तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
तैत्तिरीयब्राह्मणम् (१.३.१) १०३ भ॑विष्य॒ति । यदि॑ नो जे॒ष्यन्तीति॑ । तेना॑ग्नीषो॒मावपा॑क्रामताम् । ते दे॒वा वि॒जित्य॑ । अ॒ग्नीषोमा॒वन्वै॑च्छन् । तैऽग्निमन्व॑विन्दन्नृतूषूत्स॑न्नम् । तस्य॒ विभ॑क्तीभिस्तेज॑स्विनीस्त॒नूरवा॑रुन्धत (१) । ते सो॒ममन्व॑विन्दन् । तम॑घ्नन् । तस्य॑ यथाभि॒ज्ञाय॑ त॒नूर्व्य॑गृह्णात । ते ग्रहा॑ अभवन् । तद्ग्रहा॑णां ग्रह॒त्वम् । य॒स्यै॒वंवि॒दुषो॒ ग्रहा॑ गृह्यन्तै । तस्य॒ त्वै॒व गृ॑ही॒ताः, इति । यदा देवाश्चासुराश्च युद्धाद्युक्तास्तदा देवा विजयं प्राप्तुकामाः स्वकीया-स्तेजस्विनीस्तनूरग्नीषोमयोः स्थापितवन्तः । तनुशब्देन शरीरवत्प्रियभूतधनमुपलक्ष्यते । तयोर्धनस्थापयतां देवानामयमभिप्रायः । यदि कथंचिदस्मान्यदाऽसुरा जेष्यन्ति तदानीमिदमेव धनमस्माकं जीवनाय भविष्यतीति । ततः स्थापितेन तेन धनेन सह तावग्नीषोमौ पलायनमकुरुताम् । देवाः पुण्यवशेन विजयं प्राप्य सर्वत्राग्नीषोमावन्विष्य क्वचिदृतुषु वेष्माच्छाद्यावस्थितमग्निमलभन्त । ऋतूनां बलमवष्टभ्यावस्थितत्वादब्लाद् ग्रहीतुमशक्ता देवास्तस्याग्नेरुत्कोचरूपेण चतस्रो विभक्तीर्दत्वा स्वकीयास्तनूर्धनरूपाः स्वीकृतवन्तः । ताश्च विभक्तयः सूत्रे स्पष्टमुदाहृताः-“अग्नेऽग्नऽग्नावग्नेऽग्निनाऽग्नेऽग्निमग्ने” इति चतुर्षु प्रयाजेषु चतस्रो विभक्तीर्ददाति ” इति । “समिधोऽग्न आज्यस्य वियन्तु तनूनपादग्न आज्यस्य वेतु” इत्याद्यासु प्रयाजयाज्यासु संबुद्ध्यन्ता अग्निशब्दा आम्नाताः । तेभ्यः पुरस्तात्क्रमेण संबुद्धिसप्तमीतृतीयाद्वितीयाविभक्त्यन्ता अग्निशब्दाः प्रयुक्ताः । तेन तृप्तोऽग्निस्तदीयास्तनूर्दत्तवान् । अथ ते देवाः सोममन्विष्य लब्ध्वा तं ताडयित्वा तस्य सकाशात्स्वकीयास्तनूस्तत्तल्लक्षणेन सम्यगभिज्ञाय यथायथं गृहीतवन्तः । ते च तनुसमाना द्रव्यविशेषा ऐन्द्रवायवादिग्रहा अभवन् । देवैर्गृह्यन्त इति व्युत्पत्या ग्रहनाम संपन्नम् । यो यजमानस्तादृशं महिमानं विद्वान्गृह्णाति तस्यैव ग्रहा यथाशास्त्रं गृहीता भवन्ति । अथ यथोक्तविभक्तिविधिं मनसि निधाय तं विधिमुन्नेतुमुपोद्- घातमाह-
द्वितीयोऽप्याग्नेयः कर्तव्यः ।
१०४ (१.३.१) तैत्तिरीयब्राह्मणम् नाना॑ग्ने॒यं पु॑नरा॒धेये॑ कुर्यात् । यदना॑ग्ने॒यं पु॑नरा॒धेये॑ कु॒र्यात् व्यू॑द्धमे॒व तत् (२) । अना॑ग्ने॒यं वा ए॒तत्क्रि॑यते । यत्स॒मिध॒स्तनूनपा॑तम॒िडो ब॒र्हिर्यज॑ति, इति । यत्पुनराधेयं तस्मिन्ननाग्नेयं न कुर्यात् । अत एव सूत्रकारेणोक्तम्-“सर्वमाग्नेयं भवति” इति । अनाग्नेयकरणे पुनराधेयस्य समृद्धिहेतुत्वं न स्यात् । क्रियते चात्र समिदादिषु चतुर्षु प्रयाजेष्वनाग्नेयम् । तन्मन्त्रेषु देवतान्तराणां समिदादीनां श्रूयमाणत्वात् । सोऽयमाक्षेपस्वरूप उपोद्घातः । अत्र प्रयाजानां चतुर्णामाग्नेयत्वसंपादनाय यथोक्तविभक्तीः कुर्यादिति विधिरुन्नेयः । प्रत्यक्षविधिश्च संहितायामाम्नातः-“ विभक्तयो॑ भवन्ति वाच विधृत्यै ” इति । इदानीमाज्यभागयोर्विशेषं विधत्ते- उ॒भावा॑ग्ने॒यावा॑ज्यभा॒गौ स्या॑ताम्, इति । प्रकृतावाद्य आज्यभाग आग्नेयः । द्वितीयः सौम्यः । अत्र तु द्वितीयोऽप्याग्नेयः कर्तव्यः । अत्रैका परं विशेषं विधत्ते- अना॑ज्यभा॒गौ भव॑त॒ इत्या॑हुः । यदु॒भावा॑ग्ने॒या- वन्व॒ञ्चाविति॑ । अ॒ग्नये॑ पव॑मानायोत्त॒रः स्या॑त् । यत्पव॑मानाय । तेनाऽऽ ज्यभागः॑ । तेन॑ सौ॒म्यः, इति । अत्र केचिदभिज्ञा एवमाक्षिपन्ति । यद्युभावप्याज्यभागा- वन्वञ्चावव्यवहितावाग्नेयावेव कुर्यात्तदानीमेतावाज्यभागावेव न भवतः । सौम्यस्याननुष्ठितत्वात् । सौम्यो हि सोपपत्तिकः प्रकृतावेवं विहितः-“देवलो॒कं वाऽग्नि॒नायजमानोऽनु॑पश्यति पितृलो॒क सोमे॑नोत्तरार्धेऽग्नये जुहोति दक्षिणार्धे सोमायेवेति तस्मादुत्तरः सौम्यः कर्तव्यः” इति । अस्मिन्पक्षेऽभिज्ञस्यैवमुत्तरम्- अनाग्नानेय- त्वमसौम्यत्वं चेति दोषद्वयं वारयितुं पवमानायाग्नय उत्तर आज्य भागः कर्तव्यः । तत्राग्निः प्रत्यक्षमेव श्रूयते । पवमानविशेषणेन तु केवलाग्नेयत्वदोषवारणादाज्यभागत्वं सिध्यति । तावता सौम्यत्वमुपचरणीयम् “अग्न आयूँषि पवसे” इत्यस्यां पुरोनुवाक्यायां कृतायामग्नये पवमानायायमुत्तर आज्यभागः स्यादिति तात्पर्यार्थः ।
