिपूर्णानि प्रत्युप्यन्ते स्थाप्यन्ते । सामान्यतो व्यापारविशेषा उक्ताः । अथ विशेषाकारेणैकं विधत्ते- औदु॑म्बर॒स्तल्पो॑ भवति । ऊर्जा अन्न॑मुदु॒म्बरः॑ । ऊर्ज॒ ए॒वान्नाद्य॒स्याव॑रुद्ध्यै, इति । आसंदी चौदुम्बरी कार्या । उदुम्बरस्यान्नरस- रूपत्वात्तत्प्राप्तिर्भवति । एतच्च संहितायामप्याम्नातम्- “आसन्दीमुद्गा- ताऽऽरोहति साम्राज्यमेव गच्छति” इति । अथ तल्पे कर्तव्यं विधत्ते- यस्य॑ तल्प॒सद्य॒मन॑भिजित् ँस्यात् । स दे॒वाना॒ ँसाम्य॑क्षे । तल्प॒सद्य॑म॒भिज॑या॒नीति॑ तल्प॑मा॒रुह्योद्गा॑येत् । तल्प॒सद्य॑मे॒वाभि॒जय॑ति (५) । यस्य॑ तल्प॒सद्य॑म॒भिजित् ँ स्यात् । स दे॒वाना॒ ँसाम्य॑क्षे । तल्प॒सद्यं॒ मा परा॑जेषी॒दि॑ तल्प॑मा॒रुह्योद्गा॑येत् । न तल्प॒सद्यं॒ परा॑जयते, इति । तल्पे मञ्चके सद्यं सदनमुपवेशनं तल्पसद्यम् । यद्युद्गातापूर्वं दरिद्रः स्यात्तदा राजादियोग्येतल्पे ऽवस्थानं न प्राप्तं तादृशमुद्गाता यज्ञभूमौ देवानां समक्षे देशेऽवस्थाय तल्पेत्यादिमन्त्रं गायेत् । तस्यायमर्थः ।

द्वितीयोऽध्यायः ॥ २ ॥

१०० (१.२.६) तैत्तिरीयब्राह्मणम् धनिको भूत्वा तल्पेऽवस्थानं सर्वदा प्राप्तवानिति । स च तथैव प्राप्नोति । यद्युद्गाता पूर्वं धनिको भूत्वा तल्पावस्थानं प्राप्तवांस्तदानीमिमं मन्त्रं पठेत् । तस्य चायमर्थः । इदं तल्पावस्थानं कदाचिदपि मा पराजेष्यस्मिन्विषये मम पराजयो मा भूत् । कदाचिदपि मदीयं धनिकत्वं मा विनश्यत्विति । अथ होतृदोला विधत्ते- प्रेङ्खे॒ शँ ꣳ॒ सति॑ । महो॒ वै प्रेङ्खः॑ । मह॑स ए॒वान्नाद्य॒स्याव॑रुद्ध्यै, इति । महस्तेजो दोलायास्तेजोहेतुत्वान्महस्त्वम् । अतस्तत्तेजसोऽन्नस्य च प्राप्तये भवति । अथ व्यापारान्तरं विधत्ते- दे॒वा॒सु॒राः संय॑त्ता आसन् । त आ॑दि॒त्ये व्याय॑च्छन्त । तं दे॒वाः सम॑जयन् (६) । ब्रा॒ह्म॒णश्च॑ शू॒द्रश्च॑ चर्मक॒र्ते व्याय॑च्छेते । दैव्यो॒ वै वर्णो ब्रा॑ह्म॒णः । असु॑र्यः॒ शूद्रः॑ । इ॒मैऽरात्सुरि॒मे सु॑भू॒तम॑क्र॒न्नित्य॑न्यत॒रो ब्रू॑यात् । इ॒म उ॑द्वासीका॒रिण॑ इ॒मे दुर्भू॒तम॑क्र॒न्नित्य॑न्त॒रः । यदे॒वैषां॒ सुकृ॑तं या रा॒द्धिः । तद॑न्यत॒रोऽभि॒श्रीणा॑ति । यदे॒वैषां॑ दुष्कृ॒तं या रा॒द्धिः । तद॑न्यत॒रोऽप॑हन्ति । ब्रा॒ह्म॒णः संज॑यति । अ॒मुमे॒वाऽऽदि॒त्यं भ्रातृ॑व्यस्य॒ संवि॑न्दन्ते (७), इति । भ॒व॒ति॒ भ॒वि॒त् क्रि॒यं॒तं पु॒रु॑षं ज॒य॒त्य॒ज॒य॒ञ्ज॒य॒त्ये॒कं॑ च॒ । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके द्वितीयाध्याये षष्ठोऽनुवाकः ॥ ६ ॥ उद्ग॑च्छन्॒यन्मा॑नं नवैतानि॒ सन्त॑ति॒रेक॑वि ꣳ॒शं ए॒षोऽप्र॑तिष्ठां प्र॒जाप॑ति॒र्वृतः॑ षट् । उद्ग॑न्॒यन्मां॒ 'शौचि॑ष्के॒शोऽग्न॑ स॒प्लौ नति॑ग्रा॒ह्या वै॑श्वदे॒वमाल॑भन्ते पञ्चाश॑त् । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके द्वितीयोऽध्यायः ॥ २ ॥

