भारतकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 139, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 139

११० (१.३.२) तैत्तिरीयब्राह्मणम् प्रथमं स एव तेन वाजपेयेनेष्ट्वा स्वाराज्यमपारतन्त्र्यरूपं माहाराज्यमगच्छत् तत इन्द्रस्तं बृहस्पतिं संप्राप्य तेन वाजपेयेनेष्ट्वा देवानां मध्ये ज्येष्ठत्वं पारतन्त्र्येण स्वर्गाधिपत्यलक्षणस्वाराज्यं चागच्छत् । अस्येन्द्रस्य ज्यैष्ठ्यमितरे सर्वे देवा मात्सर्यं परित्यज्याङ्गीचक्रुः । य ए॒वं वि॒द्वान्वा॑जपे॒येन॒ यज॑ते । गच्छ॑ति॒ स्वारा॑ज्यम् । अग्रँ॑ समा॒नानां॒ पर्ये॑ति । तिष्ठ॑न्तेऽस्मै॒ ज्यैष्ठ्या॑य, इति । अधिकारविशेषविधिमुन्नयति- स वा ए॒ष ब्रा॑ह्म॒णस्य॑ चैव राज॒न्य॑स्य च य॒ज्ञः, इति । स बृहस्पतिनाऽनुष्ठितः । एष इन्द्रेणानुष्ठितः देवानां मध्ये बृहस्पतिर्ब्रा ह्मणजात्यभिमानी, इन्द्रः क्षत्रियजात्याभिमानी, ताभ्यामेवानुष्ठितत्वा- न्मनुष्येष्वपि ब्राह्मणराजन्ययोरेवात्राधिकारो नतु वैश्यस्य । अत वाऽ ऽपस्तम्ब आह-"शरदि वाजपेयेन यजेत् ब्राह्मणो राजन्यो वर्द्धिकामः" इति । नामनिर्वचनं दर्शयति- तं वा ए॒तं वाज॑पेय॒ इत्या॑हुः । वा॒जाप्यो॒ वा ए॒षः । वाजँ॒ ह्ये॑तेन॑ दे॒वा ऐप्सन्॑, इति । वाजो देवान्नस्वरूपः सोमः पेयो यस्मिन्यागे स वाजपेय इत्येकं निर्वचनम् । यस्मादेतेन यज्ञेन देवा वाजं फलरूपमन्नप्राप्तु- मैच्छंस्तस्मादन्नरूपो वाजः पेयः प्राप्यो येन स वाजपेय इत्यपरनिर्वचनम् । सोमस्यैतद्यागसाधनत्वातदभेदेन यागं तद्धेनं च स्तौति- सोमो॒ वै वाज॑पेयः । यो वै सोमं॒ वाज॑पेयं॒ वेद॑ (३)। वाज्ये॑वै॒नं पी॒त्वा भव॑ति । आऽस्य॑ वा॒जी जा॑यते, इति । एनं वाजपेयगतं सोमं फलभूतान्नाभेदोपचारेण स्तौति- अन्नं॒ वै वाज॑पेयः । य ए॒वं वेद॑ । अत्यन्न॑म् । आऽ स्यान्ना॒दो जा॑यते, इति । यागप्रतिपादकवेदाभेदोपचारेण स्तौति-

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १) · पृष्ठ 139, कुल 345 में से · BharatKosha