तैत्तिरीयब्राह्मणम् (१.३.१) १०५ प्रथमस्याऽऽज्यभागस्य प्राकृतीं पुरोनुवाक्यां बाधितुमन्यां विधत्ते- बुधन्न्वत्याग्ने॒यस्या॑ऽऽज्यभा॒गस्य॑ पुरोनुवा॒क्या॑ भवति । (३) । यथा॑ सु॒प्तं बोध॑यति । ता॒दृगे॒व तत्, इति । बुधिधातुर्यस्यामृच्यस्ति सेयं बुधन्वन्ती । तस्यां स्थिमाणायां यथा लोके सुप्तं पुरुषं बोधयति तादृशमेव तद्भवति । अत्र सूत्रम्-“अग्नि ँ स्तोमेन बोधयत्याग्नेयस्यऽऽज्यभागस्य पुरोनुवाक्या भवत्यग्न आयूँषि पवस इति सौम्यस्व ” इति । पत्नीसंयाजमन्त्रेषु विशेषं विधत्ते- अ॒ग्निन्य॑क्ताः पत्नीसंया॒जाना॒मृच॑ः स्युः । तेना॑ऽऽग्ने॒य ँसर्वं॑ भवति, इति । अग्निपदेन युक्ता अग्निन्यक्ताः । “आप्यायस्व समेतु ते विश्वतः सोमवृष्णियम्” इत्येषा प्रथमस्य पत्नीसंयाजस्य पुरोनुवाक्या । तत्र सोमाग्नेऽग्नियुक्तत्वम् । यथा समिदादिप्रयाजेष्वग्निशब्दवत् विभक्तिप्रयोगेणाऽऽग्नेयत्वमेवं पत्नीसंयाजानामप्याग्नेयत्वं संपद्यते । अत्र चोद्यवादिनामाक्षेपं दर्शयति- ए॒क॒धा तैज॑स्विनीं दे॒वता॒मुपै॑ती त्या॑हुः । सैन॑मीश्व॒रा प्र॒दह॑ इति॑, इति । तेजोधिकां देवतां वः पुमानेकधोपेति नैरन्तर्येण सेवते सा देवता तमेनं प्रदग्धुं समर्था भवति । तस्मात्पूर्वोक्तमग्निन्यक्तत्वं न कार्यमित्याक्षेपः । तस्योत्तरं दर्शयति- नेति॑ ब्रूयात् । प्र॒जन॑नं॒ वा अ॒ग्निः । प्र॒जन॑नमे॒वोपैतीति॑, इति । नास्ति प्रदाह इत्येवमुत्तरं ब्रूयात् । अग्नेर्विरोधिदाहकत्वेऽपि स्वकीयसेवकं प्रति प्रजननेनानुग्राहकत्वान्निरन्तरमग्निं सेवमानः प्रजोत्पत्तिपदं प्राप्नोतीति । अत्र चोदकप्राप्तान्संभारानाधानमन्त्रांश्च पूर्वपक्षरूपेण निराचष्टे-
१०६ (१.३.१) तैत्तिरीयब्राह्मणम् कृ॒तर्य॑जुः संभृ॑तसंभा॒र् इत्या॑हुः (४) । न संभृ॑त्याः संभा॒राः । न यजु॑: का॒र्य॒मिति॑, इति । यजुः शब्देन धर्मः शिर इत्याद्या आधानमन्त्रा विवक्षिताः । संभारशब्देन सिकतादिसप्तमृद्विशेषा अश्वत्थौदुम्बरादिसप्त- वानस्पत्यविशेषाश्च विवक्षिताः। प्रथमाधाने यजुषामुच्चरितत्वात्संभाराणां च संपादितत्वादस्यापि पुनराधेयस्याऽऽधानादत्यन्तभेदाभावेन यजुः संभारयोः सिद्धत्वात्तदुभयं पुनर्न कर्तव्यमिति पूर्वः पक्षः । सिद्धान्तमाह- अथो॒ खलु॑ । संभृ॒त्या॑ एव संभा॒राः । कार्यं॒ यजु॑: । पु॒न॒रोध॒स्य॒ समृ॑द्ध्यै, इति । अथोशब्देन पूर्वपक्षो निवर्तते । यद्यप्ययमर्थः संहितायामुक्तस्तथाऽप्यस्यानुवाकस्य तच्छेषत्वद्यो॑तनाय पुनरनुवादः । अन्यं विशेषं विधत्ते- तेनों॑पा॒ꣳ॒शु प्र॑चरति । ए॒ष्य॑ इव वा ए॒षः । यत्पु॑नराधे॒यः । यथो॑पा॒ꣳ॒शु मृ॒गमिच्छ॑ति (५)। ता॒दृगे॒व तत्, इति । तेन पुनराधेयेनाव्यक्तशब्दं यथा भवति तथाऽनुतिष्ठेत् । तत्रायं हेतुः । योऽयं पुनराधेयः स एव पुनरन्वेषणीय इव भवति । आधानेन संपादितस्याग्नेरुद्वासनेन विनाशे सति पुनः संपादनाय प्रवृत्तत्वात् । अत एव पुनराधेयविधिरैवमाम्नातः-“उद्वास्य पुनरादधीत” इति । अत्रान्वेषणे दृष्टान्तः । यथा लोके स्वगृहे चौरैरपहृतं नष्टं वस्तु चौरगृहेऽन्विच्छन्पुरुषो हस्तपादादि शब्दो यथा नोत्तिष्ठेत् तथैवान्विच्छति तादृगेव तद् द्रष्टव्यम् । विशेषान्तरं विधत्ते- उ॒च्चैः स्वि॑ष्ट॒कृत॒मुत्सृ॑जति । यथा॑ न॒ष्टं वि॒त्वा प्राहा॒यमिति॑ । ता॒दृगे॒व तत्, इति । स्विष्टकृद्विषयं मन्त्रमुच्चैरुच्चारयेत् । यथा लोके नष्टं वस्तु प्रच्छन्नवेषणान्विष्य कथंचित्तल्लब्ध्वा सर्वेषामग्रे मदीयोऽयं पदार्थ
तैत्तिरीयब्राह्मणम् (१.३.१) १०७ इत्येवं प्रकाशयति तद्देव तत् । तदेतत्सूत्रकार आह- “साभिषेनीप्रभृत्युपांशु यजत्योत्तमादनूयाजादुच्चैः स्विष्टकृतम् ” इति । ये पूर्वपक्षवादिनः सर्वाग्नेयत्वसिद्धान्तपक्षं दूषयन्तः स्वमतं पूर्वपक्षत्वेनोपन्यस्य परैर्निराकृतास्त एव वादिनः पुनरपि स्वकीयं मतं दृढीकृत्य सर्वाग्नेयत्वपक्षं दूषयन्ति तेषां मतमाह- ए॒कधा तैज॑स्विनीं दे॒वता॒मुपैतीत्या॑हुः । सैन॑मीश्व॒रा प्रद॑ह॒ इति॑ । तत्तथा॒ नोपै॑ति । प्र॒या॒जा॒नू॒या॒जेष्वे॑व विभ॑क्तीः कुर्यात् । यथा॑पू॒र्वमाज्य॑भागौ स्याता॑म् । ए॒वं पत्नीसंया॒जाः । तद्वै॑ श्वानरव॑त्प्र॒जनन॑वत्त॒रमुपैतीति॑, इति । अग्नेर्दाहकत्वात्सर्वमाग्नेयं कर्म प्रदाहायैव स्यात् । तत्पुनराधेयं तथा नोपेति । सर्वमाग्नेयं न कुर्यात् । किं तु प्रयाजानूयाजेष्वेवाग्निविषयां विभक्तीःकुर्यात् । तत्र प्रयाजविभक्तय आपस्तम्बोक्ताः पूर्वं दर्शिताः अनूयाजविभक्तिद्वयं त्वाश्वलायनेनोक्तम्--“देवं बर्हिरग्ने वसुवने वसुधेयस्य वेतु देवो नराशंसोऽग्नौ वसुधेयस्य वेतु” इति । एवमुभयत्रैवाग्निविभक्तीः कृत्वा यावाज्यभागौ ये च पत्नीसंयाजस्ते सर्वे प्रकृतिवदेवानुष्ठेया न स्वाग्नेयत्वाय तत्र प्रयतितव्यम् । एवं सति तत्पुनराधेयकर्माग्निविषयविभक्ति सद्भावा द्वैश्वानरवदग्नियुक्तगत एवातिशयेन प्रजननवच्च कृतं भवतीत्येवं स्वमतदार्ढ्यं संपादितम् । अत्र सर्वाग्नेयत्वादिनां चोद्यमुद्भावयति- तदा॑हुः । व्यृ॑द्धं वा ए॒तत् । अना॑ग्नेयं॒ वा ए॒तत्क्रिय॑त इति॑, इति । द्वितीयाज्यभागस्याऽऽग्नेयत्वं पत्नीसंयाजानां चाग्निव्यक्तत्वं यदि न क्रियते तदानीमेतत्पुनराधेयमनाग्नेयं स्यात् । एतच्च समृद्धिहीनमिति वादिनां चोद्यं तस्योत्तरमाह- नेति॑ ब्रूयात् । अग्निं प्रथ॒मं विभ॑क्तीनां यजति । अ॒ग्निमु॑त्त॒मं पत्नी॑संया॒जानाम्॑ । तेना॑ऽऽग्ने॒यम् । तेन॒ समृ॑द्धं क्रियत॒ इति॑ (६), इति ।
