भारतकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 133, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 133

१०४ (१.३.१) तैत्तिरीयब्राह्मणम् नाना॑ग्ने॒यं पु॑नरा॒धेये॑ कुर्यात् । यदना॑ग्ने॒यं पु॑नरा॒धेये॑ कु॒र्यात् व्यू॑द्धमे॒व तत् (२) । अना॑ग्ने॒यं वा ए॒तत्क्रि॑यते । यत्स॒मिध॒स्तनूनपा॑तम॒िडो ब॒र्हिर्यज॑ति, इति । यत्पुनराधेयं तस्मिन्ननाग्नेयं न कुर्यात् । अत एव सूत्रकारेणोक्तम्-“सर्वमाग्नेयं भवति” इति । अनाग्नेयकरणे पुनराधेयस्य समृद्धिहेतुत्वं न स्यात् । क्रियते चात्र समिदादिषु चतुर्षु प्रयाजेष्वनाग्नेयम् । तन्मन्त्रेषु देवतान्तराणां समिदादीनां श्रूयमाणत्वात् । सोऽयमाक्षेपस्वरूप उपोद्घातः । अत्र प्रयाजानां चतुर्णामाग्नेयत्वसंपादनाय यथोक्तविभक्तीः कुर्यादिति विधिरुन्नेयः । प्रत्यक्षविधिश्च संहितायामाम्नातः-“ विभक्तयो॑ भवन्ति वाच विधृत्यै ” इति । इदानीमाज्यभागयोर्विशेषं विधत्ते- उ॒भावा॑ग्ने॒यावा॑ज्यभा॒गौ स्या॑ताम्, इति । प्रकृतावाद्य आज्यभाग आग्नेयः । द्वितीयः सौम्यः । अत्र तु द्वितीयोऽप्याग्नेयः कर्तव्यः । अत्रैका परं विशेषं विधत्ते- अना॑ज्यभा॒गौ भव॑त॒ इत्या॑हुः । यदु॒भावा॑ग्ने॒या- वन्व॒ञ्चाविति॑ । अ॒ग्नये॑ पव॑मानायोत्त॒रः स्या॑त् । यत्पव॑मानाय । तेनाऽऽ ज्यभागः॑ । तेन॑ सौ॒म्यः, इति । अत्र केचिदभिज्ञा एवमाक्षिपन्ति । यद्युभावप्याज्यभागा- वन्वञ्चावव्यवहितावाग्नेयावेव कुर्यात्तदानीमेतावाज्यभागावेव न भवतः । सौम्यस्याननुष्ठितत्वात् । सौम्यो हि सोपपत्तिकः प्रकृतावेवं विहितः-“देवलो॒कं वाऽग्नि॒नायजमानोऽनु॑पश्यति पितृलो॒क सोमे॑नोत्तरार्धेऽग्नये जुहोति दक्षिणार्धे सोमायेवेति तस्मादुत्तरः सौम्यः कर्तव्यः” इति । अस्मिन्पक्षेऽभिज्ञस्यैवमुत्तरम्- अनाग्नानेय- त्वमसौम्यत्वं चेति दोषद्वयं वारयितुं पवमानायाग्नय उत्तर आज्य भागः कर्तव्यः । तत्राग्निः प्रत्यक्षमेव श्रूयते । पवमानविशेषणेन तु केवलाग्नेयत्वदोषवारणादाज्यभागत्वं सिध्यति । तावता सौम्यत्वमुपचरणीयम् “अग्न आयूँषि पवसे” इत्यस्यां पुरोनुवाक्यायां कृतायामग्नये पवमानायायमुत्तर आज्यभागः स्यादिति तात्पर्यार्थः ।