तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 145, कुल 345 में से
संदर्भ में पढ़ें११६ (१.३.३) तैत्तिरीयब्राह्मणम् हान्गृह्णाति पूर्वोऽध्वर्युर्गृह्णाति जघन्यः प्रतिप्रस्थाता" इति । व्यतिषङ्गं व्यतिषज्येत्यर्थः । अध्वर्युणा प्रथमे सोमग्रहे गृहीते सति प्रतिप्रस्थाता प्रथमं सुराग्रहं गृह्णीयात् । ततो द्वितीये द्वितीयं सोऽयं व्यतिषङ्गः । अध्वर्योरुदद्रवणस्य विधास्यमानस्य मन्त्रमुत्पा (पपा?) द्य व्याचष्टे- संपृच॑ः स्थ॒ सं मा॒ भद्रे॑ण पृङ्क्तेत्या॑ह । अन्नं॒ वै भ॒द्रम् । अ॒न्नाद्ये॑नै॒वैनं॑ ँस ँसृ॑जति, इति । हे सोमग्रहा यूयं संपृचः स्थ संपर्कयोग्याः स्थ । अतो मां भद्रेण श्रेयसाऽन्नेन संपृक्त संयोजयत । प्रतिप्रस्थातुरुदद्रवणस्य विधास्यमानस्य करणभूतं मन्त्रमुत्पा (पपा ?) दयितुं प्रस्तौति- अन्न॑स्य॒ वा ए॒तच्छर्मलम् । यत्सुरा॑ । पा॒प्मेव॒ खलु॒ वै शर्मलम् । पा॒प्मना॒ वा ए॑नमे॒तच्छर्मलेन॒ व्यति॑षजति । यत्सौ॑मग्र॒हा ँश्च॑ सुराग्र॒हा ँश्च॑ व्यति॒षज॑ति, इति । पाप्मेव पापरूपमेव लोकवेदनिषिद्धत्वात् । मन्त्रमुत्पा (पपा ?) द्य व्याचष्टे- वि॒पृच॑ः स्थ॒ वि मा पा॒प्मना॑ पृङ्क्तेत्या॑ह । पा॒प्मनै॒वैनं॑ ँ शर्मले॑न॒ व्याव॑र्तयति (६) । तस्मा॑द्वाजपे॒यंया॒जी पू॒तो मेध्यो॑ दक्षिण्य॑ः, इति । हे सुराग्रहा यूयं स्थ विभागयोग्याः स्थ । अतो मां पाप्मना विपुङ्क्त विनियोजयत । तस्मात्पापव्यावृत्तत्वादयं शुद्धो यज्ञं दक्षिणां दातुं च योग्यः । अध्वर्युप्रतिप्रस्थात्रोरुद् द्रवणं विधत्ते- प्राङ्द्र॑वति सोमग्र॒हैः। अ॒मुमे॒व तैर्लोक॑म॒भिज॑यति । प्र॒त्यङ्त्सु॑राग्र॒हैः । इ॒ममे॒व तैर्लोक॑म॒भिज॑यति, इति । तदेतदुदद्रवणमापस्तम्बः स्पष्टीचकार-“संपृचः स्थ सं मा भद्रेण पृङ्क्तेति प्राङध्वर्युः सोमग्रहैरुदद्रवति । विपचः स्थ वि मा पाप्मना