तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 126, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् (१.२.६) ९७ अन्तिमादतिरात्रात्पूर्वश्वःसु योऽन्तः संवत्सरस्योपान्तरूपो देशस्तत्रैतदहः कर्तव्यम् । यद्यस्मादिदमेव महाव्रतमन्ते क्रियते तस्माल्लोकेषूत्कृष्टस्य कृष्यादिव्यापारस्यान्ते फलदशायां प्रजाः सम्यग्वर्धन्ते । तस्मात्प्रजावृद्ध्यर्थमितरेषामह्नामन्त एवैतत्कर्तव्यम् । अस्याह्नः पक्षिरूपत्वं परिकल्प्य तदवयवरूपेण स्तोमं विधत्ते- त्रि॒वृच्छिरो॑ भवति (२)। त्रे॒धा विहि॑तं॒ हि शिर॑: । लोम॑ छ॒वीरस्थि॑, इति । ऋक्त्रयात्मकमेकं सूक्तं तादृशानि त्रीणि सूक्तानि त्रिवृतोऽवयवा यस्य स्तोमस्य सोऽयं स्तोमस्त्रिवृत् । स च पक्ष्याकारस्य शिरः स्थानीयः । लोकेऽपि शिरस्त्रिधा निर्मितम् । लोम केशः । छवीस्त्वक् । अस्थि प्रसिद्धम् । तदिदं शिरसस्त्रैविध्यम् । तस्य त्रिवृत्स्तोमस्य पञ्चदशादिस्तोमवदावृत्तगानशङ्कां वारयितुमूर्ध्वगानं विधत्ते- परा॑चा स्तुवन्ति । तस्मा॑त्स॒दृगे॒व । न मेद्य॑तो॒ऽनुमेद्यति॑ । न कृ॒श्य॒तोऽनु॑ कृश्यति, इति । आवृत्तिराहित्यं पराक्त्वं तादृशेन त्रिवृता स्तुतिं कुर्युः। यस्माच्छिरःस्थानीयस्य त्रिवृत आवृत्तिर्नास्ति तस्माल्लोकेऽपि त्रिवृत्स्थानीयं तच्छिर एक रूपमेव मेद्यतः स्थौल्यं गच्छतः शरीरस्यापि संबन्धि भूत्वा स्वयं न मेद्यति न स्थूली भवति । तथा कृश्यतः कृशीभवतः शरीरस्य संबन्धि भूत्वा स्वयं न कृशी भवति । अथ पक्षद्वयस्थानीयं स्तोमद्वयं विधत्ते- प॒ञ्च॒द॒शौऽन्यः प॒क्षो भ॑वति । स॒प्त॒द॒शौऽन्यः॑ । तस्मा॑द्वया॑ '५ स्यन्यत॑र॒मर्ध॑म॒भिप॒र्याव॑र्तन्तै । अ॒न्य॒त॒रतो॒ हि तद्गरीयः क्रियते॑ (३), इति । यस्मांद्रान्तरत एकस्मिन्पक्षरूपे सप्तदशाख्ये स्तोमे तत्स्तोत्रं गरीयोऽधिकावृत्तिरूपम् । यस्माल्लोकेऽपि पक्षिण आकाशे गच्छन्तः पर्यावर्तमाना दक्षिणं वामं वाऽन्यतरमर्धमभिलक्ष्य प्रवृद्धमिव कृत्वा पर्यावर्तन्ते ।