भारतकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 131, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 131

१०२ (१.३.१) तैत्तिरीयब्राह्मणम् अथ तृतीयप्रपाठकारम्भः । तत्र प्रथमोऽनुवाकः । यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥ गवामयनमाख्यातं द्वितीये हि प्रपाठके । यदनुक्तं संहितायां तत्सर्वमिह वर्णितम् ॥ २ ॥ तृतीय वाजपेयस्य ब्राह्मणं समुदीर्यते । दशानुवाकास्तेषु स्युः पुनराधानमादिमे । स्यात्पिण्डपितृयज्ञोऽन्ते वाजपेयस्तु मध्यतः ॥ ३ ॥ यत्संहितायामाख्यातं पुनराधानमत्र तु । तस्योक्तस्यानुवादेन विशेषः कोऽपि वर्ण्यते ॥ ४ ॥ वाजपेयस्य मन्त्रास्तु संहितायामुदीरिताः । मध्यवर्त्यनुवाकेषु तद्व्याख्यानमिहेर्यते ॥ ५ ॥ द्वितीये वाजपेयस्य विधिस्तस्य ग्रहाः परे । चतुर्थे पशवः प्रोक्ताः पञ्चमे रथयोजनम् ॥ ६ ॥ मर्यादाधावनं षष्ठे यूपारोहणमुत्तरे । अष्टमे त्वभिषेकः स्यादतिग्राह्यास्त्वनन्तरे ॥ ७ ॥ नवमान्ता द्वितीयाद्या वाजपेयावबोधिनः । यः पिण्डपितृयज्ञोऽसौ दशमे स्पष्टमीरितः ॥ ८ ॥ तृतीयस्यानुवाकार्था इत्येवं समुदीरिताः । वाजपेयब्राह्मणार्था मन्त्रैः सह पुरेरिताः । आद्यन्तावनुवाकौ तौ व्याख्यास्येते इह क्रमात् ॥ ९ ॥ तत्राऽऽद्येऽनुवाके पुनराधेयगतयोराज्यभागयोर्विशेषं विधातुमादावुपाख्यायिकामाह- दे॒वा॒सु॒राः संय॑त्ता आसन् । ते दे॒वा वि॑ज॒यमु॑प॒यन्तः॑ । अ॒ग्नीषोम॑योस्तेज॑स्विनीस्त॒नूः संन्य॑दधत । इ॒दमु॑ नो