१०८ (१.३.१) तैत्तिरीयब्राह्मणम् अरु॑न्धतै॒व तद्दे॒वति॑ संभृतसंभा॒र इत्या॑हु॒र्ऋच्छ॑ति पत्नीसंया॒जा नव॑ च । इति कृष्णयजुर्वेदीयतैत्तिरीब्राह्मणे प्रथमाष्टके तृतीयाध्याये प्रथमोऽनुवाकः ॥ १ ॥ एतत्पुनराधेयमस्मदुक्तप्रकारेणाऽऽज्यभागयोः पत्नीसंयाजानां च यथा पूर्वत्वेऽपि समृद्धिहीनं न भवतीत्युत्तरं ब्रूयात् । कथमिति तदुच्यते । प्रथमं यागादौ प्रयाजगतविभक्तीनां संबन्धित्वादग्निर्यष्टव्यः । अवसाने च पत्नी संयोजेषूत्तममग्निं यजेत् । तत्र च-“अग्निर्होता गृहपतिः” इत्याग्नेयो मन्त्र आम्नातः . अत्र आद्यन्तयोराग्नेयत्वेन तन्मध्यपतितं सर्वमाग्नेयं संपद्यते । तेन पुनराधेयं समृद्धं कुरुते । अत्र मीमांसा । दशमाध्यायस्य चतुर्थपादे चिन्तितम्- बुधन्वत्तादिगुणको देवो वाच्योऽथ केवलः । आद्यो देवगुणत्वेन मैवं मन्त्रगुणत्वतः ॥ (इति) । आधाने पवमानेष्टिष्वाज्यभागौ प्रकृत्य श्रूयते-“ बुधन्वानाग्नेयः कार्यः पाक्वान्सौम्यः” इति । तथा पुनराधेयेऽपि श्रूयत- “बुधन्वत्याग्नेयस्याऽऽ ज्यभागस्य पुरोनुवाक्या भवति” इति । अत्र निगमेषु “ बुधन्वन्तमग्निमावह पावकवन्तं सोममावह” इत्येवं सगुणो देवो वक्तव्यः । कुतः । बुधन्वत्तादेर्देवगणत्वात् । तथा हि । बुधशब्दोऽस्यास्तीति बुधन्वान् । न खल्वाज्यभागस्य देवताद्वारेण विना साक्षाद् बुधशब्दत्वं संभवति । तस्मादेव गुणत्वात्सगुणो देवो वक्तव्यः । मैवम् । बुधन्वत्तादेर्मन्त्रगुणत्वात् । न ह्यत्राऽऽ ग्नेयशब्दो यागपरः । किं तु मन्त्रपरः । संभवति हि मन्त्रस्य साक्षादेव बुधशब्दप्रयोगः “अग्नि ँ स्तोमेन बोधय” इत्यस्मिन्मन्त्रे बुधिधातोः प्रयुक्तत्वात् । बुधन्वता विधिना चाऽऽग्नेयं मन्त्रान्तरं निवर्त्यते । न च तद्धितान्त आग्नेयपद उपसर्जनभूतो देवतावाचकोऽग्निशब्दो बुधन्वच्छब्देन विशेष्टुमर्हति । तस्मात्केवलोऽग्निशब्दो निगमे पठितव्यः ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे तृतीयप्रपाठके प्रथमोऽनुवाकः ॥ १ ॥
तैत्तिरीयब्राह्मणम् (१.३.२) १०९ अथ तृतीयप्रपाठके द्वितीयोऽनुवाकः । प्रथमेऽनुवाके पुनराधेयशेषोऽभिहितः । द्वितीयमारभ्य नवमान्ते षट्स्वनुवाकेषु यद्वाजपेयब्राह्मणमाम्नातं तस्य संहितायां प्रथमकाण्डे सप्तमे प्रपाठके समाम्नातैर्मन्त्रैः सहास्माभिर्व्याख्यातत्वात्तत्रैवाक्षरार्थो द्रष्टव्यः । तात्पर्यं त्वनुवाकानामिहैवादौ संगृहीतम् । (इत्थं षट्स्वनुवाकेषु दार्शिकयाजमानब्राह्मणशेषो वर्णितः। अथ देव सवितः प्रसुवेत्यादिषु षट्सु वाजपेयविषया आध्वर्यवमन्त्रा उच्यन्ते । तत्रास्मिन्सप्तमेऽनुवाके रथविषया मन्त्राः कथ्यन्ते । तेषां वाजपेयमन्त्राणां व्याख्यानं ब्राह्मणग्रन्थप्रथमकाण्डे तृतीयप्रपाठके द्वितीयमारभ्य नवमान्तेषट्स्वनुवाकेष्वाम्नातम् । तत्र वाजपेयविधिर्ग्रहविधिः पञ्चविधिश्चाऽऽद्येषु त्रिष्वनुवाकेषु क्रमेणाऽऽम्नातः । अनयोर्वाजपेयविषययोर्मन्त्रब्राह्मणयोरत्यन्तविप्रकृष्ट- देशवर्तित्वेन बुद्धिसंनिध्याभावाच्छ्रोतॄणां प्रतिपत्तिसौकर्याय पूर्वोक्तदार्शिक सौमिककाण्डवद्ब्राह्मणेन सहैव मन्त्रा व्याख्यायन्ते । तत्र च ब्राह्मणप्रथमानुवाके वाजपेयं विधातुं प्रस्तौति- दे॒वा वै यथा॑दर्शं य॒ज्ञानाह॑रन्त । यो॑ऽग्नि॒ष्टोम॑म् । य उ॒क्थ्य॑म् । यो॑ऽति॑रा॒त्रम् । ते स॒हैव सर्वे॑ वाज॑पेय॒मप॑श्यन् । ते । अ॒न्यो॒न्यस्मै॒ नाति॑ष्ठन्त । अ॒हम॒नेन॑ यजा॒ इति॑ । तेऽब्रुवन् । आ॒जिम॒स्य धा॑वा॒मेति॑ (१) । तस्मि॒न्नाजिं॒ म॑धावन् । तं बृह॒स्पति॒रुद॑जयत् । तेना॑यजत । स स्वा॒रा॒ज्यम॑गच्छत् । तमिन्द्रोऽब्रवीत् । माम॒नेन॑ याज॒येति॑ । तेनेन्द्र॑मयाजयत् । सोऽग्रं॑ दे॒वता॑नां॒ पर्यै॑त् । अग॑च्छत्स्वा॒रा॒ज्य॑म् । अति॑ष्ठन्तास्मै॒ ज्यैष्ठ्या॑य (२), इति॑ । देवानां मध्ये कश्चिदग्निष्टोमं ददर्श । अन्य उक्थमपरोऽतिरात्रम् । ते च स्वस्वदर्शनमनतिक्रम्य तान्यज्ञानाहरन्तानुष्ठितवन्तः । ते देवाः सर्वे सहैव वाजपेयं दृष्ट्वाऽहमेव प्रथमेन वाजपेयेन यथा इत्येवं विवदमानाः परस्परं प्रथमानुष्ठातृत्वलक्षणाय ज्यैष्ठ्याय नातिष्ठन्त ज्यैष्ठ्यं नाङ्गी चक्रुः । ततः एव समयं चक्रुरस्माकं मध्य आजिं धावनेन यः कश्चिज्जयति स इति ज्येष्ठोऽस्त्विति । आजिर्धावनप्रदेशस्यावधिर्भूतविशेषः । एवं समर्थ कृत्वा तस्मिन्वाजपेये विषये विजयायाऽऽ जिमधावन् । तत्र तं वाजपेयं प्रति धावन्वृहस्पतिरुत्कर्षेणाजयत् । इतरेभ्यः प्रतमयंवधिं पस्पर्ध । ततः