ब्राह्मणः सम्यग्जयेत । तेन भ्रातृव्यस्य संबन्धिनममुमादित्यमेतं यजमानाः

तैत्तिरीयब्राह्मणम् (१.२.६) १०१ देवाश्चासुराश्चायमादित्योऽस्माकमेव भूयादिति परस्परं कलहं कृतवन्तः। तत्र देवानां जयोऽभूत्। अतोऽद्यापि वेदिमध्ये ब्राह्मणो बहिः शूद्रश्चावस्थाय किंचिदार्द्रं चर्म परिमण्डलाकारं गृहीत्वा तद्विषये कलहं कुर्याताम् । तत्र देवस्वरूपो ब्राह्मणः। असुरस्वरूपः शूद्रः। तस्मिन्कलहावसर इमंऽरात्सुरिति मन्त्रं ब्राह्मणो ब्रूयात् । तस्यायमर्थः इमे यजमानाः सत्रे समृद्धिं गताः शोभनं कर्म कृतवन्त इति । शूद्रस्तु मंत्रान्तरं ब्रूयात् । तस्यायमर्थः । इमे यजमानाः कर्मव्याजेन धनहानिं कृत्वा देशमेतमुद्वासं निवासशून्यं कुर्वन्ति । तस्मादिमे दुर्व्यापारं कृतवन्त इति । ए॒वं स॒त्ये॒षां यजमानानां यत्सुकृतं॒ प॒रलोकहि॒तं या चे॒ह लो॒कं समृद्धिस्तदुभयमन्यतरो॒ ब्राह्म॑णः॒ सं॒पादयति॒ । यद॒न्यत्किंचि॒ त्प्रमादकृतमेषां दुष्कृतं या चैषामसमृद्धिर्दारिद्रयरूपा तदुभयमन्यतरःशूद्रो विनाशयति । निन्दाजनितेन हि रूपेण पापफलं सर्वमनुभूतम् । तत्र कलहं ब्राह्मणः सम्यग्जयेत । तेन भ्रातृव्यस्य संबन्धिनममुमादित्यमेतं यजमानाः सम्यगलभन्ते । अस्य प्रपाठकस्यानुवाकार्थसंग्रह - आधानमन्त्रा आद्ये स्युर्नवाहानि द्वितीयेके । गवामयनगानि स्युरतिग्राह्यास्तृतीयेके ।। १ ।। दिवाकीर्त्यानि तुर्ये स्युः पञ्चमे पशवः श्रुताः । महाव्रतं तु पृष्ठे स्यात्प्रपाठक उदीरितः ।। २ ।। वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् । पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ।। ३ ।। इति श्रीमत्सायणाचार्यविरचिते माधवीयवेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे द्वितीयप्रपाठके षष्ठोऽनुवाकः ।। ६ ।। इति श्रीमद्वीरबुक्कणसाम्राज्यधुरंधरश्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे द्वितीयः प्रपाठकः समाप्तः ।। २ ।। (मूलक्रमेण-अष्ट. १ अध्या. २ अनु. ६ (१६) । (भाष्यक्रमेण-का. १ प्रपा. २ अनु. ६ (१६) ।

१०२ (१.३.१) तैत्तिरीयब्राह्मणम् अथ तृतीयप्रपाठकारम्भः । तत्र प्रथमोऽनुवाकः । यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥ गवामयनमाख्यातं द्वितीये हि प्रपाठके । यदनुक्तं संहितायां तत्सर्वमिह वर्णितम् ॥ २ ॥ तृतीय वाजपेयस्य ब्राह्मणं समुदीर्यते । दशानुवाकास्तेषु स्युः पुनराधानमादिमे । स्यात्पिण्डपितृयज्ञोऽन्ते वाजपेयस्तु मध्यतः ॥ ३ ॥ यत्संहितायामाख्यातं पुनराधानमत्र तु । तस्योक्तस्यानुवादेन विशेषः कोऽपि वर्ण्यते ॥ ४ ॥ वाजपेयस्य मन्त्रास्तु संहितायामुदीरिताः । मध्यवर्त्यनुवाकेषु तद्व्याख्यानमिहेर्यते ॥ ५ ॥ द्वितीये वाजपेयस्य विधिस्तस्य ग्रहाः परे । चतुर्थे पशवः प्रोक्ताः पञ्चमे रथयोजनम् ॥ ६ ॥ मर्यादाधावनं षष्ठे यूपारोहणमुत्तरे । अष्टमे त्वभिषेकः स्यादतिग्राह्यास्त्वनन्तरे ॥ ७ ॥ नवमान्ता द्वितीयाद्या वाजपेयावबोधिनः । यः पिण्डपितृयज्ञोऽसौ दशमे स्पष्टमीरितः ॥ ८ ॥ तृतीयस्यानुवाकार्था इत्येवं समुदीरिताः । वाजपेयब्राह्मणार्था मन्त्रैः सह पुरेरिताः । आद्यन्तावनुवाकौ तौ व्याख्यास्येते इह क्रमात् ॥ ९ ॥ तत्राऽऽद्येऽनुवाके पुनराधेयगतयोराज्यभागयोर्विशेषं विधातुमादावुपाख्यायिकामाह- दे॒वा॒सु॒राः संय॑त्ता आसन् । ते दे॒वा वि॑ज॒यमु॑प॒यन्तः॑ । अ॒ग्नीषोम॑योस्तेज॑स्विनीस्त॒नूः संन्य॑दधत । इ॒दमु॑ नो

तैत्तिरीयब्राह्मणम् (१.३.१) १०३ भ॑विष्य॒ति । यदि॑ नो जे॒ष्यन्तीति॑ । तेना॑ग्नीषो॒मावपा॑क्रामताम् । ते दे॒वा वि॒जित्य॑ । अ॒ग्नीषोमा॒वन्वै॑च्छन् । तैऽग्निमन्व॑विन्दन्नृतूषूत्स॑न्नम् । तस्य॒ विभ॑क्तीभिस्तेज॑स्विनीस्त॒नूरवा॑रुन्धत (१) । ते सो॒ममन्व॑विन्दन् । तम॑घ्नन् । तस्य॑ यथाभि॒ज्ञाय॑ त॒नूर्व्य॑गृह्णात । ते ग्रहा॑ अभवन् । तद्ग्रहा॑णां ग्रह॒त्वम् । य॒स्यै॒वंवि॒दुषो॒ ग्रहा॑ गृह्यन्तै । तस्य॒ त्वै॒व गृ॑ही॒ताः, इति । यदा देवाश्चासुराश्च युद्धाद्युक्तास्तदा देवा विजयं प्राप्तुकामाः स्वकीया-स्तेजस्विनीस्तनूरग्नीषोमयोः स्थापितवन्तः । तनुशब्देन शरीरवत्प्रियभूतधनमुपलक्ष्यते । तयोर्धनस्थापयतां देवानामयमभिप्रायः । यदि कथंचिदस्मान्यदाऽसुरा जेष्यन्ति तदानीमिदमेव धनमस्माकं जीवनाय भविष्यतीति । ततः स्थापितेन तेन धनेन सह तावग्नीषोमौ पलायनमकुरुताम् । देवाः पुण्यवशेन विजयं प्राप्य सर्वत्राग्नीषोमावन्विष्य क्वचिदृतुषु वेष्माच्छाद्यावस्थितमग्निमलभन्त । ऋतूनां बलमवष्टभ्यावस्थितत्वादब्लाद् ग्रहीतुमशक्ता देवास्तस्याग्नेरुत्कोचरूपेण चतस्रो विभक्तीर्दत्वा स्वकीयास्तनूर्धनरूपाः स्वीकृतवन्तः । ताश्च विभक्तयः सूत्रे स्पष्टमुदाहृताः-“अग्नेऽग्नऽग्नावग्नेऽग्निनाऽग्नेऽग्निमग्ने” इति चतुर्षु प्रयाजेषु चतस्रो विभक्तीर्ददाति ” इति । “समिधोऽग्न आज्यस्य वियन्तु तनूनपादग्न आज्यस्य वेतु” इत्याद्यासु प्रयाजयाज्यासु संबुद्ध्यन्ता अग्निशब्दा आम्नाताः । तेभ्यः पुरस्तात्क्रमेण संबुद्धिसप्तमीतृतीयाद्वितीयाविभक्त्यन्ता अग्निशब्दाः प्रयुक्ताः । तेन तृप्तोऽग्निस्तदीयास्तनूर्दत्तवान् । अथ ते देवाः सोममन्विष्य लब्ध्वा तं ताडयित्वा तस्य सकाशात्स्वकीयास्तनूस्तत्तल्लक्षणेन सम्यगभिज्ञाय यथायथं गृहीतवन्तः । ते च तनुसमाना द्रव्यविशेषा ऐन्द्रवायवादिग्रहा अभवन् । देवैर्गृह्यन्त इति व्युत्पत्या ग्रहनाम संपन्नम् । यो यजमानस्तादृशं महिमानं विद्वान्गृह्णाति तस्यैव ग्रहा यथाशास्त्रं गृहीता भवन्ति । अथ यथोक्तविभक्तिविधिं मनसि निधाय तं विधिमुन्नेतुमुपोद्- घातमाह-

