तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 140, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् (१.३.२) १११ ब्रह्म॒ वै वाज॑पेयः । य ए॒वं वेद॑ । अति॑ ब्रह्म॒णाऽन्न॑म् । आ॒ऽस्य॑ ब्रह्म॒ जाय॑ते (४), इति । ब्रह्मणा वेदाध्ययनसंपादितया गुरुदक्षिणयेत्यर्थः । ब्रह्मा वेदाध्यापकः । मन्त्रोच्चारणसाधनभूतवाग्भेदोपचारेण स्तौति- वाग्वै वाज॑स्य प्र॒सव॑: । य ए॒वं वेद॑ । क॒रोति॑ वा॒चा वी॒र्य॑म् । एनं॑ वा॒चा ग॑च्छति । अपि॑वतीं॒ वाचं॑ वदति, इति । देव सवितः प्रसुवेत्यादिमन्त्ररूपा वागेव वाजस्य वाजपेयस्य प्रसव उत्पत्तिहेतुः । य एतद्वेदिता स तया सभायां पाण्डित्यरूपतया वाचा वीर्यमतिशयं करोति । सभागताश्च विद्वत्संघः स्तुतिरूपया वाचा युक्तमेममागच्छति । बहुधा प्रशंसतीत्यर्थः । पुनरपि वाजपेयवाक्यं श्रोष्यामि तदर्थं ज्ञास्याम्यनुतिष्ठामीत्येतादृशीं पुनरपीत्यपिशब्दोपेतां वाचं सर्वदा वदति । श्रद्धालुर्भवतीत्यर्थः । एकादशानुवाकगतानामुज्जितिमन्त्राणां पाठं विधातुं प्रस्तौति । प्र॒जाप॑तिर्दे॒वेभ्यो॑ य॒ज्ञान्व्यादि॑शत् । स आ॒त्मन्वाज॑पेय॒मध॑त्त । तं दे॒वा अ॑ब्रुवन् । ए॒ष वाव य॒ज्ञः । यद्वाज॑पेयः (५) । अप्ये॑व नो॒ऽत्रा॑स्त्विति॑ । तेभ्य॑ ए॒तानुज्जि॑तीः प्राय॑च्छत्, इति । प्रजापतिरितरेभ्यो देवेभ्योऽग्निष्टोमादीन्यज्ञान्विभज्य दत्वा वाजपेयं स्वस्मिन्नेव स्थापितवान् । देवाश्च वाजपेय एव मुख्यो यज्ञोऽतोऽस्माकमप्यत्र भागोऽस्त्वित्यब्रुवन्, स च तेभ्य उज्जितिमन्त्रान्प्रायच्छत् । विधत्ते- ता वा ए॒ता उज्जि॑तयो॒ व्याख्या॑प्यन्ते । य॒ज्ञस्य॒ सर्व॑त्वाय॑ । दे॒वता॑ना॒मनिर्भागाय, इति । व्याख्यायन्ते व्याख्यापयेरन्पठनीया इत्यर्थः । तत्पाठेन यज्ञस्य सर्वत्वमवैकल्यं भवति । देवताश्च भगयुक्ता भवन्ति । तेषु मन्त्रेष्वग्निरश्विनौ । विष्णु सोम इत्येवं तद्भागभाजो देवता आम्नाताः । अयं विधिरापस्तम्बेन स्पष्टं दर्शितः-“अग्निरेकाक्षरेणेति