तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 134, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् (१.३.१) १०५ प्रथमस्याऽऽज्यभागस्य प्राकृतीं पुरोनुवाक्यां बाधितुमन्यां विधत्ते- बुधन्न्वत्याग्ने॒यस्या॑ऽऽज्यभा॒गस्य॑ पुरोनुवा॒क्या॑ भवति । (३) । यथा॑ सु॒प्तं बोध॑यति । ता॒दृगे॒व तत्, इति । बुधिधातुर्यस्यामृच्यस्ति सेयं बुधन्वन्ती । तस्यां स्थिमाणायां यथा लोके सुप्तं पुरुषं बोधयति तादृशमेव तद्भवति । अत्र सूत्रम्-“अग्नि ँ स्तोमेन बोधयत्याग्नेयस्यऽऽज्यभागस्य पुरोनुवाक्या भवत्यग्न आयूँषि पवस इति सौम्यस्व ” इति । पत्नीसंयाजमन्त्रेषु विशेषं विधत्ते- अ॒ग्निन्य॑क्ताः पत्नीसंया॒जाना॒मृच॑ः स्युः । तेना॑ऽऽग्ने॒य ँसर्वं॑ भवति, इति । अग्निपदेन युक्ता अग्निन्यक्ताः । “आप्यायस्व समेतु ते विश्वतः सोमवृष्णियम्” इत्येषा प्रथमस्य पत्नीसंयाजस्य पुरोनुवाक्या । तत्र सोमाग्नेऽग्नियुक्तत्वम् । यथा समिदादिप्रयाजेष्वग्निशब्दवत् विभक्तिप्रयोगेणाऽऽग्नेयत्वमेवं पत्नीसंयाजानामप्याग्नेयत्वं संपद्यते । अत्र चोद्यवादिनामाक्षेपं दर्शयति- ए॒क॒धा तैज॑स्विनीं दे॒वता॒मुपै॑ती त्या॑हुः । सैन॑मीश्व॒रा प्र॒दह॑ इति॑, इति । तेजोधिकां देवतां वः पुमानेकधोपेति नैरन्तर्येण सेवते सा देवता तमेनं प्रदग्धुं समर्था भवति । तस्मात्पूर्वोक्तमग्निन्यक्तत्वं न कार्यमित्याक्षेपः । तस्योत्तरं दर्शयति- नेति॑ ब्रूयात् । प्र॒जन॑नं॒ वा अ॒ग्निः । प्र॒जन॑नमे॒वोपैतीति॑, इति । नास्ति प्रदाह इत्येवमुत्तरं ब्रूयात् । अग्नेर्विरोधिदाहकत्वेऽपि स्वकीयसेवकं प्रति प्रजननेनानुग्राहकत्वान्निरन्तरमग्निं सेवमानः प्रजोत्पत्तिपदं प्राप्नोतीति । अत्र चोदकप्राप्तान्संभारानाधानमन्त्रांश्च पूर्वपक्षरूपेण निराचष्टे-