द्वितीयोऽप्याग्नेयः कर्तव्यः ।

१०४ (१.३.१) तैत्तिरीयब्राह्मणम् नाना॑ग्ने॒यं पु॑नरा॒धेये॑ कुर्यात् । यदना॑ग्ने॒यं पु॑नरा॒धेये॑ कु॒र्यात् व्यू॑द्धमे॒व तत् (२) । अना॑ग्ने॒यं वा ए॒तत्क्रि॑यते । यत्स॒मिध॒स्तनूनपा॑तम॒िडो ब॒र्हिर्यज॑ति, इति । यत्पुनराधेयं तस्मिन्ननाग्नेयं न कुर्यात् । अत एव सूत्रकारेणोक्तम्-“सर्वमाग्नेयं भवति” इति । अनाग्नेयकरणे पुनराधेयस्य समृद्धिहेतुत्वं न स्यात् । क्रियते चात्र समिदादिषु चतुर्षु प्रयाजेष्वनाग्नेयम् । तन्मन्त्रेषु देवतान्तराणां समिदादीनां श्रूयमाणत्वात् । सोऽयमाक्षेपस्वरूप उपोद्घातः । अत्र प्रयाजानां चतुर्णामाग्नेयत्वसंपादनाय यथोक्तविभक्तीः कुर्यादिति विधिरुन्नेयः । प्रत्यक्षविधिश्च संहितायामाम्नातः-“ विभक्तयो॑ भवन्ति वाच विधृत्यै ” इति । इदानीमाज्यभागयोर्विशेषं विधत्ते- उ॒भावा॑ग्ने॒यावा॑ज्यभा॒गौ स्या॑ताम्, इति । प्रकृतावाद्य आज्यभाग आग्नेयः । द्वितीयः सौम्यः । अत्र तु द्वितीयोऽप्याग्नेयः कर्तव्यः । अत्रैका परं विशेषं विधत्ते- अना॑ज्यभा॒गौ भव॑त॒ इत्या॑हुः । यदु॒भावा॑ग्ने॒या- वन्व॒ञ्चाविति॑ । अ॒ग्नये॑ पव॑मानायोत्त॒रः स्या॑त् । यत्पव॑मानाय । तेनाऽऽ ज्यभागः॑ । तेन॑ सौ॒म्यः, इति । अत्र केचिदभिज्ञा एवमाक्षिपन्ति । यद्युभावप्याज्यभागा- वन्वञ्चावव्यवहितावाग्नेयावेव कुर्यात्तदानीमेतावाज्यभागावेव न भवतः । सौम्यस्याननुष्ठितत्वात् । सौम्यो हि सोपपत्तिकः प्रकृतावेवं विहितः-“देवलो॒कं वाऽग्नि॒नायजमानोऽनु॑पश्यति पितृलो॒क सोमे॑नोत्तरार्धेऽग्नये जुहोति दक्षिणार्धे सोमायेवेति तस्मादुत्तरः सौम्यः कर्तव्यः” इति । अस्मिन्पक्षेऽभिज्ञस्यैवमुत्तरम्- अनाग्नानेय- त्वमसौम्यत्वं चेति दोषद्वयं वारयितुं पवमानायाग्नय उत्तर आज्य भागः कर्तव्यः । तत्राग्निः प्रत्यक्षमेव श्रूयते । पवमानविशेषणेन तु केवलाग्नेयत्वदोषवारणादाज्यभागत्वं सिध्यति । तावता सौम्यत्वमुपचरणीयम् “अग्न आयूँषि पवसे” इत्यस्यां पुरोनुवाक्यायां कृतायामग्नये पवमानायायमुत्तर आज्यभागः स्यादिति तात्पर्यार्थः ।

तैत्तिरीयब्राह्मणम् (१.३.१) १०५ प्रथमस्याऽऽज्यभागस्य प्राकृतीं पुरोनुवाक्यां बाधितुमन्यां विधत्ते- बुधन्न्वत्याग्ने॒यस्या॑ऽऽज्यभा॒गस्य॑ पुरोनुवा॒क्या॑ भवति । (३) । यथा॑ सु॒प्तं बोध॑यति । ता॒दृगे॒व तत्, इति । बुधिधातुर्यस्यामृच्यस्ति सेयं बुधन्वन्ती । तस्यां स्थिमाणायां यथा लोके सुप्तं पुरुषं बोधयति तादृशमेव तद्भवति । अत्र सूत्रम्-“अग्नि ँ स्तोमेन बोधयत्याग्नेयस्यऽऽज्यभागस्य पुरोनुवाक्या भवत्यग्न आयूँषि पवस इति सौम्यस्व ” इति । पत्नीसंयाजमन्त्रेषु