भारतकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 142, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 142

तैत्तिरीयब्राह्मणम् (१.३.३) ११३ त्रायस्वैनमित्योषधिविषया वाक् । सूपस्था देवो वनस्पतिरित्यादिवनस्पतिविषया वाक् । एवं पृथिवी दीक्षेत्यादयो बहव उदाहार्याः । तदेवं सर्ववागवरोधाद्वाजपेयः प्रशस्तः । तामिमा प्रशंसामुपसंहरति- तस्मा॑द्वाजपेयया॒ज्या॒र्त्विजी॑नः । सर्वा॒ ह्य॑स्य॒ वाचोऽ- व॑रुद्धाः (७), इति । ऋत्विजीनो वाजपेयं यष्टुं प्रशस्तान्ऋत्विजोऽर्हति वाजपेयेनेष्ट्वा परार्थमार्त्विज्यं चार्हति । धावामेति॒ ज्यैष्ठ्या॑य॒ वेद॒ ब्र॒ह्मा जा॑यते वाज॒पेयः॑ सुराऽऽ र्त्विजीन एकं॑ च । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके तृतीयाध्याये द्वितीयोऽनुवाकः ॥ २ ॥ अथ तृतीयाध्याये तृतीयोऽनुवाकः । इत्थमेकेनानुवाकेन वाजपेय· विहितः । अथान्येनानुवाकेन ग्रहविशेषा विधीयन्ते, तत्रातिग्राह्यान्विधातुं प्रस्तौति - दे॒वा वै यद॒न्यैर्ग्रहै॑र्य॒ज्ञस्य॒ नावा॑रुन्धत । तद॑तिग्रा॒ह्यैर॑ति ग्रा॒ह्यावा॑रुन्धत । तद॑तिग्रा॒ह्या॑णामतिग्राह्य॒त्वम्, इति । अन्यैरैन्द्रवायवादिग्रहैर्यत्फलं न . प्राप्नुवंस्तदपि फलमतिग्राह्यसंज्ञकैर्ग्रहैरतिशयेन गृहीत्वा स्वाधीनं कृतवन्तः । इतरग्रहानतिक्रम्य दुष्प्रापं फलं गृह्णत एभिरित्यतिग्राह्याः । विधत्ते- यद॑तिग्रा॒ह्या॑ गृह्यन्ते॑ । यदे॒वान्यैर्ग्रहै॑र्य॒ज्ञस्य॒ नार्वा॑रुन्धे । तदे॒व तैर॑ति॒गृह्याव॑रुन्धे, इति । प्रकृतिगतानामग्न्यैन्द्रसौर्याणामतिग्राह्याणां चोदकादेव प्राप्तत्वात्त- द्विधित्व भ्रान्तिव्युदासाय संख्याविशेषं विधत्ते- पञ्च॑ गृह्णन्ते । पा॒ङ्क्तो य॒ज्ञः । यावा॑ने॒व य॒ज्ञः । तमा॒प्तवाऽव॑रुन्धे (१), इति ।