तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 130, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् (१.२.६) १०१ देवाश्चासुराश्चायमादित्योऽस्माकमेव भूयादिति परस्परं कलहं कृतवन्तः। तत्र देवानां जयोऽभूत्। अतोऽद्यापि वेदिमध्ये ब्राह्मणो बहिः शूद्रश्चावस्थाय किंचिदार्द्रं चर्म परिमण्डलाकारं गृहीत्वा तद्विषये कलहं कुर्याताम् । तत्र देवस्वरूपो ब्राह्मणः। असुरस्वरूपः शूद्रः। तस्मिन्कलहावसर इमंऽरात्सुरिति मन्त्रं ब्राह्मणो ब्रूयात् । तस्यायमर्थः इमे यजमानाः सत्रे समृद्धिं गताः शोभनं कर्म कृतवन्त इति । शूद्रस्तु मंत्रान्तरं ब्रूयात् । तस्यायमर्थः । इमे यजमानाः कर्मव्याजेन धनहानिं कृत्वा देशमेतमुद्वासं निवासशून्यं कुर्वन्ति । तस्मादिमे दुर्व्यापारं कृतवन्त इति । ए॒वं स॒त्ये॒षां यजमानानां यत्सुकृतं॒ प॒रलोकहि॒तं या चे॒ह लो॒कं समृद्धिस्तदुभयमन्यतरो॒ ब्राह्म॑णः॒ सं॒पादयति॒ । यद॒न्यत्किंचि॒ त्प्रमादकृतमेषां दुष्कृतं या चैषामसमृद्धिर्दारिद्रयरूपा तदुभयमन्यतरःशूद्रो विनाशयति । निन्दाजनितेन हि रूपेण पापफलं सर्वमनुभूतम् । तत्र कलहं ब्राह्मणः सम्यग्जयेत । तेन भ्रातृव्यस्य संबन्धिनममुमादित्यमेतं यजमानाः सम्यगलभन्ते । अस्य प्रपाठकस्यानुवाकार्थसंग्रह - आधानमन्त्रा आद्ये स्युर्नवाहानि द्वितीयेके । गवामयनगानि स्युरतिग्राह्यास्तृतीयेके ।। १ ।। दिवाकीर्त्यानि तुर्ये स्युः पञ्चमे पशवः श्रुताः । महाव्रतं तु पृष्ठे स्यात्प्रपाठक उदीरितः ।। २ ।। वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् । पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ।। ३ ।। इति श्रीमत्सायणाचार्यविरचिते माधवीयवेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे द्वितीयप्रपाठके षष्ठोऽनुवाकः ।। ६ ।। इति श्रीमद्वीरबुक्कणसाम्राज्यधुरंधरश्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे द्वितीयः प्रपाठकः समाप्तः ।। २ ।। (मूलक्रमेण-अष्ट. १ अध्या. २ अनु. ६ (१६) । (भाष्यक्रमेण-का. १ प्रपा. २ अनु. ६ (१६) ।