११० (१.३.२) तैत्तिरीयब्राह्मणम् प्रथमं स एव तेन वाजपेयेनेष्ट्वा स्वाराज्यमपारतन्त्र्यरूपं माहाराज्यमगच्छत् तत इन्द्रस्तं बृहस्पतिं संप्राप्य तेन वाजपेयेनेष्ट्वा देवानां मध्ये ज्येष्ठत्वं पारतन्त्र्येण स्वर्गाधिपत्यलक्षणस्वाराज्यं चागच्छत् । अस्येन्द्रस्य ज्यैष्ठ्यमितरे सर्वे देवा मात्सर्यं परित्यज्याङ्गीचक्रुः । य ए॒वं वि॒द्वान्वा॑जपे॒येन॒ यज॑ते । गच्छ॑ति॒ स्वारा॑ज्यम् । अग्रँ॑ समा॒नानां॒ पर्ये॑ति । तिष्ठ॑न्तेऽस्मै॒ ज्यैष्ठ्या॑य, इति । अधिकारविशेषविधिमुन्नयति- स वा ए॒ष ब्रा॑ह्म॒णस्य॑ चैव राज॒न्य॑स्य च य॒ज्ञः, इति । स बृहस्पतिनाऽनुष्ठितः । एष इन्द्रेणानुष्ठितः देवानां मध्ये बृहस्पतिर्ब्रा ह्मणजात्यभिमानी, इन्द्रः क्षत्रियजात्याभिमानी, ताभ्यामेवानुष्ठितत्वा- न्मनुष्येष्वपि ब्राह्मणराजन्ययोरेवात्राधिकारो नतु वैश्यस्य । अत वाऽ ऽपस्तम्ब आह-"शरदि वाजपेयेन यजेत् ब्राह्मणो राजन्यो वर्द्धिकामः" इति । नामनिर्वचनं दर्शयति- तं वा ए॒तं वाज॑पेय॒ इत्या॑हुः । वा॒जाप्यो॒ वा ए॒षः । वाजँ॒ ह्ये॑तेन॑ दे॒वा ऐप्सन्॑, इति । वाजो देवान्नस्वरूपः सोमः पेयो यस्मिन्यागे स वाजपेय इत्येकं निर्वचनम् । यस्मादेतेन यज्ञेन देवा वाजं फलरूपमन्नप्राप्तु- मैच्छंस्तस्मादन्नरूपो वाजः पेयः प्राप्यो येन स वाजपेय इत्यपरनिर्वचनम् । सोमस्यैतद्यागसाधनत्वातदभेदेन यागं तद्धेनं च स्तौति- सोमो॒ वै वाज॑पेयः । यो वै सोमं॒ वाज॑पेयं॒ वेद॑ (३)। वाज्ये॑वै॒नं पी॒त्वा भव॑ति । आऽस्य॑ वा॒जी जा॑यते, इति । एनं वाजपेयगतं सोमं फलभूतान्नाभेदोपचारेण स्तौति- अन्नं॒ वै वाज॑पेयः । य ए॒वं वेद॑ । अत्यन्न॑म् । आऽ स्यान्ना॒दो जा॑यते, इति । यागप्रतिपादकवेदाभेदोपचारेण स्तौति-
तैत्तिरीयब्राह्मणम् (१.३.२) १११ ब्रह्म॒ वै वाज॑पेयः । य ए॒वं वेद॑ । अति॑ ब्रह्म॒णाऽन्न॑म् । आ॒ऽस्य॑ ब्रह्म॒ जाय॑ते (४), इति । ब्रह्मणा वेदाध्ययनसंपादितया गुरुदक्षिणयेत्यर्थः । ब्रह्मा वेदाध्यापकः । मन्त्रोच्चारणसाधनभूतवाग्भेदोपचारेण स्तौति- वाग्वै वाज॑स्य प्र॒सव॑: । य ए॒वं वेद॑ । क॒रोति॑ वा॒चा वी॒र्य॑म् । एनं॑ वा॒चा ग॑च्छति । अपि॑वतीं॒ वाचं॑ वदति, इति । देव सवितः प्रसुवेत्यादिमन्त्ररूपा वागेव वाजस्य वाजपेयस्य प्रसव उत्पत्तिहेतुः । य एतद्वेदिता स तया सभायां पाण्डित्यरूपतया वाचा वीर्यमतिशयं करोति । सभागताश्च विद्वत्संघः स्तुतिरूपया वाचा युक्तमेममागच्छति । बहुधा प्रशंसतीत्यर्थः । पुनरपि वाजपेयवाक्यं श्रोष्यामि तदर्थं ज्ञास्याम्यनुतिष्ठामीत्येतादृशीं पुनरपीत्यपिशब्दोपेतां वाचं सर्वदा वदति । श्रद्धालुर्भवतीत्यर्थः । एकादशानुवाकगतानामुज्जितिमन्त्राणां पाठं विधातुं प्रस्तौति । प्र॒जाप॑तिर्दे॒वेभ्यो॑ य॒ज्ञान्व्यादि॑शत् । स आ॒त्मन्वाज॑पेय॒मध॑त्त । तं दे॒वा अ॑ब्रुवन् । ए॒ष वाव य॒ज्ञः । यद्वाज॑पेयः (५) । अप्ये॑व नो॒ऽत्रा॑स्त्विति॑ । तेभ्य॑ ए॒तानुज्जि॑तीः प्राय॑च्छत्, इति । प्रजापतिरितरेभ्यो देवेभ्योऽग्निष्टोमादीन्यज्ञान्विभज्य दत्वा वाजपेयं स्वस्मिन्नेव स्थापितवान् । देवाश्च वाजपेय एव मुख्यो यज्ञोऽतोऽस्माकमप्यत्र भागोऽस्त्वित्यब्रुवन्, स च तेभ्य उज्जितिमन्त्रान्प्रायच्छत् । विधत्ते- ता वा ए॒ता उज्जि॑तयो॒ व्याख्या॑प्यन्ते । य॒ज्ञस्य॒ सर्व॑त्वाय॑ । दे॒वता॑ना॒मनिर्भागाय, इति । व्याख्यायन्ते व्याख्यापयेरन्पठनीया इत्यर्थः । तत्पाठेन यज्ञस्य सर्वत्वमवैकल्यं भवति । देवताश्च भगयुक्ता भवन्ति । तेषु मन्त्रेष्वग्निरश्विनौ । विष्णु सोम इत्येवं तद्भागभाजो देवता आम्नाताः । अयं विधिरापस्तम्बेन स्पष्टं दर्शितः-“अग्निरेकाक्षरेणेति
११२ (१.३.२) तैत्तिरीयब्राह्मणम् धावत्सूर्जिनीर्यज वाचयति” इति । उज्जतिमन्त्राणां रथधावनकाले पठनीयत्वाद्धावन-विधिसमीप एवायं विधिरुत्क्रष्टव्यः । अस्य च विध्युत्कर्षस्य प्रसङ्गेन बुद्धिस्थं पुरुषार्थत्वेन क्रतुप्रकरणादुत्क्रष्टव्यं कंचित्प्रतिग्रहनिषेधं विधित्सुः प्रस्तौति- दे॒वा वै ब्रह्म॑णश्चान्न॑स्य च॒ शम॑लमपा॑घ्नन् । यद्ब्रह्म॑णः शम॑लमासी॑त् । सा गाथा॑ नाराश॒ꣳस्य॑भवत् । यदन्न॑स्य । सा सुरा॑ (६) , इति । ब्रह्मणो वेदस्य, शमलं मलिनभागम्, अपाघ्नन्नपनीतवन्तः । नराणां राजामात्यादीनामासमन्तात्प्रशंसनं नाराशंसस्तद्विषया गीर्नाराशंसी । प्रतिग्रहनिषेधं विधत्ते- तस्मा॑द्रा॒र्यत॑श्च म॒त्तस्य॑ च॒ न प्रति॑गृह्णीयात् । यत्प्रति॑गृह्णी॒यात् । शम॑लं॒ प्रति॑गृह्णीयात्, इति । यस्माल्लौकिकमनुष्यविषयगानसुरे मलरूपे तस्मात्तादृशगानपरस्य सुरापानमत्तस्य च धनं न प्रतिगृह्णीयात् । प्रकारान्तरेण वाजपेयं प्रशंसति- सर्वा॒ वा ए॒तस्य॒ वाचोऽव॑रुद्धाः। यो वा॑जपेय॒याजी॑ । या पृ॑थि॒व्यां याऽग्नौ॒ या र॑थंतरे । या॒ऽन्तरि॑क्षे या वा॒यो या वा॑मदे॒व्ये॑ । या दि॒वि याऽऽदि॒त्ये या बृ॑ह॒ति । याऽप्सु यौष॑धीषु या वन॒स्पति॑षु, इति । पृथिव्यन्तरिक्षद्युरूपं यल्लोकत्रयं तदभिमानिदेवतात्रयं रथंतरवामदेव्यबृहद्रूपमुक्तलोकाभिमानिदेवताप्रियं यत्सामत्रयमबोषधि- वनस्पतिरूपं यद्यागोपयुक्तद्रव्यत्रयं तस्य सर्वस्य संबन्धिन्यो वा वाचस्ताः सर्वा एतस्य वाजपेययाजिनोऽवरुद्धाः संपन्नाः । तत्र सामसंबन्धिन्यो वाचस्तदाश्रयभूता ऋच एव । पृथिव्यै त्वाऽन्तरिक्षाय त्वा दिवे त्वत्येते यूपोक्षणमन्त्राः पृथिव्यादिविषया वाचः । अग्न आयूंषीत्यादिराग्ने यातिग्राह्यमन्त्राऽग्निविषया वाक् । आ वायो भूषेति ग्रहान्तरमन्त्रो वायुविषया वाक् । तुरीयादित्यसवनं त इन्द्रियमित्याग्रहान्तरमन्त्र आदित्यविषया वाक् । आप उन्दन्वित्यादिरब्बिषया वाक् । ओषधे
तैत्तिरीयब्राह्मणम् (१.३.३) ११३ त्रायस्वैनमित्योषधिविषया वाक् । सूपस्था देवो वनस्पतिरित्यादिवनस्पतिविषया वाक् । एवं पृथिवी दीक्षेत्यादयो बहव उदाहार्याः । तदेवं सर्ववागवरोधाद्वाजपेयः प्रशस्तः । तामिमा प्रशंसामुपसंहरति- तस्मा॑द्वाजपेयया॒ज्या॒र्त्विजी॑नः । सर्वा॒ ह्य॑स्य॒ वाचोऽ- व॑रुद्धाः (७), इति । ऋत्विजीनो वाजपेयं यष्टुं प्रशस्तान्ऋत्विजोऽर्हति वाजपेयेनेष्ट्वा परार्थमार्त्विज्यं चार्हति । धावामेति॒ ज्यैष्ठ्या॑य॒ वेद॒ ब्र॒ह्मा जा॑यते वाज॒पेयः॑ सुराऽऽ र्त्विजीन एकं॑ च । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके तृतीयाध्याये द्वितीयोऽनुवाकः ॥ २ ॥ अथ तृतीयाध्याये तृतीयोऽनुवाकः । इत्थमेकेनानुवाकेन वाजपेय· विहितः । अथान्येनानुवाकेन ग्रहविशेषा विधीयन्ते, तत्रातिग्राह्यान्विधातुं प्रस्तौति - दे॒वा वै यद॒न्यैर्ग्रहै॑र्य॒ज्ञस्य॒ नावा॑रुन्धत । तद॑तिग्रा॒ह्यैर॑ति ग्रा॒ह्यावा॑रुन्धत । तद॑तिग्रा॒ह्या॑णामतिग्राह्य॒त्वम्, इति । अन्यैरैन्द्रवायवादिग्रहैर्यत्फलं न . प्राप्नुवंस्तदपि फलमतिग्राह्यसंज्ञकैर्ग्रहैरतिशयेन गृहीत्वा स्वाधीनं कृतवन्तः । इतरग्रहानतिक्रम्य दुष्प्रापं फलं गृह्णत एभिरित्यतिग्राह्याः । विधत्ते- यद॑तिग्रा॒ह्या॑ गृह्यन्ते॑ । यदे॒वान्यैर्ग्रहै॑र्य॒ज्ञस्य॒ नार्वा॑रुन्धे । तदे॒व तैर॑ति॒गृह्याव॑रुन्धे, इति । प्रकृतिगतानामग्न्यैन्द्रसौर्याणामतिग्राह्याणां चोदकादेव प्राप्तत्वात्त- द्विधित्व भ्रान्तिव्युदासाय संख्याविशेषं विधत्ते- पञ्च॑ गृह्णन्ते । पा॒ङ्क्तो य॒ज्ञः । यावा॑ने॒व य॒ज्ञः । तमा॒प्तवाऽव॑रुन्धे (१), इति ।
११४ (१.३.३) तैत्तिरीयब्राह्मणम् धानाः करमित्यादिब्राह्मणोदाहरणेन यज्ञस्य पाङ्क्तत्वमसकृद्दर्शितम् । वक्ष्यमाणैरिन्द्राय जुष्टं गृहामीत्येतादृशैरैन्द्रलिङ्गकैर्मन्त्रैरेव तद्ग्रहणं विधत्ते- स॒र्वे॑ ऐन्द्रा॒ भव॑न्ति । एक॑धैव॒ यज॑मान इन्द्रि॒यं द॑धति, इति । सर्वेषामेकदेवताकत्वेनैकविधेन्द्रियधारकत्वम् । ग्रहान्तराणि विधत्ते- स॒प्तद॑श प्राजाप॒त्या ग्रहा॑ गृह्यन्ते । स॒प्त॒द॒शः प्र॒जाप॑तिः । प्र॒जाप॑तेरा॒प्त्यै, इति । प्रजापतेः सप्तदशत्वं यो वै सप्तदशमित्यत्रोपपादितम् । वक्ष्यमाणमयाविष्ठा इत्यादिकामृचं कुविदङ्गेत्यदिकां च विषयविशेषेण व्यवस्थितां विधत्ते- एक॑य॒र्चा गृ॑ह्णाति । एक॑धैव यज॑माने वी॒र्य॑ दधाति, इति । तेषु ग्रहेषु द्रव्यद्वयं विधत्ते- सो॒म॒ग्र॒हा ँश्च॑ सुराग्रहा ँश्च॑ गृह्णाति । ए॒तद्वै दे॒वानां॑ पर॒ममन्न॑म् । यत्सोमः॑ (२) । ए॒तन्मनु॑ष्याणाम् । यत्सुरा॑ । प॒र॒मेणै॒वास्मा॒ अन्नाद्ये॒नाव॑र॒मन्नाद्य॒मव॑रुन्धे, इति । मनुष्याणामधमजातीनामिति शेषः । शालिमुद्गादिकं परमान्नं यावानन्नलप्रियंग्वादिकमवरम् । यदा परमान्नसंपत्तिस्तदानीमवरान्नसंपत्तिः किमु वक्तव्या । उक्तग्रहप्रकारश्चाऽऽपस्तम्बेन स्पष्टीकृतः" ऐन्द्रमतिग्राह्यं गृहीत्वोपचयमिगृह्णीतोऽसि नृषदं त्वेति पञ्चैन्द्रनतिग्राह्यान्गृह्णाति तेषां पूर्ववत्कल्पः, षोडशिनं गृहीत्वाऽयाविष्ठा जनयन्कर्वगणीति सप्तदश प्राजापत्यान्गृह्णाति तेषां षोडशिवत्कल्पः, कुविदङ्गेत्यपरस्मिन्खरं प्रतिप्रस्थाता सप्तदशभिरुपयामैः सुराग्रहान्गृह्णति" इति । द्विविधग्रहविधिमनूद्य प्रशंसति- सो॒म॒ग्र॒हान्गृ॑ह्णाति । ब्रह्म॑णा वा ए॒तत्तेजः॑ । यत्सोमः॑ ।
