तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 127, कुल 345 में से
संदर्भ में पढ़ें९८ (१.२.६) तैत्तिरीयब्राह्मणम् योऽयं पूर्वत्र विहितः पञ्चविंशः स्तोमो भवतीति तं मध्यशरीरत्वकल्पनया प्रशंसति- प॒ञ्च॒वि॒ꣳ॒श आ॒त्मा भ॑वति । तस्मा॑न्मध्य॒तः प॒शवो॒ वरि॑ष्ठाः, इति । आत्मा पक्ष्याकारस्य महाव्रतस्य मध्यशरीरम् । तस्मादयं पञ्चविंशस्तोम इतरेभ्यस्त्रिवृदादिस्तोमेभ्यो भूयांस्तस्मात्पशवो मध्यशरीरभागे वरिष्ठाः स्थौल्ययुक्ता दृश्यन्ते । अथ पुच्छस्थानीयं स्तोमन्तरं विधत्ते- ए॒क॒वि॒ꣳ॒शं पु॒च्छम् । द्वि॒पदा॑सु स्तुवन्ति॒ प्रति॑ष्ठित्यै, इति । योऽयमेकविंशस्त्र्यावृत्तिरूपः स्तोमस्तत्पक्षिरूपस्य महाव्रतस्य पुच्छम् । तंचित्स्तोमं द्विपदास्वृक्षु स्तुवन्ति । पादद्वयेन हि मनुष्याः प्रतितिष्ठन्ति । त्रिवृदादिस्तोमानामृतविजां च समुच्चयं विधत्ते- सर्वे॑ण स॒ह स्तु॑वन्ति । सर्वे॑ण॒ ह्यात्मना॑ऽऽत्म॒न्वी । स॒होत्प॑तन्ति, इति । योऽयं त्रिवृदादिकः पञ्चविंशान्तः स्तोमसंघस्तेन सर्वेणापि स्तुतिं कुर्यु ऋत्विजश्च सर्वे सहैव स्तुतिं कुर्युः । यस्माल्लोके सर्वेणाऽऽत्मना कृत्स्नेनावयववर्गसंघेन पक्षपुच्छादिना पतङ्ग आत्मन्यवयवी भवति न त्वेकेकेनावयवेन । तस्मादत्रापि सर्वे स्तोमाः यस्माच्च लोके सर्वे पक्षिणः सहोत्पतन्ति तस्मादत्र सर्वेऽप्यृत्विजः सहैव स्तुतिं कुर्युः । अत एव च्छन्दोगा आमनन्ति- “सर्वे सहर्त्विजो महाव्रतेन स्तुवीरन् । अध्वर्युशिरसोद्गायेत्” इत्यादिना । तत्र कंचिद्विशेषं विधत्ते- एकै॑कामुच्छि॑षन्ति । आ॒त्मन्ह्यङ्गा॑नि ब॒द्धानि॑, इति । अध्वर्युप्रभृतयः स्वस्वस्तोत्रेण गानं कुर्वन्तः स्वकीयामन्तिमां स्तोत्रीयामुच्छिषेयुः, न तु तया स्तुतिं कुर्युः । यतो लोके कस्मिंश्चिदात्मन्मध्यशरीरे सर्वाण्यवयवान्तराणि बद्धानि भवन्त्यतोऽत्रापि मध्यशरीरस्थानीयायामेकैकस्यां स्तोत्रीयायामवशेषितायामङ्गान्तराणि तत्राऽऽ पादयितुं शक्यानि । अन्यथा निराधाराण्यङ्गानि स्युः । तां च तत्र तत्रावशिष्टां स्तोत्रीयामुद्गाता गायेत् । अत एव च्छन्दोगैराम्नायते-“एवं