विशेषं विधत्ते- अ॒ग्निन्य॑क्ताः पत्नीसंया॒जाना॒मृच॑ः स्युः । तेना॑ऽऽग्ने॒य ँसर्वं॑ भवति, इति । अग्निपदेन युक्ता अग्निन्यक्ताः । “आप्यायस्व समेतु ते विश्वतः सोमवृष्णियम्” इत्येषा प्रथमस्य पत्नीसंयाजस्य पुरोनुवाक्या । तत्र सोमाग्नेऽग्नियुक्तत्वम् । यथा समिदादिप्रयाजेष्वग्निशब्दवत् विभक्तिप्रयोगेणाऽऽग्नेयत्वमेवं पत्नीसंयाजानामप्याग्नेयत्वं संपद्यते । अत्र चोद्यवादिनामाक्षेपं दर्शयति- ए॒क॒धा तैज॑स्विनीं दे॒वता॒मुपै॑ती त्या॑हुः । सैन॑मीश्व॒रा प्र॒दह॑ इति॑, इति । तेजोधिकां देवतां वः पुमानेकधोपेति नैरन्तर्येण सेवते सा देवता तमेनं प्रदग्धुं समर्था भवति । तस्मात्पूर्वोक्तमग्निन्यक्तत्वं न कार्यमित्याक्षेपः । तस्योत्तरं दर्शयति- नेति॑ ब्रूयात् । प्र॒जन॑नं॒ वा अ॒ग्निः । प्र॒जन॑नमे॒वोपैतीति॑, इति । नास्ति प्रदाह इत्येवमुत्तरं ब्रूयात् । अग्नेर्विरोधिदाहकत्वेऽपि स्वकीयसेवकं प्रति प्रजननेनानुग्राहकत्वान्निरन्तरमग्निं सेवमानः प्रजोत्पत्तिपदं प्राप्नोतीति । अत्र चोदकप्राप्तान्संभारानाधानमन्त्रांश्च पूर्वपक्षरूपेण निराचष्टे-

१०६ (१.३.१) तैत्तिरीयब्राह्मणम् कृ॒तर्य॑जुः संभृ॑तसंभा॒र् इत्या॑हुः (४) । न संभृ॑त्याः संभा॒राः । न यजु॑: का॒र्य॒मिति॑, इति । यजुः शब्देन धर्मः शिर इत्याद्या आधानमन्त्रा विवक्षिताः । संभारशब्देन सिकतादिसप्तमृद्विशेषा अश्वत्थौदुम्बरादिसप्त- वानस्पत्यविशेषाश्च विवक्षिताः। प्रथमाधाने यजुषामुच्चरितत्वात्संभाराणां च संपादितत्वादस्यापि पुनराधेयस्याऽऽधानादत्यन्तभेदाभावेन यजुः संभारयोः सिद्धत्वात्तदुभयं पुनर्न कर्तव्यमिति पूर्वः पक्षः । सिद्धान्तमाह- अथो॒ खलु॑ । संभृ॒त्या॑ एव संभा॒राः । कार्यं॒ यजु॑: । पु॒न॒रोध॒स्य॒ समृ॑द्ध्यै, इति । अथोशब्देन पूर्वपक्षो निवर्तते । यद्यप्ययमर्थः संहितायामुक्तस्तथाऽप्यस्यानुवाकस्य तच्छेषत्वद्यो॑तनाय पुनरनुवादः । अन्यं विशेषं विधत्ते- तेनों॑पा॒ꣳ॒शु प्र॑चरति । ए॒ष्य॑ इव वा ए॒षः । यत्पु॑नराधे॒यः । यथो॑पा॒ꣳ॒शु मृ॒गमिच्छ॑ति (५)। ता॒दृगे॒व तत्, इति । तेन पुनराधेयेनाव्यक्तशब्दं यथा भवति तथाऽनुतिष्ठेत् । तत्रायं हेतुः । योऽयं पुनराधेयः स एव पुनरन्वेषणीय इव भवति । आधानेन संपादितस्याग्नेरुद्वासनेन विनाशे सति पुनः संपादनाय प्रवृत्तत्वात् । अत एव पुनराधेयविधिरैवमाम्नातः-“उद्वास्य पुनरादधीत” इति । अत्रान्वेषणे दृष्टान्तः । यथा लोके स्वगृहे चौरैरपहृतं नष्टं वस्तु चौरगृहेऽन्विच्छन्पुरुषो हस्तपादादि शब्दो यथा नोत्तिष्ठेत् तथैवान्विच्छति तादृगेव तद् द्रष्टव्यम् । विशेषान्तरं विधत्ते- उ॒च्चैः स्वि॑ष्ट॒कृत॒मुत्सृ॑जति । यथा॑ न॒ष्टं वि॒त्वा प्राहा॒यमिति॑ । ता॒दृगे॒व तत्, इति । स्विष्टकृद्विषयं मन्त्रमुच्चैरुच्चारयेत् । यथा लोके नष्टं वस्तु प्रच्छन्नवेषणान्विष्य कथंचित्तल्लब्ध्वा सर्वेषामग्रे मदीयोऽयं पदार्थ

