तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 150, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् (१.३.५) १२१ तस्मा॑त्प्रा॒णानां॒ वागु॑त्त॒मा । अथो॑ प्र॒जाप॑तावे॒व य॒ज्ञं प्र॒तिष्ठा॑पयति । प्र॒जाप॑ति॒र्हि वाक्, इति । सारस्वती यथोत्तमा चरमा भवति तथा प्रचरेत् । सप्तदशपश्वङ्गप्रचारादूर्ध्वं प्रचरेदित्यर्थः । यस्मात्सारस्वत्या उत्तमत्वं तस्माल्लोकेऽपि सस्वती रूपा वाक्प्राणापानचक्षुःश्रोत्रादीनां मध्य उत्तमा, सभामध्ये विद्वदयात्यादेर्वाग्मिनः प्रागल्भ्यदर्शनात् । किंच प्रजापतेः सरस्वतीपतित्वात्तद्भेदोपचारेण वाग्रूपत्वे सति सारस्वत्या समापनेन प्रजापतावेव यज्ञः समापितो भवति । सारस्वत्या मेष्याः किं (कं) चिद्गुणं विधत्ते- अप॑न्नदती भवति । तस्मा॑न्मनु॒ष्या॑: स॒र्वां॒ वाचं॑ वदन्ति (५), इति । अपतितदन्तोपेता मेषी कार्या । लोकेऽप्यपतितदन्ताः पुरुषाः सर्वाक्षराणि यथोक्तस्थानप्रयत्नोपेतान्येवोच्चारयन्ति । अ॒ति॒रा॒त्रम॒न्तरि॑क्षम॒क्थ्यै॑न प्र॒जाप॑तिः शमयित्वोत्त॒मया॒ प्रच॑रति॒ षट् र्चं । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके तृतीयाध्याये चतुर्थोऽनुवाकः ॥ ४ ॥ अथ तृतीयाध्याये पञ्चमोऽनुवाकः । तदेवं ब्राह्मणगतेनानुवाकत्रयेण वाजपेयगता विधय निरूपिताः । अथ मन्त्रव्याख्यानरूपान्ब्राह्मणानुवाकांस्तत्तन्मन्त्रैः सहैवोदाहरामः । तत्र प्रथममन्त्रस्य विनियोगं बौधायन आह- ‘दीक्षणीया निर्वप्स्यन्सावित्रं जुहोति- दे॒वं स॑वि॒तः प्रसु॑व य॒ज्ञं प्रसु॑व य॒ज्ञप॑तिं॒ भगा॑य दि॒व्यो ग॑न्ध॒र्वः । के॒त॒पूः केतं॑ नः पुनातु वा॒चस्पति॒र्वाचं॑म॒द्य स्व॑दाति नः ॥ स्वाहेति, दीक्षाहुतीर्होमन्सावित्रं जुहोति, प्रायणीया निर्वप्स्यन्सावित्रं जुहोति” इति । हे सवितर्देव प्रेरकान्तर्यामिन्नस्मदीयं वाजपेययज्ञं प्रवर्तय, यज्ञपतिं यजमानं भगयानुष्ठानरूपायैश्वर्याय । दिवि भवो यो गन्धर्वः सवितुरनुग्रहात्केतान्पुनाति प्राणिनो विज्ञानानि शोधयति स्म सोऽस्माकं केतं वाजपेयविज्ञानं पुनातु शोधयेत् (शोधयतु)। वाचस्पतिश्च सवित्राऽनुज्ञातोऽद्यास्मिन्कर्मणि वाचमस्माभिः