तैत्तिरीयब्राह्मणम् (१.३.३) ११५ ब्रह्म॑ण ए॒व तेज॑सा॒ तेजो॒ यज॑माने दधाति । सु॒रा॒- ग्र॒हान्गृह्णा॑ति । अन्न॑स्य॒ वा ए॒तच्छम॑लम् । यत्सुरा॑ (३) । अन्न॑स्यै॒व शम॑लेन शम॑लं॒ यज॑माना॒दपं॑ हन्ति, इति । ब्रह्मणो ब्राह्मणस्योचितं तेजः सोमोऽत एव तदभावे व्रात्यत्वमाम्नायते- ‘यस्य पिता पितामहो वा सोमं नापिबत्स व्रात्यः’ इति । प्रकारान्तरेण विधिद्वयं प्रशंसति- सोम॑ग्र॒हाꣳ॑श्च सुराग्र॒हाँश्च॑ गृह्णाति । पुमा॒न्वै सोमः॑ । स्त्री॒ सुरा॑ । तन्मि॑थु॒नम् । मि॒थु॒नमे॒वास्य॒ तद्य॒ज्ञे क॑रोति प्र॒जन॑नाय । आ॒त्मान॑मे॒व सौमग्रहैः स्पृ॑णोति । जा॒याँ सु॒राग्र॑हैः । तस्मा॑द्वाजपेयया॒ज्यामुष्मिँ॑ल्लो॒के स्त्रियँ॑ संभ॑वति । वा॒ज॒पे॒या॒भि॒जि॒तꣳ॒ह्यस्य॑ (४) इति । स्पृणोति प्रीणयति । तस्माज्जायाभिनिदेवतायाः सुराग्रहैस्तोषितत्वा- त्स्वर्गलोके स्वापेक्षितां रम्भादिस्त्रियमनुभवति तदेतत्सामर्थ्यमस्य युक्तं वाजपेयेन संपादितत्वात् । वर्गद्वयस्य पूर्वोत्तरकालविशेषं स्थानविशेषं च विधत्ते- पूर्वे॑ सो॑मग्र॒हा गृ॑ह्यन्ते । अप॑रे सुराग्र॑हाः । पु॒रोक्षँ॑ सौमग्र॒हान्त्साद॑यति । प॒श्चाद॒क्षꣳ सु॑राग्र॒हान् । पा॒प॒व॒स्य॒सस्य॒ विधृ॑त्यै, इति । पुरोक्षं शकटस्याधस्तादक्षस्य पुरः । पापं सुराग्रहरूपं निन्दितं कर्म, वस्यस वसुमत्तरं सामग्रहरूपं पुण्यं कर्म , तयोर्विधृत्यै विभागेन धारणाय । व्यतिषङ्गं विधत्ते- ए॒ष वै यज॑मानः। यत्सोमः॑ । अन्नँ॒॑ सुरा॑ । सोम॑ ग्र॒हाꣳ॑ श्च॑ सुराग्र॒हाꣳश्च॒ व्यति॑षजति । अन्नाद्यै॒नैवै॑नं व्यति॑ष॒ज॒ति (५), इति । व्यतिषङ्गप्रकार आपस्तम्बेन दर्शितः-“व्यतिषङ्गं सोमग्रहैः सुराग्र
११६ (१.३.३) तैत्तिरीयब्राह्मणम् हान्गृह्णाति पूर्वोऽध्वर्युर्गृह्णाति जघन्यः प्रतिप्रस्थाता" इति । व्यतिषङ्गं व्यतिषज्येत्यर्थः । अध्वर्युणा प्रथमे सोमग्रहे गृहीते सति प्रतिप्रस्थाता प्रथमं सुराग्रहं गृह्णीयात् । ततो द्वितीये द्वितीयं सोऽयं व्यतिषङ्गः । अध्वर्योरुदद्रवणस्य विधास्यमानस्य मन्त्रमुत्पा (पपा?) द्य व्याचष्टे- संपृच॑ः स्थ॒ सं मा॒ भद्रे॑ण पृङ्क्तेत्या॑ह । अन्नं॒ वै भ॒द्रम् । अ॒न्नाद्ये॑नै॒वैनं॑ ँस ँसृ॑जति, इति । हे सोमग्रहा यूयं संपृचः स्थ संपर्कयोग्याः स्थ । अतो मां भद्रेण श्रेयसाऽन्नेन संपृक्त संयोजयत । प्रतिप्रस्थातुरुदद्रवणस्य विधास्यमानस्य करणभूतं मन्त्रमुत्पा (पपा ?) दयितुं प्रस्तौति- अन्न॑स्य॒ वा ए॒तच्छर्मलम् । यत्सुरा॑ । पा॒प्मेव॒ खलु॒ वै शर्मलम् । पा॒प्मना॒ वा ए॑नमे॒तच्छर्मलेन॒ व्यति॑षजति । यत्सौ॑मग्र॒हा ँश्च॑ सुराग्र॒हा ँश्च॑ व्यति॒षज॑ति, इति । पाप्मेव पापरूपमेव लोकवेदनिषिद्धत्वात् । मन्त्रमुत्पा (पपा ?) द्य व्याचष्टे- वि॒पृच॑ः स्थ॒ वि मा पा॒प्मना॑ पृङ्क्तेत्या॑ह । पा॒प्मनै॒वैनं॑ ँ शर्मले॑न॒ व्याव॑र्तयति (६) । तस्मा॑द्वाजपे॒यंया॒जी पू॒तो मेध्यो॑ दक्षिण्य॑ः, इति । हे सुराग्रहा यूयं स्थ विभागयोग्याः स्थ । अतो मां पाप्मना विपुङ्क्त विनियोजयत । तस्मात्पापव्यावृत्तत्वादयं शुद्धो यज्ञं दक्षिणां दातुं च योग्यः । अध्वर्युप्रतिप्रस्थात्रोरुद् द्रवणं विधत्ते- प्राङ्द्र॑वति सोमग्र॒हैः। अ॒मुमे॒व तैर्लोक॑म॒भिज॑यति । प्र॒त्यङ्त्सु॑राग्र॒हैः । इ॒ममे॒व तैर्लोक॑म॒भिज॑यति, इति । तदेतदुदद्रवणमापस्तम्बः स्पष्टीचकार-“संपृचः स्थ सं मा भद्रेण पृङ्क्तेति प्राङध्वर्युः सोमग्रहैरुदद्रवति । विपचः स्थ वि मा पाप्मना
तैत्तिरीयब्राह्मणम् (१.३.३) ११७ पृङ्क्तेति प्रत्यङ्प्रतिप्रस्थाता सुराग्रहैराहवनीयं न्यङ्क्ते सोमग्रहैरवतिष्ठन्ते मार्जालीयं न्यङ्क्ते सुराग्रहैः” इति । प्रचारं विधत्ते- प्रति॑ष्ठन्ति सोमग्र॒हैः । याव॑दे॒व स॒त्यम् । तेन॑ सूयते, इति । प्रतिष्ठन्ति प्रचरन्ति जुह्वतीत्यर्थः । सत्यमवश्यंभावि फलं तद्यावदस्ति तेन सर्वेणायं यजमानः सूयते प्रेर्यते कृत्स्नं फलमुद्दिश्य सोमग्रहैर्हुतवान्भवतीत्यर्थः । विधत्ते- वा॒ज॒सृद्भ्यः॑ । सु॒रा॒ग्र॒हान्हर॑न्ति । अनृ॑तेनै॒व विशं॒ ँ स ँ सृ॑जति, इति । वाजसृतोऽन्नस्यार्जयितारो वैश्याः । तेभ्यः सुराग्रहान्सो- मरहितान्दद्युः । सुरायाः शमलत्वेनानृतसदृशत्वाद्विशमधमजातिमम्नृतेनैव संयोजितवान्भवति । दक्षिणाविशेषं विधत्ते- हि॒र॑ण्यपा॒त्रं॒ मधोः॑ पू॒र्णं द॑दाति । मध्व्यो॑ऽसा॒नीति॑, इति । मधुमाक्षिकम् । मध्वादिभोग्यद्रव्ययुक्तो भवानीत्यनेनाभिप्रायेण मधुपूर्र्णं सुवर्णपात्रं दद्यात् । तद्दानस्य कृष्णलदानसाहित्यं विधत्ते- एक॑धा ब्रा॒ह्म॒ण उप॑हरति । एक॑धैव यज॑मा॒न् आयु॒स्तेजो॑ दधाति (७), इति । कृष्णलसाहित्यं चाऽऽपस्तम्बो दर्शयति-“कृष्णलं कृष्णलं वाजसृद् भ्यः प्रयच्छति तानि प्रत्यादाय ब्रह्मणे ददाति मधुष्ठीलं च सौवर्णं शतमानस्य कृतम्” इति । आप्न॒वाऽव॑रुन्धे सोम॑: शम॑लं यत्सु॒रा ह्य॑स्यै॒नं व्यति॑षजति व्याव॑र्तयति सृजति च॒त्वारि॑ च । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके तृतीयाध्याये तृतीयोऽनुवाकः ॥ ३ ॥
