भारतकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 147, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 147

११८ (१.३.४) तैत्तिरीयब्राह्मणम् अथ चतुर्थोऽनुवाकः । ग्रहावाधमतेनानुवाकेन समाप्यनुवाकान्तरेण पशून्विधातुं प्रस्तौति- ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । नाग्नि॒ष्टोमो नोक्थ्य॑ः । न षो॒ड॒शी नाति॑रा॒त्रः । अथ॒ कस्मा॑द्वाजपे॒ये सर्वै॑ य॒ज्ञक्रत॑वोऽव॑रुध्यन्त॒ इति॑ । प॒शु॒भिरिति॑ ब्रूयात्, इति । यज्ञशब्देन देशत्यागरूपाः प्रयाजादयः प्रत्येकमभिधीयन्ते । तत्समूहरूप एव फलसाधनात्मा कर्मविशेषः क्रतुः। वेदवादिनो मिलित्वा परस्परमेवं विचारयन्ति । यज्ञाश्च क्रतवश्च सर्वेऽपि वाजपेयेऽन्तर्भूता इत्यस्ति प्रसिद्धिः । तत्कथमुपपद्यते । तथाहि । प्रयाजादीनां दाक्षणीयादिद्वारा तत्रान्तर्भावेऽप्यग्निष्टोमादीनामन्तर्भावात् । तेषां ब्रह्मवादिनां मध्ये कश्चिद् बुद्धिमानेवमुत्तरं ब्रूयात् । अग्निष्टोमादिगतैराग्नेयादिसवनीयपशुभिः क्रतवोऽन्तर्भूता इति । पशून्विधत्ते- आ॒ग्ने॒यं प॒शुमा॑लभते । अ॒ग्नि॒ष्टोम॑मेव तेना॑वरुन्धे । ऐ॒न्द्रा॒ग्नि॒नोक्थ्य॑म् । ऐ॒न्द्रेण॑ षो॒ड॒शिन॑: स्तोत्र॑म् । सा॒र॒स्व॒त्याऽति॑रा॒त्रम् (१) । मा॒रु॒त्या बृ॒हत॑: स्तोत्र॑म् । ए॒ताव॑न्तो॒ वै य॒ज्ञक्रत॑वः । तान्प॒शुभि॑रे॒वाव॑रुन्ध, इति । आग्नेयादयोऽग्निष्टोमादीनां व्यावर्तकाः पशवः । षोडशिनो ग्रहस्य स्तोत्रं तेन स क्रतुरुपलक्ष्यते । सारस्वती मेषी सा चातिरात्रस्य व्यावृत्तिहेतुः । मारुती वशा तयाऽनूबन्ध्यया बृहत्सामसंबन्धि स्तोत्रमवरुन्धे, तेन च स्तोत्रेण वाजपेय उपलक्ष्यते तस्य चासाधारणत्वात् । तानेतान्पशुविधीन्बौधायन उदाहरति-“आश्विनं गृहीत्वा षड्रशना आदाय यूपमभ्यैति स्वर्वन्तं यूपमुत्सृज्याथैनान्पशूनुपाकरो-त्याग्नेयमैन्द्राग्नमैन्द्रं मारुतीं वशां सप्त दश प्रजापत्याञ्स्यामाने-करूपान्सरस्वतीमततः” इति । आपस्तम्बस्त्वाग्नेयादीनां चोदकप्राप्ता-नामनुवादं मत्वा मेषीमारुत्योर्विधिमुदाहरति- “पशुकाले त्रीन्क्रतुपशूनुपाकृत्य मारुतीं वशामुपाकरोति सारस्वतीं च मेषीम्’ इति । आत्मादिप्रीतिहेतुत्वेन भूम्यादिलोकजयहेतुत्वेन तेजःप्रभृतिधारण- हेतुत्वेन च क्रतुपशून्प्रशंसति-