तैत्तिरीयब्राह्मणम् (१.३.१) १०७ इत्येवं प्रकाशयति तद्देव तत् । तदेतत्सूत्रकार आह- “साभिषेनीप्रभृत्युपांशु यजत्योत्तमादनूयाजादुच्चैः स्विष्टकृतम् ” इति । ये पूर्वपक्षवादिनः सर्वाग्नेयत्वसिद्धान्तपक्षं दूषयन्तः स्वमतं पूर्वपक्षत्वेनोपन्यस्य परैर्निराकृतास्त एव वादिनः पुनरपि स्वकीयं मतं दृढीकृत्य सर्वाग्नेयत्वपक्षं दूषयन्ति तेषां मतमाह- ए॒कधा तैज॑स्विनीं दे॒वता॒मुपैतीत्या॑हुः । सैन॑मीश्व॒रा प्रद॑ह॒ इति॑ । तत्तथा॒ नोपै॑ति । प्र॒या॒जा॒नू॒या॒जेष्वे॑व विभ॑क्तीः कुर्यात् । यथा॑पू॒र्वमाज्य॑भागौ स्याता॑म् । ए॒वं पत्नीसंया॒जाः । तद्वै॑ श्वानरव॑त्प्र॒जनन॑वत्त॒रमुपैतीति॑, इति । अग्नेर्दाहकत्वात्सर्वमाग्नेयं कर्म प्रदाहायैव स्यात् । तत्पुनराधेयं तथा नोपेति । सर्वमाग्नेयं न कुर्यात् । किं तु प्रयाजानूयाजेष्वेवाग्निविषयां विभक्तीःकुर्यात् । तत्र प्रयाजविभक्तय आपस्तम्बोक्ताः पूर्वं दर्शिताः अनूयाजविभक्तिद्वयं त्वाश्वलायनेनोक्तम्--“देवं बर्हिरग्ने वसुवने वसुधेयस्य वेतु देवो नराशंसोऽग्नौ वसुधेयस्य वेतु” इति । एवमुभयत्रैवाग्निविभक्तीः कृत्वा यावाज्यभागौ ये च पत्नीसंयाजस्ते सर्वे प्रकृतिवदेवानुष्ठेया न स्वाग्नेयत्वाय तत्र प्रयतितव्यम् । एवं सति तत्पुनराधेयकर्माग्निविषयविभक्ति सद्भावा द्वैश्वानरवदग्नियुक्तगत एवातिशयेन प्रजननवच्च कृतं भवतीत्येवं स्वमतदार्ढ्यं संपादितम् । अत्र सर्वाग्नेयत्वादिनां चोद्यमुद्भावयति- तदा॑हुः । व्यृ॑द्धं वा ए॒तत् । अना॑ग्नेयं॒ वा ए॒तत्क्रिय॑त इति॑, इति । द्वितीयाज्यभागस्याऽऽग्नेयत्वं पत्नीसंयाजानां चाग्निव्यक्तत्वं यदि न क्रियते तदानीमेतत्पुनराधेयमनाग्नेयं स्यात् । एतच्च समृद्धिहीनमिति वादिनां चोद्यं तस्योत्तरमाह- नेति॑ ब्रूयात् । अग्निं प्रथ॒मं विभ॑क्तीनां यजति । अ॒ग्निमु॑त्त॒मं पत्नी॑संया॒जानाम्॑ । तेना॑ऽऽग्ने॒यम् । तेन॒ समृ॑द्धं क्रियत॒ इति॑ (६), इति ।

१०८ (१.३.१) तैत्तिरीयब्राह्मणम् अरु॑न्धतै॒व तद्दे॒वति॑ संभृतसंभा॒र इत्या॑हु॒र्ऋच्छ॑ति पत्नीसंया॒जा नव॑ च । इति कृष्णयजुर्वेदीयतैत्तिरीब्राह्मणे प्रथमाष्टके तृतीयाध्याये प्रथमोऽनुवाकः ॥ १ ॥ एतत्पुनराधेयमस्मदुक्तप्रकारेणाऽऽज्यभागयोः पत्नीसंयाजानां च यथा पूर्वत्वेऽपि समृद्धिहीनं न भवतीत्युत्तरं ब्रूयात् । कथमिति तदुच्यते । प्रथमं यागादौ प्रयाजगतविभक्तीनां संबन्धित्वादग्निर्यष्टव्यः । अवसाने च पत्नी संयोजेषूत्तममग्निं यजेत् । तत्र च-“अग्निर्होता गृहपतिः” इत्याग्नेयो मन्त्र आम्नातः . अत्र आद्यन्तयोराग्नेयत्वेन तन्मध्यपतितं सर्वमाग्नेयं संपद्यते । तेन पुनराधेयं समृद्धं कुरुते । अत्र मीमांसा । दशमाध्यायस्य चतुर्थपादे चिन्तितम्- बुधन्वत्तादिगुणको देवो वाच्योऽथ केवलः । आद्यो देवगुणत्वेन मैवं मन्त्रगुणत्वतः ॥ (इति) । आधाने पवमानेष्टिष्वाज्यभागौ प्रकृत्य श्रूयते-“ बुधन्वानाग्नेयः कार्यः पाक्वान्सौम्यः” इति । तथा पुनराधेयेऽपि श्रूयत- “बुधन्वत्याग्नेयस्याऽऽ ज्यभागस्य पुरोनुवाक्या भवति” इति । अत्र निगमेषु “ बुधन्वन्तमग्निमावह पावकवन्तं सोममावह” इत्येवं सगुणो देवो वक्तव्यः । कुतः । बुधन्वत्तादेर्देवगणत्वात् । तथा हि । बुधशब्दोऽस्यास्तीति बुधन्वान् । न खल्वाज्यभागस्य देवताद्वारेण विना साक्षाद् बुधशब्दत्वं संभवति । तस्मादेव गुणत्वात्सगुणो देवो वक्तव्यः । मैवम् । बुधन्वत्तादेर्मन्त्रगुणत्वात् । न ह्यत्राऽऽ ग्नेयशब्दो यागपरः । किं तु मन्त्रपरः । संभवति हि मन्त्रस्य साक्षादेव बुधशब्दप्रयोगः “अग्नि ँ स्तोमेन बोधय” इत्यस्मिन्मन्त्रे बुधिधातोः प्रयुक्तत्वात् । बुधन्वता विधिना चाऽऽग्नेयं मन्त्रान्तरं निवर्त्यते । न च तद्धितान्त आग्नेयपद उपसर्जनभूतो देवतावाचकोऽग्निशब्दो बुधन्वच्छब्देन विशेष्टुमर्हति । तस्मात्केवलोऽग्निशब्दो निगमे पठितव्यः ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे तृतीयप्रपाठके प्रथमोऽनुवाकः ॥ १ ॥

तैत्तिरीयब्राह्मणम् (१.३.२) १०९ अथ तृतीयप्रपाठके द्वितीयोऽनुवाकः । प्रथमेऽनुवाके पुनराधेयशेषोऽभिहितः । द्वितीयमारभ्य नवमान्ते षट्‍स्वनुवाकेषु यद्वाजपेयब्राह्मणमाम्नातं तस्य संहितायां प्रथमकाण्डे सप्तमे प्रपाठके समाम्नातैर्मन्त्रैः सहास्माभिर्व्याख्यातत्वात्तत्रैवाक्षरार्थो द्रष्टव्यः । तात्पर्यं त्वनुवाकानामिहैवादौ संगृहीतम् । (इत्थं षट्‍स्वनुवाकेषु दार्शिकयाजमानब्राह्मणशेषो वर्णितः। अथ देव सवितः प्रसुवेत्यादिषु षट्सु वाजपेयविषया आध्वर्यवमन्त्रा उच्यन्ते । तत्रास्मिन्सप्तमेऽनुवाके रथविषया मन्त्राः कथ्यन्ते । तेषां वाजपेयमन्त्राणां व्याख्यानं ब्राह्मणग्रन्थप्रथमकाण्डे तृतीयप्रपाठके द्वितीयमारभ्य नवमान्तेषट्स्वनुवाकेष्वाम्नातम् । तत्र वाजपेयविधिर्ग्रहविधिः पञ्चविधिश्चाऽऽद्येषु त्रिष्वनुवाकेषु क्रमेणाऽऽम्नातः । अनयोर्वाजपेयविषययोर्मन्त्रब्राह्मणयोरत्यन्तविप्रकृष्ट- देशवर्तित्वेन बुद्धिसंनिध्याभावाच्छ्रोतॄणां प्रतिपत्तिसौकर्याय पूर्वोक्तदार्शिक सौमिककाण्डवद्ब्राह्मणेन सहैव मन्त्रा व्याख्यायन्ते । तत्र च ब्राह्मणप्रथमानुवाके वाजपेयं विधातुं प्रस्तौति- दे॒वा वै यथा॑दर्शं य॒ज्ञानाह॑रन्त । यो॑ऽग्नि॒ष्टोम॑म् । य उ॒क्थ्य॑म् । यो॑ऽति॑रा॒त्रम् । ते स॒हैव सर्वे॑ वाज॑पेय॒मप॑श्यन् । ते । अ॒न्यो॒न्यस्मै॒ नाति॑ष्ठन्त । अ॒हम॒नेन॑ यजा॒ इति॑ । तेऽब्रुवन् । आ॒जिम॒स्य