११८ (१.३.४) तैत्तिरीयब्राह्मणम् अथ चतुर्थोऽनुवाकः । ग्रहावाधमतेनानुवाकेन समाप्यनुवाकान्तरेण पशून्विधातुं प्रस्तौति- ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । नाग्नि॒ष्टोमो नोक्थ्य॑ः । न षो॒ड॒शी नाति॑रा॒त्रः । अथ॒ कस्मा॑द्वाजपे॒ये सर्वै॑ य॒ज्ञक्रत॑वोऽव॑रुध्यन्त॒ इति॑ । प॒शु॒भिरिति॑ ब्रूयात्, इति । यज्ञशब्देन देशत्यागरूपाः प्रयाजादयः प्रत्येकमभिधीयन्ते । तत्समूहरूप एव फलसाधनात्मा कर्मविशेषः क्रतुः। वेदवादिनो मिलित्वा परस्परमेवं विचारयन्ति । यज्ञाश्च क्रतवश्च सर्वेऽपि वाजपेयेऽन्तर्भूता इत्यस्ति प्रसिद्धिः । तत्कथमुपपद्यते । तथाहि । प्रयाजादीनां दाक्षणीयादिद्वारा तत्रान्तर्भावेऽप्यग्निष्टोमादीनामन्तर्भावात् । तेषां ब्रह्मवादिनां मध्ये कश्चिद् बुद्धिमानेवमुत्तरं ब्रूयात् । अग्निष्टोमादिगतैराग्नेयादिसवनीयपशुभिः क्रतवोऽन्तर्भूता इति । पशून्विधत्ते- आ॒ग्ने॒यं प॒शुमा॑लभते । अ॒ग्नि॒ष्टोम॑मेव तेना॑वरुन्धे । ऐ॒न्द्रा॒ग्नि॒नोक्थ्य॑म् । ऐ॒न्द्रेण॑ षो॒ड॒शिन॑: स्तोत्र॑म् । सा॒र॒स्व॒त्याऽति॑रा॒त्रम् (१) । मा॒रु॒त्या बृ॒हत॑: स्तोत्र॑म् । ए॒ताव॑न्तो॒ वै य॒ज्ञक्रत॑वः । तान्प॒शुभि॑रे॒वाव॑रुन्ध, इति । आग्नेयादयोऽग्निष्टोमादीनां व्यावर्तकाः पशवः । षोडशिनो ग्रहस्य स्तोत्रं तेन स क्रतुरुपलक्ष्यते । सारस्वती मेषी सा चातिरात्रस्य व्यावृत्तिहेतुः । मारुती वशा तयाऽनूबन्ध्यया बृहत्सामसंबन्धि स्तोत्रमवरुन्धे, तेन च स्तोत्रेण वाजपेय उपलक्ष्यते तस्य चासाधारणत्वात् । तानेतान्पशुविधीन्बौधायन उदाहरति-“आश्विनं गृहीत्वा षड्रशना आदाय यूपमभ्यैति स्वर्वन्तं यूपमुत्सृज्याथैनान्पशूनुपाकरो-त्याग्नेयमैन्द्राग्नमैन्द्रं मारुतीं वशां सप्त दश प्रजापत्याञ्स्यामाने-करूपान्सरस्वतीमततः” इति । आपस्तम्बस्त्वाग्नेयादीनां चोदकप्राप्ता-नामनुवादं मत्वा मेषीमारुत्योर्विधिमुदाहरति- “पशुकाले त्रीन्क्रतुपशूनुपाकृत्य मारुतीं वशामुपाकरोति सारस्वतीं च मेषीम्’ इति । आत्मादिप्रीतिहेतुत्वेन भूम्यादिलोकजयहेतुत्वेन तेजःप्रभृतिधारण- हेतुत्वेन च क्रतुपशून्प्रशंसति-
तैत्तिरीयब्राह्मणम् (१.३.४) ११९ आ॒त्मान॑मे॒व स्पृ॑णोत्यग्नि॒ष्टोमे॑न । प्रा॒णा॒पा॒नावु॒क्थ्ये॑न । वी॒र्यँ॑ षोड॒शिन॑: स्तोत्रे॑ण । वाच॑मतिरा॒त्रेण॑ । प्र॒जां बृ॑ह॒तः स्तोत्रे॑ण । इ॒ममे॒व लो॒कम॒भिज॑यत्यग्नि॒ष्टोमे॑न । अ॒न्तरि॑क्षमुक॒थ्ये॑न (२) । सु॒वर्गं लो॒क ँषोड॒शिन॑: स्तोत्रे॒ण॑ । दे॒व॒याना॑ने॒व पथ॒ आरो॑हत्यतिरा॒त्रेण॑ । नाकँ॑ रोहति बृ॒हतः॒ स्तोत्रे॑ण । तेज॑ ए॒वाऽऽत्मन्धे॑त्त आग्ने॒येन॑ प॒शुना॑ । ओजो॒ बल॑मैन्द्रा॒ग्नये॑न । इ॒न्द्रि॒यमै॒न्द्रेण॑ । वाचँ॑ सारस्व॒त्या । उ॒भावे॒व दे॑वलो॒कं च॑ मनुष्यलो॒कं चा॒भिज॑यति मारु॒त्या व॒शया॑, इति । अत्राग्निष्टोमेनेत्यादिशब्दैस्तन्निष्पादका आग्नेयादिपशवो विवक्षिताः । पशुविधेः प्रस्तुतत्वात् । आग्नेयेन पशूनेत्यन्तिमपर्याय (ये) विधानाच्च । विधत्ते- स॒प्तद॑श प्राजाप॒त्यान्प॒शूनाल॑भते । स॒प्तद॑शः प्र॒जाप॑तिः (३) । प्र॒जाप॑तेरा॒प्त्यै, इति । तेषु पशुषु गुणद्वयं वाक्यभेदमङ्गीकृत्य विधत्ते- श्या॒मा एक॑रूपा भवन्ति । ए॒वमि॑व॒ हि प्र॒जाप॑तिः समृ॑द्ध्यै, इति । पशूनामेकरूपत्वं नामैकविधशृङ्गपुच्छादिभिर्युक्तत्वम् । प्रजापतिशब्देनात्रत्वरस्य हिरण्यगर्भशरीराद्यभिव्यक्तेः प्रागवस्था विवक्ष्यते, सा चावस्था श्यामेव भवति . तम आसीत्तमसा गूढमिति श्रुतेः। जगद्रूपस्य नानात्वस्यानुत्पत्तेरेकरूपत्वम्, एकमेवाद्वितीयमिति श्रुतेः । पशूनां जगदीश्वरेण साम्ये सति समृद्धिर्भवति । प्रकृतिभूतेऽग्नीषोमीये . पशौ पर्यग्निकरणादूर्ध्वमविलम्बेना ऽऽलम्भस्य विहितत्वात्, अत्रापि चोदकपरम्परया तत्प्राप्तौ सहसाऽऽलम्भनं निषेधति- तान्प॒र्य॑ग्निकृ॒तानुत्सृ॑जति, इति ।
