भारतकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 135, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 135

१०६ (१.३.१) तैत्तिरीयब्राह्मणम् कृ॒तर्य॑जुः संभृ॑तसंभा॒र् इत्या॑हुः (४) । न संभृ॑त्याः संभा॒राः । न यजु॑: का॒र्य॒मिति॑, इति । यजुः शब्देन धर्मः शिर इत्याद्या आधानमन्त्रा विवक्षिताः । संभारशब्देन सिकतादिसप्तमृद्विशेषा अश्वत्थौदुम्बरादिसप्त- वानस्पत्यविशेषाश्च विवक्षिताः। प्रथमाधाने यजुषामुच्चरितत्वात्संभाराणां च संपादितत्वादस्यापि पुनराधेयस्याऽऽधानादत्यन्तभेदाभावेन यजुः संभारयोः सिद्धत्वात्तदुभयं पुनर्न कर्तव्यमिति पूर्वः पक्षः । सिद्धान्तमाह- अथो॒ खलु॑ । संभृ॒त्या॑ एव संभा॒राः । कार्यं॒ यजु॑: । पु॒न॒रोध॒स्य॒ समृ॑द्ध्यै, इति । अथोशब्देन पूर्वपक्षो निवर्तते । यद्यप्ययमर्थः संहितायामुक्तस्तथाऽप्यस्यानुवाकस्य तच्छेषत्वद्यो॑तनाय पुनरनुवादः । अन्यं विशेषं विधत्ते- तेनों॑पा॒ꣳ॒शु प्र॑चरति । ए॒ष्य॑ इव वा ए॒षः । यत्पु॑नराधे॒यः । यथो॑पा॒ꣳ॒शु मृ॒गमिच्छ॑ति (५)। ता॒दृगे॒व तत्, इति । तेन पुनराधेयेनाव्यक्तशब्दं यथा भवति तथाऽनुतिष्ठेत् । तत्रायं हेतुः । योऽयं पुनराधेयः स एव पुनरन्वेषणीय इव भवति । आधानेन संपादितस्याग्नेरुद्वासनेन विनाशे सति पुनः संपादनाय प्रवृत्तत्वात् । अत एव पुनराधेयविधिरैवमाम्नातः-“उद्वास्य पुनरादधीत” इति । अत्रान्वेषणे दृष्टान्तः । यथा लोके स्वगृहे चौरैरपहृतं नष्टं वस्तु चौरगृहेऽन्विच्छन्पुरुषो हस्तपादादि शब्दो यथा नोत्तिष्ठेत् तथैवान्विच्छति तादृगेव तद् द्रष्टव्यम् । विशेषान्तरं विधत्ते- उ॒च्चैः स्वि॑ष्ट॒कृत॒मुत्सृ॑जति । यथा॑ न॒ष्टं वि॒त्वा प्राहा॒यमिति॑ । ता॒दृगे॒व तत्, इति । स्विष्टकृद्विषयं मन्त्रमुच्चैरुच्चारयेत् । यथा लोके नष्टं वस्तु प्रच्छन्नवेषणान्विष्य कथंचित्तल्लब्ध्वा सर्वेषामग्रे मदीयोऽयं पदार्थ