तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 144, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् (१.३.३) ११५ ब्रह्म॑ण ए॒व तेज॑सा॒ तेजो॒ यज॑माने दधाति । सु॒रा॒- ग्र॒हान्गृह्णा॑ति । अन्न॑स्य॒ वा ए॒तच्छम॑लम् । यत्सुरा॑ (३) । अन्न॑स्यै॒व शम॑लेन शम॑लं॒ यज॑माना॒दपं॑ हन्ति, इति । ब्रह्मणो ब्राह्मणस्योचितं तेजः सोमोऽत एव तदभावे व्रात्यत्वमाम्नायते- ‘यस्य पिता पितामहो वा सोमं नापिबत्स व्रात्यः’ इति । प्रकारान्तरेण विधिद्वयं प्रशंसति- सोम॑ग्र॒हाꣳ॑श्च सुराग्र॒हाँश्च॑ गृह्णाति । पुमा॒न्वै सोमः॑ । स्त्री॒ सुरा॑ । तन्मि॑थु॒नम् । मि॒थु॒नमे॒वास्य॒ तद्य॒ज्ञे क॑रोति प्र॒जन॑नाय । आ॒त्मान॑मे॒व सौमग्रहैः स्पृ॑णोति । जा॒याँ सु॒राग्र॑हैः । तस्मा॑द्वाजपेयया॒ज्यामुष्मिँ॑ल्लो॒के स्त्रियँ॑ संभ॑वति । वा॒ज॒पे॒या॒भि॒जि॒तꣳ॒ह्यस्य॑ (४) इति । स्पृणोति प्रीणयति । तस्माज्जायाभिनिदेवतायाः सुराग्रहैस्तोषितत्वा- त्स्वर्गलोके स्वापेक्षितां रम्भादिस्त्रियमनुभवति तदेतत्सामर्थ्यमस्य युक्तं वाजपेयेन संपादितत्वात् । वर्गद्वयस्य पूर्वोत्तरकालविशेषं स्थानविशेषं च विधत्ते- पूर्वे॑ सो॑मग्र॒हा गृ॑ह्यन्ते । अप॑रे सुराग्र॑हाः । पु॒रोक्षँ॑ सौमग्र॒हान्त्साद॑यति । प॒श्चाद॒क्षꣳ सु॑राग्र॒हान् । पा॒प॒व॒स्य॒सस्य॒ विधृ॑त्यै, इति । पुरोक्षं शकटस्याधस्तादक्षस्य पुरः । पापं सुराग्रहरूपं निन्दितं कर्म, वस्यस वसुमत्तरं सामग्रहरूपं पुण्यं कर्म , तयोर्विधृत्यै विभागेन धारणाय । व्यतिषङ्गं विधत्ते- ए॒ष वै यज॑मानः। यत्सोमः॑ । अन्नँ॒॑ सुरा॑ । सोम॑ ग्र॒हाꣳ॑ श्च॑ सुराग्र॒हाꣳश्च॒ व्यति॑षजति । अन्नाद्यै॒नैवै॑नं व्यति॑ष॒ज॒ति (५), इति । व्यतिषङ्गप्रकार आपस्तम्बेन दर्शितः-“व्यतिषङ्गं सोमग्रहैः सुराग्र