तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 143, कुल 345 में से
संदर्भ में पढ़ें११४ (१.३.३) तैत्तिरीयब्राह्मणम् धानाः करमित्यादिब्राह्मणोदाहरणेन यज्ञस्य पाङ्क्तत्वमसकृद्दर्शितम् । वक्ष्यमाणैरिन्द्राय जुष्टं गृहामीत्येतादृशैरैन्द्रलिङ्गकैर्मन्त्रैरेव तद्ग्रहणं विधत्ते- स॒र्वे॑ ऐन्द्रा॒ भव॑न्ति । एक॑धैव॒ यज॑मान इन्द्रि॒यं द॑धति, इति । सर्वेषामेकदेवताकत्वेनैकविधेन्द्रियधारकत्वम् । ग्रहान्तराणि विधत्ते- स॒प्तद॑श प्राजाप॒त्या ग्रहा॑ गृह्यन्ते । स॒प्त॒द॒शः प्र॒जाप॑तिः । प्र॒जाप॑तेरा॒प्त्यै, इति । प्रजापतेः सप्तदशत्वं यो वै सप्तदशमित्यत्रोपपादितम् । वक्ष्यमाणमयाविष्ठा इत्यादिकामृचं कुविदङ्गेत्यदिकां च विषयविशेषेण व्यवस्थितां विधत्ते- एक॑य॒र्चा गृ॑ह्णाति । एक॑धैव यज॑माने वी॒र्य॑ दधाति, इति । तेषु ग्रहेषु द्रव्यद्वयं विधत्ते- सो॒म॒ग्र॒हा ँश्च॑ सुराग्रहा ँश्च॑ गृह्णाति । ए॒तद्वै दे॒वानां॑ पर॒ममन्न॑म् । यत्सोमः॑ (२) । ए॒तन्मनु॑ष्याणाम् । यत्सुरा॑ । प॒र॒मेणै॒वास्मा॒ अन्नाद्ये॒नाव॑र॒मन्नाद्य॒मव॑रुन्धे, इति । मनुष्याणामधमजातीनामिति शेषः । शालिमुद्गादिकं परमान्नं यावानन्नलप्रियंग्वादिकमवरम् । यदा परमान्नसंपत्तिस्तदानीमवरान्नसंपत्तिः किमु वक्तव्या । उक्तग्रहप्रकारश्चाऽऽपस्तम्बेन स्पष्टीकृतः" ऐन्द्रमतिग्राह्यं गृहीत्वोपचयमिगृह्णीतोऽसि नृषदं त्वेति पञ्चैन्द्रनतिग्राह्यान्गृह्णाति तेषां पूर्ववत्कल्पः, षोडशिनं गृहीत्वाऽयाविष्ठा जनयन्कर्वगणीति सप्तदश प्राजापत्यान्गृह्णाति तेषां षोडशिवत्कल्पः, कुविदङ्गेत्यपरस्मिन्खरं प्रतिप्रस्थाता सप्तदशभिरुपयामैः सुराग्रहान्गृह्णति" इति । द्विविधग्रहविधिमनूद्य प्रशंसति- सो॒म॒ग्र॒हान्गृ॑ह्णाति । ब्रह्म॑णा वा ए॒तत्तेजः॑ । यत्सोमः॑ ।