भारतकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 132, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 132

तैत्तिरीयब्राह्मणम् (१.३.१) १०३ भ॑विष्य॒ति । यदि॑ नो जे॒ष्यन्तीति॑ । तेना॑ग्नीषो॒मावपा॑क्रामताम् । ते दे॒वा वि॒जित्य॑ । अ॒ग्नीषोमा॒वन्वै॑च्छन् । तैऽग्निमन्व॑विन्दन्नृतूषूत्स॑न्नम् । तस्य॒ विभ॑क्तीभिस्तेज॑स्विनीस्त॒नूरवा॑रुन्धत (१) । ते सो॒ममन्व॑विन्दन् । तम॑घ्नन् । तस्य॑ यथाभि॒ज्ञाय॑ त॒नूर्व्य॑गृह्णात । ते ग्रहा॑ अभवन् । तद्ग्रहा॑णां ग्रह॒त्वम् । य॒स्यै॒वंवि॒दुषो॒ ग्रहा॑ गृह्यन्तै । तस्य॒ त्वै॒व गृ॑ही॒ताः, इति । यदा देवाश्चासुराश्च युद्धाद्युक्तास्तदा देवा विजयं प्राप्तुकामाः स्वकीया-स्तेजस्विनीस्तनूरग्नीषोमयोः स्थापितवन्तः । तनुशब्देन शरीरवत्प्रियभूतधनमुपलक्ष्यते । तयोर्धनस्थापयतां देवानामयमभिप्रायः । यदि कथंचिदस्मान्यदाऽसुरा जेष्यन्ति तदानीमिदमेव धनमस्माकं जीवनाय भविष्यतीति । ततः स्थापितेन तेन धनेन सह तावग्नीषोमौ पलायनमकुरुताम् । देवाः पुण्यवशेन विजयं प्राप्य सर्वत्राग्नीषोमावन्विष्य क्वचिदृतुषु वेष्माच्छाद्यावस्थितमग्निमलभन्त । ऋतूनां बलमवष्टभ्यावस्थितत्वादब्लाद् ग्रहीतुमशक्ता देवास्तस्याग्नेरुत्कोचरूपेण चतस्रो विभक्तीर्दत्वा स्वकीयास्तनूर्धनरूपाः स्वीकृतवन्तः । ताश्च विभक्तयः सूत्रे स्पष्टमुदाहृताः-“अग्नेऽग्नऽग्नावग्नेऽग्निनाऽग्नेऽग्निमग्ने” इति चतुर्षु प्रयाजेषु चतस्रो विभक्तीर्ददाति ” इति । “समिधोऽग्न आज्यस्य वियन्तु तनूनपादग्न आज्यस्य वेतु” इत्याद्यासु प्रयाजयाज्यासु संबुद्ध्यन्ता अग्निशब्दा आम्नाताः । तेभ्यः पुरस्तात्क्रमेण संबुद्धिसप्तमीतृतीयाद्वितीयाविभक्त्यन्ता अग्निशब्दाः प्रयुक्ताः । तेन तृप्तोऽग्निस्तदीयास्तनूर्दत्तवान् । अथ ते देवाः सोममन्विष्य लब्ध्वा तं ताडयित्वा तस्य सकाशात्स्वकीयास्तनूस्तत्तल्लक्षणेन सम्यगभिज्ञाय यथायथं गृहीतवन्तः । ते च तनुसमाना द्रव्यविशेषा ऐन्द्रवायवादिग्रहा अभवन् । देवैर्गृह्यन्त इति व्युत्पत्या ग्रहनाम संपन्नम् । यो यजमानस्तादृशं महिमानं विद्वान्गृह्णाति तस्यैव ग्रहा यथाशास्त्रं गृहीता भवन्ति । अथ यथोक्तविभक्तिविधिं मनसि निधाय तं विधिमुन्नेतुमुपोद्- घातमाह-