१२० (१.३.४) तैत्तिरीयब्राह्मणम् तदानीं नाऽऽलभेतैत्यर्थः । आलम्भस्य व्यवधाने कारणमाह- म॒रुतो॑ य॒ज्ञम॑जिघा ँ स॒न्प्रजाप॑तेः । तेभ्य॑ ए॒तां मारु॒तीं व॒शामार॑भत । तयै॒वैना॑नशमयत् इति । सप्तदशप्रजापतिरूपो, यः प्रजापतेर्यज्ञस्तं यज्ञं मरुतः पर्यग्निकरणादूर्ध्वं हन्तुमुद्यताः । तदानीमुत्कोचरूपेण प्रजापतिर्मरुद्भ्यो वशामालभत, क्रुद्धान्मरुतस्तया वशया शमितवान् । प्राजापत्यानां संज्ञपनकालं विधत्ते- मारु॒त्या प्र॒चर्य॑ । तान्संज्ञ॑पयेत् । म॒रुत॑ ए॒व श॑म॒यित्वा (४) ए॒तैः प्र॑चरति । य॒ज्ञस्याघा॑ताय, इति । प्रचर्य मारुत्य वशाया वपां हुत्वेत्यर्थः । सप्तदशानां वपानां सह प्रचारं विदधाति- एक॑धा व॒पा जु॑होति । एक॑दे॒वत्या॑ हि । ए॒ते । अथो॑ एक॑धैव यज॑माने वी॒र्यं॑ दधति, इति । विधत्ते- नै॒वारे॑ण स॒प्तद॑शशरावेणैत॒र्हि प्र॑चरति । ए॒तत्पु॑रोडाशा॒ ह्ये॑ते । अथो॑ पशूनामे॒व च्छिद्र॒मपि॑दधाति, इति । नीवारैर्निष्पन्नश्चरुर्नैवारः, सप्तदशसंख्याकैः शरावैर्निरुप्तः सप्तदशशरावः, तेनैव चरुणैतर्हि प्राजापत्यवपाहोमादूर्ध्वं प्रचरेत् । एष एव चरु पशुपुरोडाशस्थानीयो तेषां प्राजापत्यपशूनां त एतत्पुरोडाशा अतः प्रकृतौ यथा वपया प्रचर्य पुरोडाशेन प्रचरति तद्वदत्रापि । किंच वपोत्खेदात्पशूनां यच्छिद्रं कर्मवैकल्यं भवति तदेतेन चरुणाऽपिहितं भवति । सारस्वस्या मेष्याङ्गप्रचारस्य कालविशेषं विधत्ते- सा॒र॒स्व॒त्यात्त॒मया॑ प्र॑चरति । वाग्वै सर॑स्वती ।
तैत्तिरीयब्राह्मणम् (१.३.५) १२१ तस्मा॑त्प्रा॒णानां॒ वागु॑त्त॒मा । अथो॑ प्र॒जाप॑तावे॒व य॒ज्ञं प्र॒तिष्ठा॑पयति । प्र॒जाप॑ति॒र्हि वाक्, इति । सारस्वती यथोत्तमा चरमा भवति तथा प्रचरेत् । सप्तदशपश्वङ्गप्रचारादूर्ध्वं प्रचरेदित्यर्थः । यस्मात्सारस्वत्या उत्तमत्वं तस्माल्लोकेऽपि सस्वती रूपा वाक्प्राणापानचक्षुःश्रोत्रादीनां मध्य उत्तमा, सभामध्ये विद्वदयात्यादेर्वाग्मिनः प्रागल्भ्यदर्शनात् । किंच प्रजापतेः सरस्वतीपतित्वात्तद्भेदोपचारेण वाग्रूपत्वे सति सारस्वत्या समापनेन प्रजापतावेव यज्ञः समापितो भवति । सारस्वत्या मेष्याः किं (कं) चिद्गुणं विधत्ते- अप॑न्नदती भवति । तस्मा॑न्मनु॒ष्या॑: स॒र्वां॒ वाचं॑ वदन्ति (५), इति । अपतितदन्तोपेता मेषी कार्या । लोकेऽप्यपतितदन्ताः पुरुषाः सर्वाक्षराणि यथोक्तस्थानप्रयत्नोपेतान्येवोच्चारयन्ति । अ॒ति॒रा॒त्रम॒न्तरि॑क्षम॒क्थ्यै॑न प्र॒जाप॑तिः शमयित्वोत्त॒मया॒ प्रच॑रति॒ षट् र्चं । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके तृतीयाध्याये चतुर्थोऽनुवाकः ॥ ४ ॥ अथ तृतीयाध्याये पञ्चमोऽनुवाकः । तदेवं ब्राह्मणगतेनानुवाकत्रयेण वाजपेयगता विधय निरूपिताः । अथ मन्त्रव्याख्यानरूपान्ब्राह्मणानुवाकांस्तत्तन्मन्त्रैः सहैवोदाहरामः । तत्र प्रथममन्त्रस्य विनियोगं बौधायन आह- ‘दीक्षणीया निर्वप्स्यन्सावित्रं जुहोति- दे॒वं स॑वि॒तः प्रसु॑व य॒ज्ञं प्रसु॑व य॒ज्ञप॑तिं॒ भगा॑य दि॒व्यो ग॑न्ध॒र्वः । के॒त॒पूः केतं॑ नः पुनातु वा॒चस्पति॒र्वाचं॑म॒द्य स्व॑दाति नः ॥ स्वाहेति, दीक्षाहुतीर्होमन्सावित्रं जुहोति, प्रायणीया निर्वप्स्यन्सावित्रं जुहोति” इति । हे सवितर्देव प्रेरकान्तर्यामिन्नस्मदीयं वाजपेययज्ञं प्रवर्तय, यज्ञपतिं यजमानं भगयानुष्ठानरूपायैश्वर्याय । दिवि भवो यो गन्धर्वः सवितुरनुग्रहात्केतान्पुनाति प्राणिनो विज्ञानानि शोधयति स्म सोऽस्माकं केतं वाजपेयविज्ञानं पुनातु शोधयेत् (शोधयतु)। वाचस्पतिश्च सवित्राऽनुज्ञातोऽद्यास्मिन्कर्मणि वाचमस्माभिः
१२२ (१.३.५) तैत्तिरीयब्राह्मणम् पठितान्वाजपेयमन्त्रान्स्वदाति स्वदयतु यथावत्सादयतु । अनेन मन्त्रेण होमं विधत्ते- सा॒वि॒त्रं जु॑होति॒ कर्म॑णः कर्मण पुर॒स्ता॑त्, इति । तदेतद्बौधायनेनैवोदाहृतम् । तत्तत्कर्मादौ होममुपपादयति- कस्तद्द्वे॒देत्या॑हुः । यद्वा॑ज॒पेय॑स्य॒ पूर्वं॒ यदप॑र॒मिति॑ । स॒वि॒तृप्र॑सूत एव यथापूर्वं॒ कर्मा॑णि॒ करोति॑, इति । बद्धक्रमैश्चौदकप्राप्तैः प्रत्यक्षविहितैश्चोदकस्य वाजपेयस्य यदङ्गं पूर्वभावि यच्च पश्चाद्भावि तन्मनुष्यः को वेदेति बुद्धिमन्त आहुः । सावित्रहोमे तु कृते सविता प्रेरित एव सन्क्रममनुल्लङ्घ्य कृतवान्भवति प्रतिकर्म । तमेतं होमं कर्तुमशक्तं प्रति पक्षान्तरं विधत्ते- सव॑ने सवने जुहोति । आ॒क्रम॑णमे॒व तत्सेतुं यज॑मानः कुरुते । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै, इति । उक्तेन त्रयाणां सवनानामादौ होमेन स्वर्गं प्राप्तुं सेतुस्थानीयमाक्रमणं कृतवान्भवति । अस्य मन्त्रस्यचतुर्थपादे स्वदनस्यान्नविषयस्य वाग्विषयत्वमुपयुक्तमिति शङ्कां निराकर्तुं व्याचष्टे- वा॒चस्पति॒र्वाचं॑म॒द्य स्व॑दाति न् इत्या॑ह । वाग्वै दे॒वानां॑ पुरा॒ऽन्न॑मासीत् । वाच॑मे॒ वास्मा॒ अन्नँ॑ स्वदयति (१), इति । स्तुत्या देवैस्तू (वानां तृ)प्तत्वाद्वाचौ देवान्नत्वम् । कल्पः-"रथ एव दक्षिणे श्रोण्यन्ते रथवाहन आहितो भवति तमुपसादयति- इन्द्र॑स्य वज्रो॑ऽसि॒ वार्त्र॑घ्न॒स्त्वया॒ऽयं वृ॒त्रं व॑ध्यात् " इति । वार्त्रघ्नो वैरिघाती योऽमिन्द्रस्य वज्रः, हे रथैवं त्वमसि । त्वया. सहकारिणा सहितोरथं यजमानो वृत्रं वैरिणं वध्यात् । रथवाहने