तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 129, कुल 345 में से
संदर्भ में पढ़ें१०० (१.२.६) तैत्तिरीयब्राह्मणम् धनिको भूत्वा तल्पेऽवस्थानं सर्वदा प्राप्तवानिति । स च तथैव प्राप्नोति । यद्युद्गाता पूर्वं धनिको भूत्वा तल्पावस्थानं प्राप्तवांस्तदानीमिमं मन्त्रं पठेत् । तस्य चायमर्थः । इदं तल्पावस्थानं कदाचिदपि मा पराजेष्यस्मिन्विषये मम पराजयो मा भूत् । कदाचिदपि मदीयं धनिकत्वं मा विनश्यत्विति । अथ होतृदोला विधत्ते- प्रेङ्खे॒ शँ ꣳ॒ सति॑ । महो॒ वै प्रेङ्खः॑ । मह॑स ए॒वान्नाद्य॒स्याव॑रुद्ध्यै, इति । महस्तेजो दोलायास्तेजोहेतुत्वान्महस्त्वम् । अतस्तत्तेजसोऽन्नस्य च प्राप्तये भवति । अथ व्यापारान्तरं विधत्ते- दे॒वा॒सु॒राः संय॑त्ता आसन् । त आ॑दि॒त्ये व्याय॑च्छन्त । तं दे॒वाः सम॑जयन् (६) । ब्रा॒ह्म॒णश्च॑ शू॒द्रश्च॑ चर्मक॒र्ते व्याय॑च्छेते । दैव्यो॒ वै वर्णो ब्रा॑ह्म॒णः । असु॑र्यः॒ शूद्रः॑ । इ॒मैऽरात्सुरि॒मे सु॑भू॒तम॑क्र॒न्नित्य॑न्यत॒रो ब्रू॑यात् । इ॒म उ॑द्वासीका॒रिण॑ इ॒मे दुर्भू॒तम॑क्र॒न्नित्य॑न्त॒रः । यदे॒वैषां॒ सुकृ॑तं या रा॒द्धिः । तद॑न्यत॒रोऽभि॒श्रीणा॑ति । यदे॒वैषां॑ दुष्कृ॒तं या रा॒द्धिः । तद॑न्यत॒रोऽप॑हन्ति । ब्रा॒ह्म॒णः संज॑यति । अ॒मुमे॒वाऽऽदि॒त्यं भ्रातृ॑व्यस्य॒ संवि॑न्दन्ते (७), इति । भ॒व॒ति॒ भ॒वि॒त् क्रि॒यं॒तं पु॒रु॑षं ज॒य॒त्य॒ज॒य॒ञ्ज॒य॒त्ये॒कं॑ च॒ । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके द्वितीयाध्याये षष्ठोऽनुवाकः ॥ ६ ॥ उद्ग॑च्छन्॒यन्मा॑नं नवैतानि॒ सन्त॑ति॒रेक॑वि ꣳ॒शं ए॒षोऽप्र॑तिष्ठां प्र॒जाप॑ति॒र्वृतः॑ षट् । उद्ग॑न्॒यन्मां॒ 'शौचि॑ष्के॒शोऽग्न॑ स॒प्लौ नति॑ग्रा॒ह्या वै॑श्वदे॒वमाल॑भन्ते पञ्चाश॑त् । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके द्वितीयोऽध्यायः ॥ २ ॥