तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 149, कुल 345 में से
संदर्भ में पढ़ें१२० (१.३.४) तैत्तिरीयब्राह्मणम् तदानीं नाऽऽलभेतैत्यर्थः । आलम्भस्य व्यवधाने कारणमाह- म॒रुतो॑ य॒ज्ञम॑जिघा ँ स॒न्प्रजाप॑तेः । तेभ्य॑ ए॒तां मारु॒तीं व॒शामार॑भत । तयै॒वैना॑नशमयत् इति । सप्तदशप्रजापतिरूपो, यः प्रजापतेर्यज्ञस्तं यज्ञं मरुतः पर्यग्निकरणादूर्ध्वं हन्तुमुद्यताः । तदानीमुत्कोचरूपेण प्रजापतिर्मरुद्भ्यो वशामालभत, क्रुद्धान्मरुतस्तया वशया शमितवान् । प्राजापत्यानां संज्ञपनकालं विधत्ते- मारु॒त्या प्र॒चर्य॑ । तान्संज्ञ॑पयेत् । म॒रुत॑ ए॒व श॑म॒यित्वा (४) ए॒तैः प्र॑चरति । य॒ज्ञस्याघा॑ताय, इति । प्रचर्य मारुत्य वशाया वपां हुत्वेत्यर्थः । सप्तदशानां वपानां सह प्रचारं विदधाति- एक॑धा व॒पा जु॑होति । एक॑दे॒वत्या॑ हि । ए॒ते । अथो॑ एक॑धैव यज॑माने वी॒र्यं॑ दधति, इति । विधत्ते- नै॒वारे॑ण स॒प्तद॑शशरावेणैत॒र्हि प्र॑चरति । ए॒तत्पु॑रोडाशा॒ ह्ये॑ते । अथो॑ पशूनामे॒व च्छिद्र॒मपि॑दधाति, इति । नीवारैर्निष्पन्नश्चरुर्नैवारः, सप्तदशसंख्याकैः शरावैर्निरुप्तः सप्तदशशरावः, तेनैव चरुणैतर्हि प्राजापत्यवपाहोमादूर्ध्वं प्रचरेत् । एष एव चरु पशुपुरोडाशस्थानीयो तेषां प्राजापत्यपशूनां त एतत्पुरोडाशा अतः प्रकृतौ यथा वपया प्रचर्य पुरोडाशेन प्रचरति तद्वदत्रापि । किंच वपोत्खेदात्पशूनां यच्छिद्रं कर्मवैकल्यं भवति तदेतेन चरुणाऽपिहितं भवति । सारस्वस्या मेष्याङ्गप्रचारस्य कालविशेषं विधत्ते- सा॒र॒स्व॒त्यात्त॒मया॑ प्र॑चरति । वाग्वै सर॑स्वती ।