धा॑वा॒मेति॑ (१) । तस्मि॒न्नाजिं॒ म॑धावन् । तं बृह॒स्पति॒रुद॑जयत् । तेना॑यजत । स स्वा॒रा॒ज्यम॑गच्छत् । तमिन्द्रोऽब्रवीत् । माम॒नेन॑ याज॒येति॑ । तेनेन्द्र॑मयाजयत् । सोऽग्रं॑ दे॒वता॑नां॒ पर्यै॑त् । अग॑च्छत्स्वा॒रा॒ज्य॑म् । अति॑ष्ठन्तास्मै॒ ज्यैष्ठ्या॑य (२), इति॑ । देवानां मध्ये कश्चिदग्निष्टोमं ददर्श । अन्य उक्थमपरोऽतिरात्रम् । ते च स्वस्वदर्शनमनतिक्रम्य तान्यज्ञानाहरन्तानुष्ठितवन्तः । ते देवाः सर्वे सहैव वाजपेयं दृष्ट्वाऽहमेव प्रथमेन वाजपेयेन यथा इत्येवं विवदमानाः परस्परं प्रथमानुष्ठातृत्वलक्षणाय ज्यैष्ठ्याय नातिष्ठन्त ज्यैष्ठ्यं नाङ्गी चक्रुः । ततः एव समयं चक्रुरस्माकं मध्य आजिं धावनेन यः कश्चिज्जयति स इति ज्येष्ठोऽस्त्विति । आजिर्धावनप्रदेशस्यावधिर्भूतविशेषः । एवं समर्थ कृत्वा तस्मिन्वाजपेये विषये विजयायाऽऽ जिमधावन् । तत्र तं वाजपेयं प्रति धावन्वृहस्पतिरुत्कर्षेणाजयत् । इतरेभ्यः प्रतमयंवधिं पस्पर्ध । ततः

११० (१.३.२) तैत्तिरीयब्राह्मणम् प्रथमं स एव तेन वाजपेयेनेष्ट्वा स्वाराज्यमपारतन्त्र्यरूपं माहाराज्यमगच्छत् तत इन्द्रस्तं बृहस्पतिं संप्राप्य तेन वाजपेयेनेष्ट्वा देवानां मध्ये ज्येष्ठत्वं पारतन्त्र्येण स्वर्गाधिपत्यलक्षणस्वाराज्यं चागच्छत् । अस्येन्द्रस्य ज्यैष्ठ्यमितरे सर्वे देवा मात्सर्यं परित्यज्याङ्गीचक्रुः । य ए॒वं वि॒द्वान्वा॑जपे॒येन॒ यज॑ते । गच्छ॑ति॒ स्वारा॑ज्यम् । अग्रँ॑ समा॒नानां॒ पर्ये॑ति । तिष्ठ॑न्तेऽस्मै॒ ज्यैष्ठ्या॑य, इति । अधिकारविशेषविधिमुन्नयति- स वा ए॒ष ब्रा॑ह्म॒णस्य॑ चैव राज॒न्य॑स्य च य॒ज्ञः, इति । स बृहस्पतिनाऽनुष्ठितः । एष इन्द्रेणानुष्ठितः देवानां मध्ये बृहस्पतिर्ब्रा ह्मणजात्यभिमानी, इन्द्रः क्षत्रियजात्याभिमानी, ताभ्यामेवानुष्ठितत्वा- न्मनुष्येष्वपि ब्राह्मणराजन्ययोरेवात्राधिकारो नतु वैश्यस्य । अत वाऽ ऽपस्तम्ब आह-"शरदि वाजपेयेन यजेत् ब्राह्मणो राजन्यो वर्द्धिकामः" इति । नामनिर्वचनं दर्शयति- तं वा ए॒तं वाज॑पेय॒ इत्या॑हुः । वा॒जाप्यो॒ वा ए॒षः । वाजँ॒ ह्ये॑तेन॑ दे॒वा ऐप्सन्॑, इति । वाजो देवान्नस्वरूपः सोमः पेयो यस्मिन्यागे स वाजपेय इत्येकं निर्वचनम् । यस्मादेतेन यज्ञेन देवा वाजं फलरूपमन्नप्राप्तु- मैच्छंस्तस्मादन्नरूपो वाजः पेयः प्राप्यो येन स वाजपेय इत्यपरनिर्वचनम् । सोमस्यैतद्यागसाधनत्वातदभेदेन यागं तद्धेनं च स्तौति- सोमो॒ वै वाज॑पेयः । यो वै सोमं॒ वाज॑पेयं॒ वेद॑ (३)। वाज्ये॑वै॒नं पी॒त्वा भव॑ति । आऽस्य॑ वा॒जी जा॑यते, इति । एनं वाजपेयगतं सोमं फलभूतान्नाभेदोपचारेण स्तौति- अन्नं॒ वै वाज॑पेयः । य ए॒वं वेद॑ । अत्यन्न॑म् । आऽ स्यान्ना॒दो जा॑यते, इति । यागप्रतिपादकवेदाभेदोपचारेण स्तौति-