तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 117, कुल 345 में से
संदर्भ में पढ़ें८८ (१.२.३) तैत्तिरीयब्राह्मणम् ए॒क॒विं॒शमह॑र्भवति । शुक्राग्रा॒ ग्रहा॑ गृह्यन्ते । प्रत्युत्त॑ब्ध्यै सय॒त्वाय॑, इति । त्रिवृत्पञ्चदशसप्तदशापेक्षयाऽयमेकविंशस्तोम उन्नततः । एतदनुष्ठानेन वंशस्थानीयस्य विषुवतः प्रत्युत्तब्ध्यै प्राप्तिस्विकायोन्नत- बन्धाय भवति । ग्रहाणां चैन्द्रवायव्याग्नेयत्वं परित्यज्य शुक्राग्रत्वानुष्ठानेन सयत्वं भवति । षिञ् बन्धन इत्यस्माद्धातोत्पन्नः सयशब्दः । शुक्राग्रग्रहसामर्थ्येन दृढबन्धनं भवतीति भावः । अथ तस्मिन्पशुविशेषमतिग्राह्यविशेषं च क्रमेण विधत्ते- सौ॒र्य ए॒तदह॑ः प॒शुरा॒लभ्य॑ते । सौ॒र्योऽति॑ग्राह्यो॑ गृह्यते । अह॑रेव रू॒पेण॒ समर्ध॑यन्ति । अथो॒ अह॑ ए॒वैष ब॒लिर्हि॑यते, इति । एतस्मिन्विषुवत्यह्नि सूर्यदेवताकः पशुरालम्भनीयः । अतिग्राह्यश्च सूर्यदेवताको ग्रहीतव्यः । तथा सति दिवाकीर्त्यस्याह्नः सूर्यसंबन्धेन रूपं समृद्धं भवति । अपि चैतस्याह्नः सूर्यसंबन्धरूप एव बलिः पूजा कृता भवति । विषुवद्दिनगतामतिग्राह्यसंख्यां प्रशंसति- स॒प्तैतदह॑रतिग्रा॒ह्या॑ गृह्यन्ते (२) । स॒प्त वै शी॑र्ष॒ण्या॑ः प्रा॒णाः । असा॒वादित्यः शिर॑ः प्र॒जाना॑म् । शीर्ष॒न्नेव प्र॒जानां॑ प्रा॒णान्द॑धाति । तस्मा॑त्स॒प्त शीर्ष॒न्प्राणा॑ः, इति । परःसामसंबन्धिनोऽङ्क्यस्त्वोषधीभ्य इत्यादिमन्त्रसाध्याः पराञ्चो- ऽर्वाञ्चश्चातिग्राह्याः षट्संख्या विषुवति विहिताः । तेषां मध्ये सौर्य एक एवमेते सप्तसंख्याकाः शिरोगतच्छिद्रवर्तिनश्च प्राणाः सप्त मध्यातिग्राह्यस्य देव आदित्य ऊर्ध्ववर्तित्वात्प्रजानां शिरः स्थानीयः । तथा सति प्रजानां शिरस्येव प्राणाः स्थापिता भवन्ति । तस्माल्लोके सर्वत्र शिरसि सप्त प्राणा दृश्यन्ते । अथाष्टममतिग्राह्यं विधत्ते - इन्द्रो॑ वृ॒त्र ँह॒त्वा । असु॑रान्परा॒भाव्य॑ । स इ॒माँल्लो॒- कान्॒भ्य॑जयत् । तस्या॒सौ लो॒कोऽन॑भिजित आसीत् । तं